________________
१४४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
मृगव्येन भ्रमंस्तत्राऽपश्यत् कृष्णं तथास्थितम् । मृगबुद्ध्या तले चाऽहन् जारेयस्तीक्ष्णपत्रिणा ॥१३०॥ वेगादुत्थाय गोविन्दो जगादाऽहं विनाऽऽगसा । छलात् पादतले विद्धः केनाऽनाभाष्य पत्रिणा ? ॥१३१।। हतपूर्वी क्वचिन्नाऽहमज्ञातज्ञातिनामकम् । भवानपि तदाख्यातु निजं गोत्रं च नाम च ॥१३२॥ दुमान्तरस्थः सोऽप्यूचे हरिवंशाब्धिशीतगोः । वसुदेवदशार्हस्य जराकुक्षिभवः सुतः ॥१३३।। जराकुमारो नाम्नाऽहमग्रजो राम-कृष्णयोः । कृष्णरक्षार्थमत्राऽऽगां श्रुत्वा श्रीनेमिनो वचः ॥१३४॥ अब्दानि द्वादशाऽभूवन्नद्येह वसतो मम । मानुषं चेह नाऽद्राक्षं कस्त्वमेवं ब्रवीषि भोः !? ॥१३५।। कृष्णोऽथाऽवोचदेह्येहि पुंव्याघ्र ! हरिरस्म्यहम् । तव भ्राता स एवैष यस्याऽर्थे वनवास्यभूः ॥१३६।। वृथा प्रयासस्ते जज्ञे द्वादशाब्दानि बान्धव ! । दिग्मोहेनेव पान्थस्य सुदूरोल्लङ्घिताध्वनः ॥१३७॥ श्रुत्वेति किमयं कृष्ण इति तत्रैव सत्वरम् । जरत्कुमार आयासीद् दृष्ट्वा कृष्णं मुमूर्छ च ॥१३८।। कथमप्याप्तसंज्ञः सन् जारेयः करुणं रुदन् । पप्रच्छ कृष्णं हा भ्रातः ! किमेतत् ? किमिहाऽऽगमः ? ॥१३९॥ किं द्वारका पुरी दग्धा ? किं यदूनां क्षयोऽभवत् ? । सा नूनं नेमिवाक् सर्वा सत्या तेऽवस्थयाऽनया ॥१४०॥ कृष्णोऽपि सर्वमाचख्यौ जारेयोऽपि रुदन् पुनः । इत्यूचे हा ! मया भ्रातुरागतस्योचितं कृतम् ॥१४१॥ कनिष्ठं दुर्दशामैग्नं भ्रातरं भ्रातृवत्सलम् । त्वां निहन्तुर्मम स्थानं क्व नाम नरकावनौ ? ॥१४२।। वनवासं तव त्राणबुद्धयाऽकार्षमहं किल । न जाने विधिना यत्ते स्थापितः पुरतोऽन्तकः ॥१४३॥ हे पृथ्वि ! देहि विवरं वरमद्यैव येन ताम् । अनेनैव शरीरेण प्रयामि नरकावनिम् ॥१४४।। अतः परमिह स्थानमधिकं नरकादपि । सर्वदुःखाधिके भ्रातृहत्यादुःख उपस्थिते ॥१४५।। वसुदेवस्य पुत्रोऽहं किं भ्राता तव चाऽभवम् ? । किं वाऽभूवं मनुष्योऽपि ? यः कर्माऽकार्षमीदृशम् ॥१४६।। सर्वज्ञवचनं श्रुत्वा तदैव न मृतोऽस्मि किम् ? । जनमात्रे मयि मृते किं न्यूनं स्यात् सति त्वयि ? ॥१४७।। ततो बभाषे कृष्णस्तं कृतं भ्रातः ! शु! तव । न त्वया न मया वापि लध्यते भवितव्यता ॥१४८॥ अवशिष्टस्त्वमेवैको यदुभ्यो जीव तच्चिरम् । याहि याह्यन्यथा रामस्त्वां हन्यान्मद्वधक्रुधा ॥१४९॥ अभिज्ञानं कौस्तुभं मे गृहाण व्रज पाण्डवान् । वृत्तान्तं कथयेः सर्वं सहायाः सन्तु ते तव ।।१५०॥ अपसार्यं त्वया किञ्चिद विपरीतैः पदैरितः । पदानुसारी रामस्त्वां यथा प्राप्नोति न द्रुतम् ॥१५१॥ मद्वाचा क्षमयेः सर्वान् पाण्डवानपरानपि । मयैश्वर्यजुषा पूर्व क्लेशितान् प्रेषणादिभिः ॥१५२॥ एवं पुनः पुनः कृष्णेनोक्तः सोऽपि तथैव हि । कृष्णपादाच्छरं कृष्ट्वा जगामोपात्तकौस्तुभः ॥१५३॥ गजारेये च गते पादवेदनातॊ जनार्दनः । उदङ्मुखः प्राञ्जलिश्च वक्तुमेवं प्रचक्रमे ॥१५४॥ 'नमोऽर्हद्भयो भगवद्भयः सिद्धेभ्यश्च नमो नमः । आचार्येभ्य उपाध्याय-साधुभ्यश्च नमस्त्रिधा ॥१५५॥ नमो भगवते विश्वस्वामिनेऽरिष्टनेमिने । त्यक्त्वाऽस्मदादीन् यः पापांस्तीर्थं प्रावर्तयद् भुवि ॥१५६।। इत्युक्त्वा संस्तरे तोर्णे स्थित्वा जानूपरि क्रमम् । न्यस्य प्रावृत्य वस्त्रेण कृष्णः पुनरचिन्तयत् ॥१५७।। धन्यः स भगवान्नेमिर्वरदत्तादयश्च ते । प्रद्युम्नाद्याः कुमाराश्च रुक्मिण्याद्याश्च मत्स्त्रियः ॥१५८॥ गृहवासं परित्यज्य भववासनिबन्धनम् । ये प्रव्रजुरेतं तु धिग् मां प्राप्तविडम्बनम् ॥१५९।। एवं भावयतस्तस्याऽभञ्जन्नङ्गानि सर्वतः । चुकोप प्रबलो वायुः कृतान्तस्येव सोदरः ॥१६०॥ तृष्णा-शुग्-घात-वातैस्तैरर्दितोऽथ जनार्दनः । भ्रश्यद्विवेकः सद्योऽपि पुनरेवमचिन्तयत् ॥१६१॥ पराभूतो न केनापि जन्मतो नृ-सुरैरपि । द्वैपायनेन प्रथमं नीतोऽहं कीदृशी दशाम् ॥१६२॥
इयत्यपि गते तं चेत् पश्याम्युत्थाय तत्स्वयम् । अन्तं नयामि स कियान् ? क: स्यात् तं रक्षितुं क्षमः? ॥१६३।। १. आखेटेन । २. जराया अपत्यं जारेय:-जराकुमारः । ३. कृष्णोऽपि मु० । ४. जराकुमार० खं० २ । ५. दुर्दशाप्राप्तं खं० २। ६. शोकेन । ७. अभिसार्यं ला० । ८. त्रिधा नमः मु० । नमोऽस्तु मे ला० । ९. तृणनिर्मिते । १०. योषितः ला० । ११. प्रवव्रजिरे
तं म्०र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org