________________
एकादशः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
बभाषे बलभद्रोऽपि सुहृत्-सम्बन्धि - बान्धवाः । अस्माकं पाण्डुतनयास्तद्यावस्तन्निकेतनम् ॥९६॥ कृष्णोऽप्यूचे तदानीं ते मया 'निर्विषयाः कृताः । कथं तद्धाम्नि यास्यावः स्वापकारेण लज्जितौ ? || ९७|| ऊचे रामोऽप्युपकारं सन्तो दधति चेतसि । कदापि कुस्वप्नमिव नाऽपकारं स्मरन्ति तु ॥ ९८ ॥
अनेकधा सत्कृतास्ते कृतज्ञाः पाण्डुसूनवः । पूजामेव करिष्यन्ति भ्रातः ! विमृश नौऽन्यथा ॥९९॥ इत्युक्तः सीरिणा शाङ्ग प्राचलत् पूर्वदक्षिणाम् । उद्दिश्य पाण्डवपुरीं तां पाण्डुमथुराभिधाम् ॥१००॥ |इतश्च पुर्यां ज्वलन्त्यां रामसूः कुब्जवारकः । चरमाङ्गोऽधिसौधाग्रमूर्ध्वबाहुरदोऽवदत् ॥ १०१ ॥ शिष्यः श्रीनेमिनाथस्याऽधुना व्रतधरोऽस्म्यहम् । आख्यातः स्वामिना चाऽहं चरमाङ्गः शिवं गमी ॥१०२॥ प्रमाणमर्हदाज्ञा चेत् तद् दह्येऽहं किमग्निना ? । इत्युक्ते जृम्भका देवास्तं निन्युः स्वामिनोऽन्तिके ॥१०३॥ श्रीनेमिः पल्हवे' देशे तदा हि समवासरत् । तत्र च प्राव्रजत् कुब्जवारकः स महामनाः ॥ १०४ ॥ प्रागप्रव्रजिता यास्तु राम - कृष्णादियोषितः । नेमिं स्मरन्त्यो विहितानशनास्ता विपेदिरे ॥ १०५ ॥ षष्टिर्द्वासप्ततिश्चापि निर्दग्धाः कुलकोटयः । षण्मास्यैवं पुरी दग्धा प्लाविता चाऽब्धिना ततः ॥१०६॥ १इतश्च गच्छन् कृष्णोऽपि हस्तिकल्पं पुरं पथि । प्राप्तः सन् क्षुद्भवां पीडां शशंस हलधारिणे ॥ १०७|| बभाषे बलभद्रस्तं त्वत्कृते भक्तहेतवे । यास्याम्यत्र पुरे तिष्ठेरप्रमत्तोऽत्र बान्धव ! ॥१०८॥ विधुरं यदि मे किञ्चित् कुतोऽप्यत्र भविष्यति । करिष्यामि तदा क्ष्वेडां तामाकर्ण्य त्वमापतेः ॥ १०९ ॥ इत्युक्त्वा प्राविशद् रामस्तत्पुरं पुरवासिभिः । देवताकारभृत् कोऽयमित्याश्चर्यान्निरीक्षितः ॥ ११०॥ अग्निना द्वारका दग्धा तस्या निर्गत्य सीर्ययम् । आयात इति लोकेऽभूत् किंवदन्ती 'विमर्शजा ॥ १११ ॥ अङ्गुलीयेन रामोऽपि कान्दुकाद्विविधं स्वयम् | जग्राह भोज्यं मदिरां कटकेन च शौडिँकात् ॥११२॥ तदादाय बलोऽगच्छद् यावद् गोपुरसन्निधौ । तं दृष्ट्वा तावदारक्षा विस्मिता नृपतिं ययुः ॥ ११३॥ धृतराष्ट्रसुतस्तस्मिन्नच्छदन्तोऽभवन्नृपः । कृष्णगृह्यैः पाण्डुपुत्रैर्हतशेषीकृतः पुरा ॥११४॥ आरक्षास्तं तदेत्यूचुर्महार्घ्य" कटकोर्मिके । दत्त्वा दस्युवदादत्त त्वत्पुरे मद्य - भोजने ॥ ११५ ॥ मूर्त्या च सीरिणस्तुल्यो गच्छन्नस्त्यधुना बहिः । स दस्युर्वा बलो वाऽस्तु नास्त्यागोऽस्मास्वतः परम् ॥ ११६ ॥ अच्छदन्तो बलं हन्तुं सबलस्तत्र चाऽऽययौ । गोपुरस्य कपाटौ चाऽकारयत् पातितार्गलौ ॥११७॥ भैक्ष्य-पाने बलो मुक्त्वा स्तम्भमुन्मूल्य दन्तिनः । कृतक्ष्वेडोऽथाऽरिबलं निहन्तुमुपचक्रमे ॥११८॥ क्ष्वेडामाकर्ण्य कृष्णोऽपि धावितः पाणिघाततः । भङ्क्त्वा कपाटौ प्राविक्षत् पुरमर्वै इवाऽर्णवम् ॥११९॥ कृष्णस्तत्परिघं गृह्णन् परसैन्यान् जघान तान् । इत्युवाच च राजानमच्छदन्तं वशंवदम् ॥१२०॥ नाऽगाद् दो: स्थाम नौ क्वापि किमरे! भवता कृतम् ? । स्वैराज्यं निभृतो भुङ्क्ष्व मुक्तोऽस्मादागसो ह्यसि ॥१२१॥ इत्युक्त्वा बुभुजाते तौ गत्वोद्याने पुराद् बहिः । प्रत्यैपाचि प्रस्थितौ च कौशाम्बवनमीयतुः ॥१२२॥ मद्यपानात् सलवणाशनाद् ग्रीष्मवशात् श्रमात् । शोकात् पुण्यक्षयाच्चाऽऽप तत्र कृष्णो भृशं तृषम् ॥१२३॥ अथाऽवदद् बलं कृष्णैस्तृष्णया तालु शुष्यति । वृक्षच्छायाकुलेऽप्यस्मिन्न वने गन्तुमीश्वरः ॥१२४॥ बभाषे बलभद्रोऽपि यास्यामि भ्रातरम्भसे । विश्राम्यन्नत्र तिष्ठ त्वमप्रमत्तस्तरोस्तले ॥ १२५॥ पादं जानूपरि न्यस्य स्वं च पीतेन वाससा । प्रच्छाद्याऽध्वतरोर्मूले सुप्तो निद्रां ययौ हरिः ॥ १२६॥ पुनरप्यवदद् रामो हे भ्रातः ! प्राणवल्लभ ! । यावदायाम्यहं तावदप्रमत्तो भवेः क्षणम् ॥१२७॥ उन्मुखीभूय चाऽवोचद् वनदेव्यो ममाऽनुजः । युष्माकं शरणेऽस्त्येष त्रातव्यो विश्ववल्लभः ॥१२८॥ "इत्युक्त्वा सोऽम्भसेऽगच्छत् तत्राऽऽगच्छच्च धन्वभृत् । व्याघ्रत्वग्वसनो लम्बैकूर्ची व्याधो जरासुतः ॥ १२९ ॥
१४३
१. निर्विषयीकृताः मु० । २. दुःस्वप्नमिव ता० सं० । ३. माऽन्यथा मु० र० । ४. चरमशरीरी । ५. पल्लवे मु० । ६. हस्तकल्पं खं० १-२, ला० । ७. सिंहनादम् । ८. विचाराज्जनिता । ९. कान्दुकात् कान्दविकात् । १०. सुराजीविनः कलाल' इति भाषायाम् । ११. महार्घे आ० मु० । १२. भक्तपाने मु० । १३. वडनावल: । १४. सुराज्यम् ला० । १५. दक्षिणदिशं प्रति । १६. तृषाम् मु० । १७. कृष्णस्तृषया मु० । १८. दीर्घश्मश्रुः ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org