________________
दशमः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१३९
स्वाम्यूचे नाऽन्तरायं ते क्षीणं लब्धिस्त्वियं हरेः । हरिणा वन्दितोऽसीति श्रेष्ठी त्वां प्रत्यलाभयत् ॥२६७॥ रागादिरहितः सोऽथ परलब्धिरसाविति । परिष्ठापयितुं भिक्षां प्रारेभे स्थण्डिलावनौ ॥२६८|| पूर्वार्जितानि कर्माणि जीवानां दुःक्षयाण्यहो ! । इति स्थिरध्यानजुष उत्पेदे तस्य केवलम् ॥ २६९॥ नेमिं प्रदक्षिणीकृत्य ततः केवलिपर्षदि । ढण्ढणर्षिरुपाविक्षत् पूजितस्त्रिदशैरपि ॥ २७० ॥ विज भगवान्नेमिग्रामा - ऽऽकर- पुरादिषु । भूयो भूयो द्वारकायां पुर्यां च समवासरत् ॥ २७१ ॥ तत्रैकदा स्थिते नाथेऽकस्माद् वृष्टिरजायत । भिक्षां भ्रान्त्वा रथनेमिः प्रतिस्वामिं चचाल च ॥ २७२॥ प्रविवेश गुहां चैकां तया वृष्ट्या स विद्रुतः । वन्दित्वा स्वामिनं राजीमती चापि न्यवर्तत ॥ २७३ ॥ साध्व्यस्तत्सहचर्योऽथ वृष्टिभीताः प्रदुद्रुवुः । राजीमती गुहां तां तु विवेशाऽजानती सती ॥२७४॥ प्राक्प्रविष्टमपश्यन्ती रथनेमिं तमोवशात् । उद्वापयितुममुचद् वस्त्राण्यूर्ध्वस्थिता तु सा ॥२७५॥ रथनेमिर्विवस्त्रां तां प्रेक्ष्य कामार्दितोऽवदन् । पुराऽपि प्रार्थिताऽभूस्त्वं सम्भोगावसरोऽधुना ॥२७६॥ रथनेमिं स्वराज्ज्ञात्वा गोपिताङ्गा झगित्यपि । बभाषे “युज्यते नेदृक् कदाचित् कुलजन्मनाम् ॥ २७७॥ सर्वज्ञस्याऽनुजोऽसि त्वं शिष्यस्तस्यैव तत् तव । अद्यापि केयं बुद्धिर्भो ! लोकद्वयविरोधिनी ? ॥२७८॥ सर्वज्ञशिष्या भूत्वा ते पूरयिष्ये न वाञ्छितम् । वाञ्छयाऽप्यनया तु त्वं पतिष्यसि भवार्णवे ॥ २७९ ॥ ‘चैत्यद्रव्यद्रुतिः साध्वीशीलभङ्गर्षिघातने । तथा प्रवचनोड्डाहे मूलाग्निर्बोधिशाखिनः' ॥२८०॥ प्रविशन्ति वरं घोरे ज्वलितेऽपि हुताशने । वान्तं भोक्तुं न इच्छन्ति कुले जाता अगन्धने ॥ २८२१|| धिगस्तु ते यशस्कामिन् ! यस्त्वं जीवितकारणात् । पातुं समीर्हसे वान्तं श्रेयस्ते मरणं खलु ॥ २८२॥ सुताऽहं भोजराजस्याऽन्धकवृष्णेर्भवान् सुतैः । मा कुले गन्धनौ भूँव संयमं निभृतश्चर ||२८३|| नारीदर्शं स्पृहयसि यदि त्वं मदनातुरः । वाताहतो हेड इवाऽस्थितात्मा तद्भविष्यसि ॥२८४॥ तयैवं बोधितः सोऽपि पश्चात्तापपरो मुहुः । सर्वां विमुच्य भोगेच्छां तीव्रं व्रतमपालयत् ॥२८५॥ प्रभोरग्रे दुश्चरितं तदालोच्य स शुद्धधीः । छद्मस्थो वत्सरं स्थित्वा केवलज्ञानमासदत् ॥२८६॥ विहृत्याऽन्यत्र चान्येद्युर्भूयो रैवतकाचले । श्रीनेमिः समवासार्षीद् भव्याम्भोरुहभास्करः ||२८७।। कृष्ण: पालक - शाम्बादि पुत्रानूचे यथा प्रगे । यः पूर्वं वन्दिता नाथं तस्मै दास्येऽश्वमीप्सितम् ॥२८८॥ तच्छ्रुत्वा शाम्बकुमारः प्रातरुत्थाय तल्पतः । गृहेऽपि तिष्ठन् भावेन नेमिनाथमवन्दत ॥ २८९ ॥ महत्यां पालको रात्रावुत्थाय वरवाजिना । गत्वा प्रभुमभव्यत्वाद् हैंद्याक्रोशन्नवन्दत ॥२९०॥
का पालन याचितो हरिरब्रवीत् । दास्ये तस्याऽश्वमाख्याता यं स्वामी पूर्ववन्दकम् ॥२९१|| गत्वा च विष्णुना पृष्ट: स्वाम्यादौ केन वन्दिते?? । स्वाम्याख्यत् पालकेनाऽऽदौ द्रव्याद् शाम्बेन भावतः ||२९२॥ किमेतदिति कृष्णेन पृष्ट भूयोऽभ्यधात् प्रभुः । अभव्यः पालको ह्येष भव्यो जाम्बवतीसुतः ॥ २९३॥ रैथाङ्गपाणिः कुपितोऽथ पालकं,
तं भावहीनं निरवासयद् द्रुतम् ।
दत्त्वा यथायाचितमश्वपुङ्गवं,
Jain Education International
शाम्बं महामण्डलिकं व्यधात् पुनः ॥२९४॥
॥ इत्याचार्य श्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये 'अष्टमे पर्वणि द्रौपदीप्रत्याहरण- गजसुकुर्मीलादिचरितवर्णनो नाम दशमः सर्गः ॥
।
६-९ गाथाभिः करणार्हा । ५. समीहते खं० २ २ । ९. हठ मु० । हड: वनस्पतिविशेषः । १०. वन्दिताः खं० १, ला०सू० । १४. कृष्णः । १५.
१. प्रतिनाथं ला० । २. विदुद्रुवुः खं० १ । ३. स भोगा० खं० २ । ४. २८१ - २८४ श्लोकानां तुलना दशवैकालिकसूत्रे द्वितीयाध्य ६. पुनः खं० २ । ७. गन्धिनौ मु० । गन्धने खं० १ सू० । ८. ०भूवं खं० ०स्थिरात्मा खं० २ । ११. हृदि आक्रोशं कुर्वन् । १२. अर्पकाचं ला० । १३. ०ष्टमपर्वणि खं- १-२, ला० सू० । १६. ०सुकुमारादि० खं० १-२, सू० ।
For Private Personal Use Only
www.jainelibrary.org