________________
दशमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१३५
प्रातश्चचाल कृष्णोऽपि रथस्थः सपरिच्छदः । द्रष्टुं गजसुकुमालमुत्कण्ठापूर्णमानसः ॥१३४॥ निर्गच्छन् द्वारकायाश्च बहिरैक्षिष्ट स द्विजम् । वहन्तमिष्टकां मूर्जा वृद्धं देवालयं प्रति ॥१३५।। तस्याऽनुकम्पया कृष्ण 'आपाकात् स्वयमिष्टकाम् । निन्ये देवकले तस्मिन लोकोऽनैषीच्च कोटिशः ।।१३६।। कृतार्थं तं द्विजं कृत्वा ययौ नेमि जनार्दनः । न चाऽपश्यद् गजं तत्र मुक्तं निधिमिवाऽऽत्मना ।।१३७।। क्व मे भ्राता गज इति पप्रच्छ स्वामिनं हरिः ? । सोमद्विजाद् गजमोक्षमाचख्यौ भगवानपि ॥१३८।। ततो मुमूर्छ गोविन्दो लब्धसंज्ञः पुनः प्रभुम् । पप्रच्छ भ्रातृवधको ज्ञातव्यः स कथं मया ? ||१३९।। भगवानप्यभाषिष्ट मा कुपः सोमशर्मणे । त्वद्भातुः स हि सोयः सद्यो मोक्षस्य साधने ॥१४०।। सिद्धिः स्याच्चिरसाध्यापि सहायवशतः क्षणात् । यथा त्वयाऽद्य वृद्धस्य ब्राह्मणस्येष्टकार्पणात् ॥१४१॥ सोमशर्मा न कुर्याच्चेत् कर्म त्वद्भातुरीदृशम् । तत्कथं तस्य सिद्धिः स्यात् कालक्षेपं विनैव हि ? ||१४२।। स्वमुद्वन्द्धं व्रजंस्त्वां च विशन्तं पुरि वीक्ष्य यः । भिन्नमूर्धा म्रियते तं जानीथा भ्रातृघातकम् ॥१४३।। ततः कृष्णो रुदन भ्रातः संस्काराद्यकरोत् स्वयम् । प्राविशच्च पुरी सोममैक्षिष्ट च तथा मतम ॥१४४॥ बन्धयित्वा पादयोस्तं पुर्यामभ्रमयन्नरैः । बहिश्च क्षेपयामास गृध्रादीनां नवं बलिम् ॥१४५॥ गतेन शोकेन यदवो बहवो नेमिसन्निधौ । प्रवव्रजुर्दशाश्चि वसुदेवं विना नव ॥१४६॥ शिवा च स्वामिनो माता सप्त चापि सहोदराः । अन्येऽपि हरिकुमाराः प्राव्रजन्नन्तिके प्रभोः ॥१४७॥ राजीमत्यपि संविग्ना प्रावाजीत् स्वामिनोऽन्तिके । नन्दकन्यैकनाशा च बढ्यश्चाऽन्या यदुस्त्रियः ॥१४८।। कन्योद्वाहप्रत्याख्यानाभिग्रहं हरिराददे । सर्वा दुहितरस्तस्य प्राव्रजन् स्वामिनोऽन्तिके ॥१४९।। विना च कनकवती रोहिणी देवकी तथा । वसुदेवस्य पत्न्योऽपि प्राव्रजन्नेमिसन्निधौ ॥१५०।। पगृहेऽपि कनकवत्याश्चिन्तयन्त्या भवस्थितिम् । उत्पेदे केवलज्ञानं सद्यस्त्रुटितकर्मणः ॥१५१।। नेमिना ज्ञापितैर्देवैः सा क्लुप्तमहिमा ततः । प्रव्रज्यां स्वयमादत्त ययौ च स्वामिनोऽन्तिके ॥१५२।। दृष्ट्वा नेमि वनेऽगच्छद् दिनानि त्रिंशतं ततः । विहितानशना मृत्वा मोक्षं कनकवत्यगात् ॥१५३।। पनैषधिः सागरचन्द्रो रामपौत्रो विरक्तधीः । अणुव्रतधरोऽग्रेऽपि तदाऽभूत् प्रतिमाधरः ॥१५४॥ बहिर्गत्वोपश्मशानं कायोत्सर्गं ददौ च सः । नभःसेनेन दृष्टश्च तच्छिद्रान्वेषिणा सदा ॥१५५॥ तमूचे च नभःसेनः पाखण्डिन् ! किं करोष्यदः ? । लभस्व कमलामेलाहरणच्छेद्मनः फलम् ॥१५६।। इत्युक्त्वा तस्य शिरसि निधाय घटकण्ठकम् । अपूरयच्चिताङ्गारैर्नभःसेनो दुराशयः ॥१५७।। तत्सम्यगधिसह्याऽऽशु विपन्नः सागरः सुधीः । स्मृतपञ्चपरमेष्ठिनमस्कारो दिवं ययौ ॥१५८॥ सदस्यूचेऽन्यदा शक्रो यत् कृष्णो गुणकीर्तनम् । दोषान् विहाय कुरुते नीचयुद्धैर्न युध्यते ॥१५९।। तद्वचोऽश्रद्दधत् कश्चिदागाद् द्वारवती सुरः । तदा च स्वेच्छया रन्तुं रथस्थः प्राचलद्धरिः ॥१६॥ विचके तेन देवेन कृष्णाङ्गः श्वा मृतः पथि । दुर्गन्धेनाऽखिलं लोकं बाधमानोऽतिदूरतः ॥१६१।। तं प्रेक्ष्य केशवोऽवोचदहो ! कृष्णतनोः शुनः । अस्याऽऽस्ये पाण्डुरा दन्ताः शोभन्ते सुतराममी ॥१६२॥ देवोऽथाऽश्वहरीभूयाऽश्वरत्नं शागिणोऽहरत् । प्रधाविताननुपदं कृष्णसैन्यान् जिगाय च ॥१६३।। ततोऽधावत् स्वयं कृष्णो नेदी यानब्रवीच्च तम् । किं हरस्यश्वरत्नं मे? मुञ्चेदानी क्व यासि भोः !? ॥१६४।। देवोऽप्युवाच मां युद्धे विजित्याऽश्वं गृहाण भोः !। कृष्णोऽप्यूचे रथं तहि त्वमादत्स्व रथी ह्यहम् ॥१६५। देवोऽप्युवाच पर्याप्तं रथेनेभादिना च मे । युद्धैश्च बाहयुद्धाद्यैः कुरु किन्तु पाहवम् ॥१६६।।
प्रत्यभाषत गोविन्दो जितोऽस्मि नय वाजिनम् । न जातु नीचयुद्धेन युध्ये सर्वात्ययेऽपि हि ॥१६७॥ १. यत्र इष्टकाः पच्यन्ते तत् स्थानं आपाकमिति कथ्यते तस्माद् (नीभाडो); आदाय ला२० खं० १, सू० । २. सहायी खं० १। ३. समु० खं. १ । ४. निषधपुत्रः । ५. कपटस्य । ६. स्मृत्वा पञ्च० खं० २ । ७. अश्वापहारकः । ८. समीपम् । ९. युतावहम् ला.१, खं.१, ला०सू० विना, कटिप्रोथौ, "पुतौ स्फिजौ कटिप्रोथौ" [अभिचि० कां० ३ श्लो० ६०९]भाषायां 'धगडा कुला' इति ख्यातम् । १०. सर्वनाशेऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org