________________
॥ द्वादशः सर्गः ॥ पद्मपत्रपुटेनाऽम्भो रामोऽथाऽऽदाय सत्वरः । स्खल्यमानोऽपशकुनैः कृष्णाभ्यर्णमुपाययौ ॥१॥ सुप्तोऽसौ सुखमस्तीति बुद्ध्या तस्थौ क्षणं बलः । दृष्ट्वा च मक्षिकाः कृष्णाः कृष्णास्याद् वस्त्रमाक्षिपत् ।।२।। ततोऽज्ञासीन् मृतं बन्धुं बल: सद्योऽथ मूर्च्छया । पपात जगतीपृष्ठे कृत्तबुध्न इव द्रुमः ॥३॥ कथञ्चिल्लब्धसंज्ञः सन् सिंहनादं बलोऽकरोत् । वि।सुः श्वापदास्तेन चकम्पे चाऽखिलं वनम् ॥४।। इत्युवाच च येनेह सुखसुप्तो ममाऽनुजः । विश्वैकवीरः पापेन निजघ्ने स्वं स शंसतु ।।५।। स मे समक्षीभवतु सत्यं हि सुभटो यदि । सुप्त-प्रमत्त-भ्रूणर्षि-स्त्रीषु हि प्रहरेत कः ? ॥६॥ इत्युच्चैः शब्दमाकोशन् रामो बभ्राम तद्वनम् । भूयः कृष्णमुपेयाय तमालिङ्ग्य रुरोद च ॥७॥ हा भ्रातः ! अवनीवीर ! हा मदुत्सङ्गलालित ! । हा कनिष्ठ ! गुणज्येष्ठ ! विश्वश्रेष्ठ ! क्व तिष्ठसि ? ॥८॥ विना भवन्तं न स्थातुमीशोऽस्मीति पुराऽवदः । वचोऽपि नाऽधुना दत्से क्व सा प्रीतिर्जनार्दन ! ? ॥९॥ नाऽपराधं स्मरामि स्वं रुषितश्च निरीक्ष्यसे । किं वा यो मे विलम्बोऽभूत् स ते रोषस्य कारणम् ? ॥१०॥ स्थानेऽसि रुषितो भ्रातः । तथाप्युत्तिष्ठ सम्प्रति । गच्छत्यस्तं रविः स्वप्नकालो नैष महात्मनाम् ॥११॥ एवं च प्रलपन् रामस्तामतीयाय यामिनीम् । उत्तिष्ठोत्तिष्ठ हे भ्रातः ! प्रातरप्येवमब्रवीत् ॥१२॥ अनुत्तिष्ठन्तमुत्थाय तमथ स्नेहमोहितः । रामः स्कन्धे समारोप्याऽभ्राम्यद् गिरि-वनादिषु ॥१३॥ कृष्णकायं वहन्नर्चन् पुष्पाद्यैरन्वहं बलः । षण्मासानतिचक्राम भ्रातृस्नेहविमोहितः ।।१४।। पतत्रैव पर्यटत्येवं वर्षाकालः समाययौ । सिद्धार्थः सोऽमरीभूतो ददर्शाऽवधिना च तम् ॥१५॥ सोऽचिन्तयच्च यदहो ! भ्राता मे भ्रातृवत्सलः । मृतं कृष्णं वहन्नस्ति तदेनं बोधयाम्यहम् ॥१६॥ मामेषोऽथितपर्वी च यन्मां विपदि बोधयेः । ध्यात्वेत्यनेरुत्तरन्तं चक्रे सोऽश्ममयं रथम् ॥१७॥ उत्तीर्य विषमाच्छैलात् सोऽभज्यत रथः समे । कुटुम्बिरूपस्तं देवः सन्धातुमुपचक्रमे ॥१८॥ बलस्तमू मुग्ध ! रथं सन्धातुमिच्छसि? | उत्तीर्य विषमादद्रेर्यः समे खण्डशोऽभवत् ।।१९।। देवोऽप्यूचे युत्संहस्रेष्वहतो यो युधं विना । मृतो जीवेद् यदा ह्येष स्यात् सज्जो मे रथस्तदा ॥२०॥ आरोपयितुमारेभे देवोऽथाऽश्मनि पद्मिनीः । बलोऽप्युवाच किं ग्राणिं प्ररोहत्यब्जिनीवनम् ? ॥२१॥ प्रत्युवाचाऽमरोऽप्येवमयं तव यदाऽनुजः । जीविष्यति सरोजिन्यस्तदाऽऽरोक्ष्यन्त्यमूरपि ॥२२॥ किञ्चिदग्रे पुनर्भूत्वाऽसिञ्चद् दग्धद्रुमं सुरः । बलोऽप्यूचे दग्धतरुः किं सिक्तोऽपि प्ररोहति? |२३|| तं प्रत्युवाच देवोऽपि यदा स्कन्धस्थितं तव । जीविष्यति शवं वृक्षः प्ररोक्ष्यति तदा ह्ययम् ॥२४॥ गोपीभूयाऽमरः सोऽग्रे गोशेबास्येषु नूतनाः । दूर्वाः प्रक्षेप्तुमारेभे जीवद्गव्याननेष्विव ॥२५॥ बलभद्रो बभाषे तमस्थिभूता इमाः कदा । गावो दूर्वाश्चरिष्यन्ति त्वद्दत्ता मूढमानस !? ॥२६॥ देवोऽभ्यधाद् यदा ह्येष जीविष्यति तवाऽनुजः । इमा अपि तदा गावश्चरिष्यन्ति तृणान्यहो ! ॥२७।। गरामोऽपि विमम®वं किं सत्यं मे मुतोऽनुजः ? । एकवाक्यतयाऽमी यद् वदन्त्येवं पृथक् पृथक् ॥२८॥ देवस्तच्चिन्तितं ज्ञात्वा सद्यः सिद्धार्थरूपभृत् । पुरो भूत्वाऽब्रवीदेष सिद्धार्थः सारथिस्तव ॥२९॥ तदा प्रव्रजितो मृत्वा देवभूयमगामहम् । त्वां बोधयितुमत्राऽऽगामथितोऽस्मि पुरा त्वया ॥३०॥
जराँकुमारात् कृष्णस्य वधः प्रोक्तो हि नेमिना । जज्ञे च स तथा नैवाऽन्यथा सर्वज्ञभाषितम् ॥३१॥ १. कृन्तमूल मु० । २. समाने भूभागे । ३. युद्धसहस्रेषु । ४. पाषाणे । ५. गवां मृतकानि, तद्वदनेषु । ६. दूर्वां चरि० खं० १, ला० सू० । ७. त्वद्दत्तां खं. १, ला० सू० । ८. जरत्कुमारात् खं० १, सू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org