________________
एकादशः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१४५
इति क्षणं ध्यानमवाप्य रौद्रं, सर्मासहस्रं परिपूरितायुः । निकाचितैः कर्मभिरजितां प्राक्, कृष्णस्तृतीयामवनीमवाप॥१६४॥
कौमारान्तः षोडशाब्दानि विष्णोः,
षट्पञ्चाशन्मण्डलित्वे जये तु । वर्षाण्यष्टाऽथो नवाऽगुः शतानि,
विशान्युच्चैरर्धचक्रित्वकाले ॥१६५।।
॥इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये अष्टमे पर्वणि द्वारकाङ्क्षय-कृष्णावसानकीर्तनो
नाम एकादशः सर्गः ।
१. वर्षसहस्रम् । २. वालुकाप्रभाम् । ३. कौमारे १६ वर्षाणि । ४. मण्डलिके ५६ वर्षाणि । ५. जये ८ वर्षाणि । ६. वासुदेवत्वे ९२० वर्षाणि, आयु: वर्षसहस्रम् । ७. अष्टमपर्वणि खं. १-२, ला० सू० मु० । ८. ०दाह० खं. १, सू० । ९. नामैकादशमः ला०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org