________________
॥ एकादशः सर्गः ॥
श्रीनेमिनाथमन्येधुर्देशनान्ते जनार्दनः । नमस्कृत्य विनीतात्मा पप्रच्छेति कृताञ्जलिः ॥१॥ द्वारकाया यदूनां च मम च स्यात् क्षयः कथम् ? | हेतोः कुतोऽप्यन्यकृतः? स्वयं कालवशेन वा? ॥२॥ अथाऽऽख्यद् भगवान् शौर्य पुरस्य बहिराश्रमे । पराशर इति नाम्ना प्रथितस्तापसाग्रणीः ॥३॥ कन्यां नीचकुलां काञ्चिद् यमुनाद्वीपके गतः । स सिषेवे सुतश्चाऽभूत् तयोपायनाह्वयः ॥४।। परिव्राट् ब्रह्मचारी च दान्तश्च यदुसौहृदात् । निवसंस्तत्र शाम्बाद्यैर्मद्यान्धैर्निहनिष्यते ॥५॥ स क्रुद्धो धक्ष्यति पुरी द्वारकां यदुभिः सह । जरत्कुमारात् स्वभ्रातुस्तव चाऽन्तो भविष्यति ।।६।। अरे ! कुलाङ्गारकोऽयमित्यन्तःकलुषाशयैः । जराकुमारो ददृशे यदुभिः सकलैरपि ॥७॥ भूत्वाऽपि वसुदेवस्य सूनुः किं भ्रातृघात्यहम् ? । तत्सर्वथाऽन्यथा कर्तुं यतेऽहमिति चिन्तयन् ।।८।। उत्थाय नेमिं नत्वा च जारेयस्तूणयुग्मभृत् । कोदण्डी कृष्णरक्षार्थं वनवासमशिश्रियत् ॥९॥ द्वैपायनोऽपि तच्छ्रुत्वा लोकश्रुत्या प्रभोर्वचः । द्वारकाया यदूनां च रक्षार्थं वनवास्यभूत् ॥१०॥ कृष्णोऽपि स्वामिनं नत्वा विवेश द्वारकां पुरीम् । मद्यमूलो ह्यनर्थः स्यादिति मद्यं न्यवारयत् ॥११॥ कृष्णाज्ञया समीपाद्रौ कदम्बवनमध्यतः । कादम्बर्याः कन्दरायां शिलाकुण्डेषु भूरिशः ॥१२॥ पुराकृतानि मद्यानि सर्वे द्वारवतीजनाः । गृहस्रोतोजलमिव नीत्वा नीत्वा प्रतंत्यजुः ॥१३॥ सिद्धार्थः सारथिर्धाता बलदेवमथाऽवदत् । पुर्याः कुलस्य चेदृक्षां कथं द्रक्ष्यामि दुर्दशाम् ? ॥१४॥ तस्मान्मां विसृज स्वामिपादान्तेऽहं यथा व्रतम् । अधुनैव हि गृह्णामि कालक्षेपं सहे न हि ॥१५।। उदश्रुस्तं बलोऽप्यूचे भ्रातर्युक्तं वदस्यदः । विस्रष्टुमक्षमेणापि विसृष्टोऽसि मयाऽनघ ! ॥१६॥ तपस्तप्त्वा विपन्नस्त्वं देवीभतो विपद्गतम् । सम्बोधयेः समये मां भ्रातृस्नेहमिमं स्मरन् ॥१७॥ आमेत्युदीर्य सिद्धार्थः प्राव्राजीत् स्वामिनोऽन्तिके । षण्मासी च तपस्तीवं तप्त्वा मृत्वा दिवं ययौ ॥१८॥ गइतश्च या शिलाकुण्डेष्वासीत् क्षिप्ता सुरा जनैः । नानाद्रुपुष्पसम्पातात् तदा स्वाद्वी बभूव सा ॥१९॥ तदा च मासे वैशाखे कोऽपि शाम्बस्य पूरुषः । अटन् ययौ तत्र तृषा तां च दृष्ट्वा सुरां पपौ ॥२०॥ ततः से मुदितस्तेन दृतिमापूर्य सीधुनाँ । ययौ वेश्मनि शाम्बस्य तच्चोपायनमार्पयत् ॥२१॥ तत्सीधु दृष्ट्वा सामोदं सप्रमोदो हरेः सुतः । पायं पायं जगादैवं कुत्र लब्धमिदं त्वया ? ॥२२।। सोऽप्याख्यत् सीधु तत्रस्थं शाम्बोऽप्यह्नि द्वितीयके । समं कुमारैर्दुर्दान्तैर्ययौ कादम्बरी गुहाम् ॥२३।। कादम्बरीगुहायोगान्नाम्ना 'कादम्बरी' सुराम् । तां प्रेक्ष्य शाम्बो मुमुदे तृषितो निम्नगामिव ॥२४॥ भूत्यैरानाय्य तां शाम्बः पुष्पितद्वनान्तरे । बद्धोपानः पपौ मित्र-भ्रातृ-भ्रातृव्यसंयुतः ॥२५॥ चिरात् प्राप्तेति जीर्णेति सद्रव्यैः संस्कृतेति च । पिबन्तस्तां सुरां ते तु न तृप्तिमुपलेभिरे ॥२६॥ द्वैपायनर्षि ध्यानस्थमग्रे तं गिरिमाश्रितम् । ददृशुर्मद्यपानान्धाः क्रीडन्तस्ते कुमारकाः ॥२७॥ शाम्बो बभाषे स्वानित्थमयं मे नगरी कुलम् । हन्ता तद्धन्यतामेष हनिष्यति हतः कथम् ? ॥२८।। ततस्ते कुपिताः सर्वे लेष्टुभिः पादताडनैः । चपेटाभिर्मुष्टिभिश्च तमाजघ्नुर्मुहुर्मुहुः ॥२९।। पातितं तं महीपृष्ठे मृतप्रायं विधाय ते । ययुः पुरी द्वारवती विविशुः स्वस्ववेश्मसु ॥३०॥
१. जराकुमारः । २. धनुर्धरः । ३. कादम्बर्यां मु० र० । ४. नीत्वाऽथ तत्यजुः खं० २ । ५. प्रमुदित० मु० २ । ६. जलपात्रम् 'मसक' इति भाषायाम् । ७. मदिरया । ८. कादम्बरीसुराम खं० २ । ९. बद्धं आपानं मद्यपानगृहं येन सः । १०. स्वकीयान्
यदून् । Jain Education International For Private & Personal Use Only
www.jainelibrary.org