________________
एकादशः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१४१
|तच्चाऽज्ञासीच्चरैः कृष्णो दध्यौ चैवं विषादभाक् । अहो ! दुर्दान्तताऽमीषां कुमाराणां कुलान्तकृत् ॥३१॥ ततः कृष्णः सरामोऽगात् तत्र द्वैपायनं मुनिम् । अपश्यत् कोपरक्ताक्षं महाहिमिव दृग्विषम् ||३२|| महमात्र इव व्यलमतिमात्रभयङ्करम् । त्रिदण्डिनं सान्त्वयितुं तमारेभे जनार्दनः |३३|| 'क्रोध एव महाशत्रुर्यो दुःखं नेह केवलम् । प्रदत्ते किन्तु सततं जन्मलक्षेषु जन्मिनः ||३४|| अज्ञानैर्मद्यपानान्धैरपराद्धं ममाऽऽत्मजैः । तत्सहस्व महर्षे ! त्वममर्षो युज्यते न ते ' ॥ ३५ ॥ कृष्णेनेत्युच्यमानोऽपि नाऽशाम्यत् स त्रिदण्डिकः । इत्यूचे च कृतं कृष्ण ! भवतः सौन्त्वभाषितैः || ३६ || त्वत्पुत्रैस्ताड्यमानेन निदानं विहितं मया । सलोकां द्वारकां दग्धुं न मोक्षोऽत्र युवां विना ||३७|| कृष्णं न्यषेधद् रामोऽपि मा बान्धव ! मुधैव हि । परिव्राजमनुनयाऽमुकं वारितैवामकम् ॥३८॥ वक्रांऽह्नि-नासिका-हस्ताः स्थूलोष्ठ-रद- नासिकाः । विलक्षणाक्षा हीनाङ्गाः शान्तिं यान्ति न जातुचित् ||३९|| अस्मिन् खलूँक्त्वा तद् भ्रातर्न नाशो भाविवस्तुनः । सर्वज्ञभाषितं चापि सर्वथा नाऽन्यथा भवेत् ||४०|| ततश्च शोकसन्तप्तः कृष्णः स्वसदनं ययौ । द्वैपायननिदानं च द्वारिकायां प्रकट्यभूत् ॥४१॥ अघोषयद् द्वितीयेऽह्नि नगर्यामिति शार्ङ्गभृत् । विशेषाद् धर्मनिरतास्तिष्ठताऽतः परं जनाः ॥४२॥ तथाऽऽरेभे जनः सर्वोऽप्युपेत्य भगवानपि । श्रीनेमिः समवासार्षीत् तत्र रैवतकाचले ||४३|| तत्र गत्वा च नन्त्वा च कृष्णः शुश्राव देशनाम् । जगन्मोहमहानिद्राविद्रावणरविप्रभाम् ॥४४॥ प्रद्युम्न - शाम्ब निषध उल्मुकः सारणादयः । कुमाराः प्राव्रजन् केऽपि श्रुत्वा तां धर्मदेशनाम् ॥४५॥ रुक्मिणी- जाम्बवत्याद्या बह्व्यश्च यदुयोषितः । स्वामिनः पादपद्मान्ते भवोद्विग्नाः प्रवव्रजुः ॥४६॥ आचख्यौ कृष्णपृष्टश्च सर्वज्ञो भगवानिदम् । द्वैपायनो द्वादशेऽब्दे धक्ष्यति द्वारिकोंमिमाम् ॥४७॥ बादध्यौ च कृष्णो धन्यास्ते समुद्रविजयादयः । येऽग्रेऽपि प्राव्रजन् धिग् मां राज्यलुब्धमदीक्षितम् ॥४८॥ ज्ञात्वा तदाशयं स्वामी प्रोचे कृष्ण ! कदापि हि । न शाङ्गिणः प्रव्रजन्ति निदानेन कृतार्गलाः ॥४९॥ गच्छन्त्यवश्यं तेऽधस्तात् त्वं गामी वालुकाप्रभाम् । श्रुत्वेति कृष्णः सद्योऽपि नितान्तैविधुरोऽभवत् ॥५०॥ भूयोऽभ्यधत्त सर्वज्ञो मा विषीद जनार्दन ! । तत उद्वृत्त्य मर्त्यस्त्वं भावी वैमनिकस्ततः ॥ ५१ ॥ च्युत्वा भाव्यत्र भरते शैतद्वारपुरेशितुः । जितशत्रोः सुतोऽर्हस्त्वं द्वादशो नामतो ममः ॥ ५२ ॥ ब्रह्मलोकं बलो गामी मर्त्यो भावी ततश्च्युतः । ततोऽपि देवश्च्युत्वा स भाव्यत्र भरते पुमान् ॥५३॥ उत्सर्पिण्यां 'प्रसर्पन्त्यां पृथिवीश ! जनार्दन ! । तीर्थनाथस्य ते" तीर्थे स मोक्षमुपयास्यति ॥५४॥ इत्युदित्वा जगन्नाथो विहरन्नन्यतो ययौ । नत्वा वासुदेवोऽपि जगाम द्वारिकां पुरीम् ॥५५॥ “तथैवं घोषणां कृष्णः पुनः पुर्यामकारयत् । विशेषतो धर्मनिष्ठो लोकः सर्वो बभूव च ॥५६॥ मृत्वा द्वैपायनोऽप्यग्निकुमारेषूदपद्यत । सस्मार पूर्ववैरं च द्वारकामाजगाम च ॥५७॥ चतुर्थ-षष्ठा-ऽष्टमादिरतं तत्राऽखिलं जनम् । देवपूजाप्रसक्तं चाऽपश्यद् द्वैपायनासुरः ॥५८॥ धर्मप्रभावतस्तत्रोपसर्गं कर्तुमक्षमः । छिद्राण्यन्वेषयन् सोऽस्थाद् वर्षाण्येकादशोग्रधीः ॥५९॥ "प्रीतेऽब्दे द्वादशे लोको दध्यौ यत् तपसऽमुना । भ्रष्टो द्वैपायनो नष्टो जितश्चेति रमामहे ॥६०॥
१६
रन्तुं प्रवृत्तास्ते स्वैरं मद्यपा मांसखादिनः । लेभेऽवकाशं छिद्रज्ञस्तदा द्वैपायनोऽपि हि ॥ ६१ ॥
१. गजारोहकः । २. दुष्टगजम् । ३. शान्तभाषितैः ला० । ४. राम कृष्णौ । ५. वृथैव ला० । ६. ० मनुनयामुत्कण्ठारितवामकम् खं० २ । वारितः निवारितः सन् वाम एव वामक: कुटिलः इति यावत् प्रतिकूलम् । ७. विलक्षणानि अक्षाणि इन्द्रियाणि येषां ते । ८. खलुशब्दो निषेधार्थे । ९. प्रद्युम्नः शाम्बो खं. २, सू० । १०. द्वारकां पुरीम् ला० । ११. कृता अर्गला यैस्ते । १२. अत्यन्तदुःखी । १३. भावी त्वमर्हन्नत्रैव भारते खं० २, ला०ता० सं० की ० । १४. वैमानिकः सुरः ला० १ । १५. गङ्गाद्वारपुरेशितुः मु० । १६. खं०२, ला० प्रत्योर्नाऽयं श्लोकः । १७. प्रसर्पन्त्यामममाख्यस्य केशवः खं० १ सू० पा० ला०१ छा० पु० । ० प्रसर्पिण्यां ला० । १८. तव कृष्णजीव-अममतीर्थङ्करस्य तीर्थे सः बलदेवजीवः मोक्षं गमिष्यति । १९. द्वैपायनोऽसुरः मु० र० । २० गते द्वे खं० २ । प्राप्ते च खं० १ । २१. तपसाऽधुना ला० पु० ला० २ ।
For Private Personal Use Only
Jain Education International
www.jainelibrary.org