________________
१३८
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
कृष्णोऽपि हि बभाषे तं कर्म सर्वं न चेन्निजम् । प्रसह्य' तां कारयसि तत्त्वं गुप्तौ प्रवेक्ष्यसि ||२३४|| कृष्णाशयज्ञो वीरोऽपि गत्वाचे केतुमञ्जरीम् । पानं कुरुष्व वस्त्रार्थे किमासीनैव तिष्ठसि ? ॥ २३५॥ कोकिस्त्वं न वेत्सीति विब्रुवाणां च तां कुधा । वीरकस्ताडयामास निःशङ्कं तुरिरज्जुभिः ॥२३६॥ रुदती सा पितुर्गत्वा तर्मौख्यत् स्वं पराभवम् । कृष्णोऽप्यूचे त्वया स्वाम्यं त्यक्त्वा दास्यं हि याचितम् ॥ २३७॥ साऽवदत् तर्हि मे स्वाम्यमधुनाऽपि प्रयच्छत । कृष्णोऽवदद् वीरकस्य वशेऽसि न ममाऽधुना ॥ २३८ ॥ सनिर्बन्धं तयॊऽथोक्तः कृष्णो वारितवीरकः । नीत्वा प्रव्राजयामास तां नेमिस्वामिसन्निधौ ॥२३९॥ ॥ अन्यदा सर्वसाधूनां द्वादशावर्तवन्दनम् । कृष्णो ददौ नृपास्त्वन्ये निर्विण्णास्त्ववतस्थिरे ॥ २४० ॥ सर्वेषामपि साधूनां वासुदेवानुवर्तनात् । तत्पृष्ठतो वीरकोऽदाद् द्वादशावर्तवन्दनम् ॥२४१॥ बभाषे स्वामिनं कृष्णः षष्ट्यग्रत्रिशताहवैः । न तथाऽहं परिश्रान्तो वन्दनेनाऽमुना यथा ॥२४२|| सर्वज्ञोऽप्यवदत् कृष्ण ! बह्वद्य भवताऽर्जितम् । पुण्यं क्षायिकसम्यक्त्वं तीर्थकृन्नामकर्म च ॥ २४३॥ उद्धृत्य सप्तमावन्यास्तृतीयनरकोचितम् । आयुर्बद्धं त्वया प्रान्ते करिष्यसि निकाचितम् ॥ २४४ ॥ कृष्णोऽप्युवाच भगवन् ! पुनर्यच्छामि वन्दनम् । नरकायुर्यथा प्राग्वन्मम त्रुटति मूलतः ॥२४५॥ स्वाम्यूचे धर्मशीलऽतो भवेत् ते द्रव्यवन्दनम् । फलं तु प्राप्यते भाववन्दनादन्यथा न तु ॥२४६॥ वीरकस्य फलं कृष्णेनाऽनुयुक्तोऽवदत् प्रभुः । फलमस्य वपुः क्लेशस्त्वच्र्च्छन्दाद् वन्दते सौ ॥२४७॥ भगवन्तं नमस्कृत्य भावयन् भगवद्वचः । जगाम द्वारकापुर्यां कृष्णोऽथ सपरिच्छदः ॥ २४८ ॥ "कृष्णस्य ढण्ढणापत्न्यां कुमारो ढण्ढणाभिधः । उद्यौवनः पर्यणैषीद् बह्वीर्नृपकुमारिकाः ॥२४९॥ सोऽन्यदा स्वामिनः पार्श्वे श्रुत्वा धर्मं विरक्तधीः । दीक्षामुपाददे पित्रा कृतनिष्क्रमणोत्सवः ॥ २५० ॥ विजहे स्वामिना सार्धं 'साधूनां च मतोऽभवत् । एवं च तिष्ठतस्तस्योदगात् कर्माऽन्तरायकम् ॥२५१॥ यत्र यत्र ययौ तत्र तत्राऽऽप न स किञ्चन । समं तेन ययुर्ये च मुनयोऽपि तथैव ते ॥ २५२॥ ततस्ते साधवो नेमिनाथायेदं व्यजिज्ञपन् । शिष्यस्त्रैलोक्यनाथस्य पुत्रः कृष्णस्य ढण्ढणः || २५३॥ महेभ्यधार्मिकोदारजनायामपि पुर्यसौ । भिक्षामपि न लभते स्वामिन् ! किं तत्र कारणम् ? ॥२५४॥ स्वाम्याख्यन् मगधेष्वासीद् धान्यपूरकनामनि । ग्रामे पुरा नृपायुक्तो नाम्ना विप्रः पराशरः ॥ २५५ ॥ राजक्षेत्राणि स ग्रम्यैरवापयदथाऽन्यदा । प्राप्तेऽपि भोजने ग्राम्यान् भोजनायाऽमुचन्नहि ॥२५६॥ क्षुधितैस्तृषितैः श्रान्तैर्वृषभैर्होलिकैश्च सः । अकर्षयद् 'हैलान् क्षेत्रे 'सीतामेकां पृथक् पृथक् ॥२५७॥ कर्माऽन्तरायमर्जित्वा मृत्वा भ्रान्त्वा भवं च सः । ढण्ढणोऽयमभूत् तच्च कर्मैतस्याऽधुनोदितम् ॥२५८॥ तच्छ्रुत्वा जातसंवेगो ढण्ढणः स्वामिनोऽन्तिके । परलब्ध्या न भोक्ष्येऽहमित्यभिग्रहमग्रहीत् ॥२५९॥ सहमानो ढण्ढणर्षिस्तमलाभपरीषहम् । अभुञ्जानः परलब्ध्या कालं कमपि सोऽनयत् ॥ २६० ॥ 'वासुदेवोऽन्यदाऽपृच्छन्नेमिनाथं सभास्थितम् । मध्येऽमीषां महर्षीणां को हि दुष्करकारकः ? ॥२६१॥ स्वाम्याख्यद् दुष्करकराः सर्वेऽमी ढण्ढणस्त्वति । इयन्तं योऽत्यगात् कालं सोढाऽलाभपरीषहम् ॥२६२॥ ततो नत्वा प्रभुं कृष्णः प्रविशन् द्वारकपुरीम् । अपश्यड्डण्ढणं साधुं यान्तं गोचरचर्यया ॥२६३॥ गजादुत्तीर्य कृष्णस्तं नमश्चक्रेऽतिभक्तितः । दृष्ट्वैक श्रेष्ठिनाऽचिन्ति धन्यः कृष्णेन यो नतः ॥ २६४॥ विहरन् ढण्ढणोऽप्यागात् तस्यैव श्रेष्ठिनो गृहे । मोदकैर्बहुमानेन स तु तं प्रत्यलाभयत् ॥२६५॥ ढढणोऽप्येत्य सर्वज्ञं नत्वा चैवं व्यजिज्ञपत् । कर्माऽन्तरायकं किं मे क्षीणं भिक्षां यदप्नवम् ? ॥२६६ ॥
१. हठात् । २. कारागारे । ३. तन्तुवायः । ४. तमाख्यच्च खं० १ सू० । तमाख्यात् स्वं परा० ला० । ५. तया प्रोक्तः मु० र० । ६. निर्वीर्यास्त्वव० खं० २, की० मु० । ७. ३६० युद्धैः । ८. निकाचनम् खं० २ । ९. हे धर्मशील ! अतः परम् । १०. पृष्टः । ११. त्वदनुसरणात् । १२. बहूनां मु० । १३. मान्यः । १४. ग्रामे भवा ग्राम्याः तैः । १५. कृषीवलैः । १६. बलात् खं० १-२ विना । १७. क्षेत्रे हलकृता रेखा सीता कथ्यते भाषायां 'चास' इति । १८. द्वारकां खं० १, ला. सू० । १९. स च खं० १ सू० । २० यदाप्नुवम् खं० १ २, ला० सू० ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org