________________
दशमः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१३७ अन्यदा प्रावृडारम्भे जगदाोयकोऽब्दवत् । द्वारिकायां नेमिनाथ उपेत्य समवासरत् ।।२००। शुश्रूषमाणस्तं कृष्णो बभाषे भगवन् ! कथम् । विहरध्वे न वर्षास् ययमन्येऽपि साधवः ? ||२०१॥ स्वामी बभाषे वर्षासु नानाजीवाकुला मही । जीवाभयप्रदास्तत्र सञ्चरन्ति न साधवः ॥२०२॥ कृष्णोऽप्युवाच यद्येवं गच्छदागच्छता मया । भूयान् जीवक्षयो भूयःपरिवारेण जायते ॥२०३॥ तद्वर्षासु बहिर्गेहान्निःसरिष्यामि न ह्यहम् । अभिगृह्येति गत्वा च कृष्णो वेश्माऽविशन्निजम् ॥२०४।। कस्यापि प्रावृषं यावत् प्रवेशो मम वेश्मनि । न प्रदेय इति द्वा:स्थानादिदेश च शार्गभृत् ॥२०५।। वीरो नाम कुविन्दोऽभूत् पुर्यां तत्रातिवैष्णवः । कृष्णं विलोक्याऽचित्वा च बुभुजे नान्यथा तु सः ॥२०६।। प्रवेशं सोऽलभमानस्तदा च हरिसद्मनि । द्वारस्थो हरिमुद्दिश्य पूजां चके दिने दिने ॥२०७।। कदापि न च सोऽभुक्त विष्णोरनवलोकनात् । व्यतीतासु च वर्षासु निर्ययौ वेश्मतो हरिः ॥२०८॥ उपातिष्ठन्त सर्वे तं राजानो वीरकश्च सः । किं कृशोऽसीति पप्रच्छ वासुदेवोऽपि वीरकम् ? ॥२०९॥ द्वा:स्थास्तस्य यथावस्थां शशंसुः कार्यकारणम् । कृष्णोऽप्यस्खलितं चक्रे सकृपस्तं स्ववेश्मनि ॥२१०॥ ततश्च वन्दितुं नेमिं कृष्णोऽगात् सपरिच्छदः । यतिधर्मं च शुश्राव स्वामिनं चेत्यभाषत ।।२११॥ न श्रामण्यक्षमोऽस्मीश ! तथापि नियमोऽस्तु मे । अन्यैाहयितुं दीक्षां तथा ताननुमोदितुम् ॥२१२॥ प्रव्रजिष्यति यः कश्चिद्वारयिष्याम्यहं न तम् । पुत्रस्येव करिष्ये च तस्य निष्कमणोत्सवम् ।।२१३|| अभिगृह्येत्यगाद्
ह्या नन्तुमागताः । ऊचे स्वकन्याः स्वामिन्यो दास्यः किं वा भविष्यथ? ॥२१४|| ता अप्यूचुर्भविष्यामः स्वामिन्य इति शाङ्गिणम् । शा_प्यूचे नेमिपार्वे तर्हि प्रव्रजताऽनघाः ! ॥२१५|| इति प्रावाजयत् कन्या विवाहार्हाः क्रमेण सः । राज्यका चान्यदा प्रोचे स्वां सुतां केतुमञ्जरीम् ॥२१६।। पृष्टा तातेन वत्से ! त्वं भाषेथा अविशङ्कितम् । अहं दासीभविष्यामि न पुनः स्वामिनी प्रभो ! ॥२१७|| विवाहयोग्या सा मात्रा प्रेषिता पितुरन्तिके । ययौ तथोचे पित्रा च साऽप्यूचे मातृशिक्षितम् ॥२१८।। कृष्णोऽपि दध्यौ मत्पुत्र्योऽप्यटिष्यन्ति भवाटवीम् । विमाननां च प्राप्स्यन्ति सर्वथा तन्न साम्प्रतम् ॥२१९।। यथा नैवं वदन्त्यन्यास्तथाऽस्त्विति धिया हरिः । वीर कुविन्दमवदत् प्रकृष्टं कि कृतं त्वया ? ॥२२०॥ प्रकृष्टं न माँ चक्रे किञ्चित् तमिति वादिनम् । ऊचे हरिस्तथापि त्वं विचिन्त्याऽऽख्याहि किञ्चन ॥२२१।। बभाषे वीरकोऽप्येवं बदरीस्थो मया पुरा । केकलासोऽश्मनों हत्वा पतितश्च मृतश्च सः ॥२२२॥ राङ्गकृतरेखायां मार्गे तोयं वहन्मया । धृतं वामांहिणाऽऽक्रम्य तच्च दूरमपासरत् ॥२२३॥ वस्त्रपानघटस्याऽन्तः प्रविष्टा मक्षिका मया । द्वारे वामकरं दत्त्वा रणन्त्यो विधृताश्चिरम् ॥२२४|| आस्थानस्थो द्वितीयेऽह्नि कृष्णो राज्ञां पुरोऽवदत् । स्वकुलस्याऽननुरूपं चरितं वीरकस्य भोः ! ॥२२५।। सावधानास्ततस्तेऽपि कृष्ण जीवेति भाषिणः । श्रोतुमारेभिरे भूयः कृष्णोऽप्येवमभाषत ॥२२६।। येन रक्तस्फटो 'नागो निवसन् बदरीवणे । निजघ्ने भूमिशस्त्रेण वेमॅतिः क्षत्रियो ह्ययम् ॥२२७॥ चक्रोत्खाता येन गङ्गा वहन्ती कलुषोदकम् । धारिता वामपादेन वेमतिः क्षत्रियो ह्ययम् ॥२२८॥ येन घोषवती सेना वसन्ती कालसीपुरे । निरुद्धा वामहस्तेन वेमतिः क्षत्रियो ह्ययम् ॥२२९।। योग्यो ममाऽयं जामाता सुव्यक्तपुरुषव्रतः । इत्युक्त्वा वीरकं स्माऽऽह गृह्यतां केतुमञ्जरी ॥२३०॥ सोऽनिच्छन् भृकुटि कृत्वा कृष्णेनोक्तस्तु तत्सुताम् । परिणीय गृहे निन्ये वीरकः केतुमञ्जरीम् ॥२३१।। शय्याधिरूढा तस्थौ च तद्गृहे केतुमञ्जरी । तदादेशकरश्चाऽऽसीद्वीरकोऽपि दिवानिशम् ॥२३२॥
किं केतुमञ्जर्याज्ञां ते करोतीति च शाङ्गिणा । पृष्टोऽन्यदाऽवदद् वीरस्तदाज्ञाकारको ह्यहम् ॥२३३॥ १. जगत्तृप्तिकरः । २. मेघवत् । ३. विहरध्वं ला० । ४. भूरिपरिवारेण ला० । ५. कृष्णभक्तः । ६. दीक्षामहोत्सवम् । ७. परिणयाय योग्याः । ८. अपमानम् । ९. युक्तम् । १०. मयाऽकारि खं.२, ला० । ११. सरटः 'भाषायां 'काचंडो' इति ख्यातम् । १२. पाषाणेन । १३. रथचक्रेण कृतायां रेखायाम् । १४. रक्ता स्फटा फणा यस्य सः । १५. सरट: भाषायां 'सरडो' । १६. बदरीवने ला० पा० मु० । १७. पाषाणेन । १८. तन्तुवायः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org