________________
१४२
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
उत्पाता विविधाश्चैवं कल्पान्तोत्पातसन्निभाः । प्रादुरासन् द्वारकायामन्तकद्वारदर्शिनः ॥६२।। निपेतुरुल्का निर्घाताश्चाऽभवन् भूरकम्पत । गृहाश्च मुमुचुधूमं धूमकेतुविडम्बकम् ॥६३॥ अङ्गारवृष्टिं विदधे सच्छिद्रं रविमण्डलम् । अकस्मादुपरांगश्च चन्द्र-मार्तण्डयोरभूत् ॥६४॥ अट्टहासं लेप्यमयाश्चकुर्वेश्मसु पुत्रिकाः । उद्भूका जहसुश्चापि चित्रालिखितदेवताः ॥६५।। पुर्यन्त: श्वापदाश्चेरुः स च द्वैपायनासुरः । शाकिनी-भूत-वेतालादिभिः परिवृतोऽभ्रमत् ॥६६।। स्वप्नेष्वपश्यन् पौराः स्वं रक्ताम्बरविलेपनम् । पङ्कमग्नं कृष्यमाणं दक्षिणाभिमुखं तथा ॥६७|| प्रणेशुः सीर-चक्रादिरत्नानि बल-कृष्णयोः । ततो विचक्रे संवर्तं वातं द्वैपायनासुरः ॥६८।। स सर्वतोऽप्याजहार पुर्यां काष्ठ-तृणादिकम् । जनान् प्रणश्यतो दिग्भ्योऽप्यानीय न्यक्षिपत् पुरि ॥६९॥ दिग्भ्योऽष्टाभ्योऽपि वातेन तेनोन्मूलितशाखिना । अपूर्यत समग्राऽपि दारुभिारका पुरी ॥७०॥ षष्टिं बाह्याः कुलकोटी सप्ततिं तु मध्यगाः । सम्पिण्ड्य द्वारकापुर्यां सोऽसुरोऽग्निमदीपयत् ॥७१॥ धगद्धगिति जज्वाल क्षयानल इवाऽनलः । नीरन्धैधूमसन्तानविश्वमप्यन्धकारयन् ॥७२।। पदमप्यक्षमा गन्तुं मिथो निगडिता इव । सबाल-वृद्धास्ते पौराः पिण्डीभूयाऽवतस्थिरे ॥७३॥ पवसदेवं देवकी च रोहिणी च रथे हरिः । आरोपयत् सरामोऽथ तानाक्रष्टं प्रेदीपनात् ॥७४॥ न चेलुस्तुरगास्तत्र न चेलुर्वृषभा अपि । सुरेण स्तम्भितास्तेन वार्तिकेणेव पन्नगाः ॥७५।। ततः स्वयं बलोपेन्द्रौ तमाचकृषतू रथम् । भग्नमक्षयुगं सद्यस्तडत्तडिति काण्डवत् ॥७६।। तथापि तौ स्वसामर्थ्यात् तं द्वारे निन्यतू रथम् । पाहि हा राम ! हा कृष्णेत्याक्रन्दैर्दीनमानसौ ॥७७|| अथ द्वारं कपाटाभ्यां झटित्येवाऽसुरः प्यधात् । रामः पाणिप्रहारेणाऽभाङ्क्षीत् तौ मृत्कपालवत् ॥७८॥ भुंवा ग्रस्त इव रथस्तथापि निरगान्न हि । सोऽपि देवोऽवदद् राम-कृष्णौ ! किंमोह एष वाम् ? ||७९।। अहो ! पुराऽपि यवयोराख्यातं यद यवां विना । न मोक्षः कस्यचिदिह विक्रीतं हि तपो मया ॥८॥ ततस्तौ पितरोऽवोचन हे वत्सौ ! गच्छतं युवाम् । युवाभ्यां ननु जीवद्भयां जीवन्ति यदवोऽखिलाः ॥८१।। कृते नः पौरुषायत्तं युवाभ्यां कृतमेव हि । बलीयसी पुनरियं दुर्ला भवितव्यता ॥८२॥ दीक्षा श्रीनेमिपादान्तेऽस्मकाभिर्भाग्यवजितैः । नोपात्ताऽनुभविष्यामः फलमद्य स्वकर्मणाम् ॥८३|| इत्युक्तेऽपि यदा राम-कृष्णौ नाऽगच्छतां तदा । वसुदेवो देवकी च रोहिणी चैवमूचिरे ॥८४।। अतः परं नः शरणं श्रीनेमिस्त्रिजगद्गुरुः । वयं चतुर्विधाहारप्रत्याख्यानमकृष्महि ॥८५।। अर्हतः सिद्ध-साधूंश्च धर्मं चाऽर्हदुदीरितम् । अतः परं प्रपन्नाः स्मः शरणं शरणेच्छवः ॥८६।। न वयं कस्यचित् कोऽपि नाऽस्मदीय इति स्वयम् । विहिताराधनास्तस्थुनमस्कारपरायणाः ॥८७॥ तेषु द्वैपायनोऽथाऽग्नि ववर्षाऽनलमेघवत् । विपद्य च ययुः स्वर्गं वसुदेवादयस्त्रयः ।।८८|| बराम-कृष्णौ बहिः पुर्या जीर्णोद्यानेऽथ जग्मतुः । दह्यमानां पुरीं तत्र स्थितौ द्वावप्यपश्यताम् ।।८९।। माणिक्यभित्तयोऽभूवंचूर्णसादश्मखण्डवत् । गोशीर्षचन्दनस्तम्भा भस्मसाच्च पलोलवत् ॥९०॥ प्राकारकपिशीर्षाणि तडत्तडिति तुत्रुटुः । तलान्यपि निकेतानां फडप्फडिति पुस्फुटुः ॥९॥ ज्वालानां नान्तरं तत्राऽभूद् जलानामिवाऽर्णवे । एकानलमभूत् सर्वमेकार्णवमिव क्षये ॥९२॥ ज्वालाहस्तैननर्तेव जगर्जेवाऽनलः स्वनैः । धूमव्याजात् पौरमत्स्येष्वानीयमिव चानयत् ॥९३।। पअथोचे सीरिणं कृष्णो धिग् धिग् क्लीब इवाऽधुना । अहं तटस्थः पश्यामि दह्यमानां निजां पुरीम् ।।९४|| यथा नाऽलं पुरीं त्रातुं तथा न द्रष्टमुत्सहे । आर्य ! ब्रूहि क्व गच्छावो? विरुद्धं सर्वमावयोः ॥९५।।
१. ग्रहाश्च खं० १-२, सू० विना । २. ग्रहणम् । ३. उगता भ्रूः भ्रूकुटिर्येषां ताः । ४. रक्तवस्त्रविलेपनम् । ५. पावकात् । ६. गारुडिकेन । ७. धनुर्वत्; भाण्डवत् खं० २ । ८. रुजा खं० २ । ९. सोऽमरोऽबोधयद् ला०२ । स देवोऽथाऽवदद् ला० । १०. ततस्ते मु० । ११. कृतेन मु० र० । न: अस्माकं कृते । १२. दुर्लङ्घा खं०२ ला० पा० ता० सं० ला०२ । १३. मरणे० खं० २। १४. चूर्णाधीनाचूर्णसात् । १५. तृणवत् । १६. जालम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org