________________
१३६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व तुष्टोऽथ सोऽमरः शक्रवृत्तान्ताख्यानपूर्वकम् । वरं वृणु महाभागेत्यवोचत जनार्दनम् ॥१६८॥ देवं कृष्णोऽप्यभाषिष्ट सम्प्रति द्वारिका पुरी । रोगोपसर्गर्बहुला तच्छान्त्यै किञ्चिदर्पय ॥१६९।। कृष्णायाऽदात् सुरो भेरीमाख्यच्च यदियं त्वया । षण्मास्यन्ते षण्मास्य॑न्ते वादनीयाऽऽत्मनः पुरि ॥१७०।। अस्याः श्रुतेन शब्देनोपसर्गाः प्राक्तना हरे ! । क्षयं यास्यन्त्यथ नवा षण्मासीं नैव भाविनः ॥१७१।। इत्युक्त्वा स ययौ देवस्तां भेरी केशवोऽपि हि । तथैव वादयामास रुक्शान्तिश्चाऽभवत् पुरि ॥१७२।। भेरीख्यातिमथ श्रुत्वा कोऽपि दाहज्वरादितः । आगाद् देशान्तरादाढ्यो भेरीपालमुवाच च ॥१७३।। द्रव्यलक्षं गृहाणेदमुपकाराय मेऽनघ ! । भेरीखण्डं पलमात्रं विश्राणय कृपां कुरु ॥१७४॥ भेरीपालोऽप्यर्थलुब्धस्तत्खण्डं तस्य दत्तवान् । भेरी चन्दनखण्डेनाऽपूरिष्टं श्लिष्टसन्धिना ॥१७५॥ सोऽन्येभ्योऽपि ददावेवमर्थलुब्धस्तथा यथा । चन्दनच्छेदकन्थाऽभूत् सा भेरी मूलतोऽपि हि ॥१७६।। अन्यदा त्वशिवे जाते शार्गभृत् तामवादयत् । सभामपि न तन्नादोऽभ्यगान्मशकनादवत् ॥१७७।। किमेतदिति कृष्णेन पृष्टाः प्रत्ययिता नराः । कन्थीकृतां रक्षकेण तां भेरीमाचचक्षिरे ॥१७८॥ तमारक्षमहन् कृष्णो भेरीमन्यां ततोऽमरात् । लेभे चाष्टमभक्तेन महद्भिः किं दुरासदम् ? ||१७९।। बतां भेरी वादयामास रोगशान्त्यै जनार्दनः । वैद्यावप्यादिशद् धन्वन्तरि वैतरणिं तथा ॥१८०॥ तत्र वैतरणिर्भव्यश्चिकित्सा यस्य योचिता । तामाख्यायाऽकरोत् तस्य ददौ स्वमपि भेषजम् ॥१८१।। धन्वन्तरिस्तु विदधे चिकित्सां पापसंयुताम् । अस्माकं विहितं नेदमिति तं साधवोऽभ्यधुः ॥१८२।। सोऽपि प्रतिबभाषे तान् साधुयोग्यो मया न हि । आयुर्वेदः कोऽप्यपाठि मा स्म कृध्वं वचो मम ॥१८३॥ एवं द्वावपि तौ वैद्यौ पुर्यां तत्राऽचिकित्सताम् । श्रीनेमि चान्यदाऽपृच्छत् कृष्णः क्व गतिरेतयोः? ॥१८४।। अथाऽऽचचक्षे भगवान् सप्तम्यां नरकावनौ । अप्रतिष्ठानमावासं वैद्यो धन्वन्तरिर्गमी ॥१८५।। वैद्यो वैतरंणिविन्ध्यवने भावी प्लवङ्गमः । उद्यौवनो यूथपतिस्तत्रैव च भविष्यति ॥१८६॥ वने तत्रैकदा सार्थेनाऽऽगमिष्यन्ति साधवः । तेष्वेकः श्रमणः पादे भैग्नशल्यो भविष्यति ॥१८७॥ प्रतीक्षमाणान् सोऽन्यर्षीन् वक्ष्यत्येवं यदत्र माम् । मुक्त्वा याताऽन्यथा सर्वे सार्थभ्रष्टा मरिष्यथ ॥१८८।। तं छायास्थण्डिले मुक्त्वा ते प्रयास्यन्ति साधवः । तत्पादशल्यमाक्रष्टुमक्षमा दीनचेतसः ॥१८९।। कपियूथपतिः सोऽपि तत्रैष्यत्यथ तं मुनिम् । दृष्ट्वा किलकिलारावं करिष्यन्त्यग्रवानराः ॥१९०।। तन्नादरुष्टो यूथेशः सोऽग्रे स्थास्यति तमृषिम् । प्रेक्ष्य ध्यास्यति कुत्रेदृग्जनं वीक्षितपूर्व्यहम् ॥१९॥ स्मरिष्यति ततः पूर्वजाति स्वां तच्च वैद्यकम् । गिरेविशल्या-रोहिण्यावानेष्यत्यौषधी ततः ॥१९२।। विशल्यां दशनैः पिष्ट्वा पादे तस्य निधास्यति । सद्यो विशल्यं तत्पादं रोहिण्या रोहयिष्यति ॥१९३।। द्वारवत्यां वैतरणिर्वेद्योऽभूवं पुरा ह्यहम् । लिखिंष्यत्यक्षराण्येवं मुनेस्तस्य पुरश्च सः ॥१९४॥ तच्चरित्रं श्रुतपूर्वी मुनिर्धर्मं गदिष्यति । त्र्यहं कृत्वा कपिः प्रायं सहस्रारे गमिष्यति ॥१९५॥ स द्रक्ष्यत्यवधिज्ञानात् प्रायस्थस्याऽऽत्मनः शबम् । नमस्कारान् प्रयच्छन्तमभ्यर्णस्थं मुनिं च तम् ॥१९६।। भक्तिमानमरस्तं च मुनि नत्वा वदिष्यति । त्वत्प्रसादेन देवद्धिर्महतीयं ममाऽभवत् ॥१९७।। स्वसाधुभिस्तं च साधुं स नीत्वा योजयिष्यति । स साधुस्तां कपिकथां साधूनां कथयिष्यति ॥१९८।।
तच्छ्रुत्वा श्रद्दधद्धर्मं नेमि नत्वा ययौ हरिः । विहर्तुमन्यतोऽगच्छत् ततश्च भगवानपि ॥१९९।। १. वादनीया, रोगहार्यात्मनः पुरि खं. २ । २. नवीनोपसर्गाः । ३. रोगशान्त्यै जनार्दनः ला० । ४. भेरी खं० १, ला.सू. विना। ५. ०पूरिष्टाऽऽश्लिष्ट० खं० २ । ६. ०त्यगा० खं० २ विना । ७. धन्वन्तरिवैतरणी मु० । वैतरणी खं० १, ला०सू० । ०वैतरिणी खं० २ । ८. भैषजम् ला० । ९. वैतरणी विन्ध्य० खं० २ । १०. वानरः ॥ ११. भग्नकण्टकः । १२. प्रतीक्ष्यमाणान् खं०१-- २, ला०सू० मु०। १३. तत्रैष्यति परिभ्रमन् । करिष्यति किलकिलां मुनिं दृष्ट्वाग्रवानराः ला० १ । १४. कलकला० ला० । १५. लेखि० खं० १, ला०सू० । १६. अनशनम् । १७. भविष्यति ला० । १८. ०महती मम चाऽभवत् खं० २।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org