________________
१३४
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
सा प्रत्यलाभयत् सिंहकेसरैर्मोदकोत्तमैः । तौ जग्मतुस्ततश्चाऽन्यौ तत्सोदर्यावुपेयतुः ॥१०१॥ अजितसेन निहतशत्रू नाम्ना महामुनी । सा प्रत्यलाभयत् तावप्यथाऽन्यौ समुपेयतुः ॥ १०२ ॥ नाम्ना देवयश:- शत्रुसेनौ श्रमणपुङ्गवौ । तौ च नत्वा देवकीत्थमपृच्छद् रचिताञ्जलिः ॥ १०३॥ भूयो भूयोऽपि दिङ्मोहात् किं नु यूयमिहाऽऽगता: ? । किं वा मे मतिमोहोऽयं यूयं न हि त एव हि ? ॥ १०४ ॥ अथवा स्वर्गकल्पायामप्यस्यां पुरि सम्पदा । नोचितं भक्तपानादि प्राप्नुवन्ति महर्षयः ? ॥ १०५ ॥ तावूचतुर्न दिग्मोहोऽस्माकं षट् सोदरा वयम् । भद्दिलपुरवास्तव्यंसुलसा-नागयोः सुताः ॥१०६॥ धर्मं श्रुत्वा नेमिपार्श्वे प्राव्रजाम वयं हि षट् । भूत्वा च त्रीणि युग्मानि क्रमात् ते गृहमागताः ॥ १०७॥ ततश्च देवकी दध्यौ कथं नाम षडप्यमी । कृष्णस्य सदृशाः, एवं तिलौ अपि तिलस्य न ? ॥१०८॥ जीवेदष्टसुता चाऽहमतिमुक्तकसाधुना । पुराऽऽख्याताऽस्मि तेनैते किं स्युर्मम तनूरुहाः ? ॥१०९॥ विमृश्यैवं द्वितीयेऽह्नि तत्प्रष्टुं नेमिनोऽन्तिके । ययौ समवसरणे देवकी देवनिर्मिते ॥११०॥ ज्ञात्वा स्वाम्यपि तद्भावमूचे तेऽमी सुताः खलु । समर्पिताः सुलसाया जीवन्तो नैगमेषिणा ॥ १११॥ सौऽथ तांस्तत्र षट् साधून् पश्यन्त्युत्प्रस्नवस्तनी । ववन्दे च बभाषे च साधु दृष्टाः स्थं हे सुता: ! ||११२|| राज्यं प्रकृष्टमथवा दीक्षा मत्कुक्षिजन्मनाम् । किन्त्वेतन्मम खेदाय स्वयं नैकोऽपि लालितः ॥ ११३ ॥ भगवानप्यथोवाच मुधा मा ताम्य देवकि ! । पूर्वकर्मफलं ह्येतदिह जन्मन्युपस्थितम् ॥ ११४॥ सपत्न्याः सप्त रत्नानि त्वमाहार्षीः पुरा भवे । रुदत्याश्चार्पितं तस्या रत्नमेकं पुनस्त्वया ॥ ११५ ॥ तच्छ्रुत्वा देवकी निन्दन्त्यात्मप्राग्जन्मदुष्कृतम् । ययौ स्वगृहमस्थाच्च पुत्रजन्माभिकाङ्क्षिणी ॥११६॥ किमेवं विमना मातरित्युक्ता शार्ङ्गपाणिना । सा बभाषे निष्फलेन जीवितव्येन किं मम ? ॥११७॥ त्वं वर्धितो नन्दगृहे नागधाम्नि च तेऽग्रजा: । कैलकण्ठ्येव नाऽपत्यं मया किमपि लालितम् ॥११८॥ इच्छामि तत्सुतं वत्स ! बाललालनकौतुकात् । पशवोऽपि हि धन्यास्ते स्वयं स्वापत्यलालकाः ॥ ११९॥ एष ते पूरयाम्यर्थमित्युक्त्वा प्रययौ हरिः । आराधयामास शक्रसेनान्यं नैगमेषिणम् ॥१२०॥ देवोऽप्युवाच ते मातुर्भविष्यत्यष्टमः सुतः । उद्भिन्नयौवनो धीमान् स परं प्रव्रजिष्यति ॥ १२१ ॥ अनु 'तेद्वचनं स्वर्गाच्च्युत्वा देवो महर्द्धिकः । देवक्याः कुक्षिमायासीज्जज्ञे च समये सुतः ॥१२२॥ नाम्ना गजसुकुमालं रूपात् कृष्णमिवाऽपरम् । तं स्वयं लालयामास देवकी देवसन्निभम् ॥ १२३॥ सोऽत्यन्तवल्लभो मातुर्भ्रातुश्च प्राणसन्निभः । द्वयोर्नेत्रेन्दीवरेन्दुः क्रमेण प्राप यौवनम् ॥१२४|| प्रभावतीमभिधया द्रुमस्य पृथिवीपतेः । कन्यां गजसुकुमालः पित्रादेशादुपायत ॥ १२५ ॥ सोमशर्मद्विजसुतां सोमाख्यां क्षत्रियाभवाम् । सोऽनिच्छन्नप्युपयेमे मातृ-भ्रात्रोर्निदेशतः ॥१२६॥ तदैव तत्र समवासार्षीन्ने मिस्तदन्तिके । धर्मं गजसुकुमालः सभार्योऽवहितोऽशृणोत् ॥१२७॥ ततश्चोत्पन्नवैराग्यः पत्नीभ्यां सहितो गजः । पितरौ समनुज्ञाप्य स्वामिपार्श्वेऽग्रहीद् व्रतम् ॥१२८॥ गजे प्रव्रजिते चाथ तद्वियोगासहिष्णवः । पितरौ कृष्णमुख्याश्च भ्रातरो रुरुदुस्तराम् ॥ १२९ ॥ सायं स स्वामिनं" पृष्ट्वा श्मशाने प्रतिमां व्यधात् । बहिर्गतेन दृष्टश्च ब्रह्मणा सोमशर्मणा ॥ १३०॥ सोमशर्माऽचिन्तयच्च यत्पाखण्डचिकीरयम् । विडम्बनाय मत्पुत्रीमुपयेमे दुराशयः ॥१३१॥ इति कुधस्तच्छिसि सोमशर्मा विरुद्धधीः । ज्वलच्चिताङ्गारपूर्णं घटीकण्ठमतिष्ठिपत् ॥१३२॥ तेनऽतिदह्यमानोऽपि सोऽधिसेहे समाहितः । दग्धकर्मेन्धनो जातकेवलश्च ययौ शिवम् ॥१३३॥
१. भद्रिल० खं. १ - २, ला०सू० । २ ० वास्तव्याः सु० मु० र० । ३. तिलाऽपि हि ला० । ते कथं कृष्णस्य सदृशा: ? एवं तु तिलाः अपि तिलस्य सदृशाः न भवन्ति । ४. जीवन्तोऽष्टौ सुता यस्याः साऽहम् । ५. सुताः । ६. सा तथा तत्र मु०, खं. १२, ला० । ७. ०त्प्रस्स्रव० मु० २० । ८. दृष्टाश्च मु० २० । ९. ११५ श्लोकः खं० २ प्रतौ न । १०. ज्येष्ठभ्रातरः । ११. कलविंक्येव सू० । कोकिला, तदपत्यानि काक्या लाल्यन्त इति लोकोक्तिः । १२. नैगमेषिणः वचनात् पश्चात् । १३. आज्ञायाः । १४. स्वामिनं दृष्ट्वा खं. १ । स्वामिनिर्दिष्टः खं. २ । १५. स्फुटितघटकण्ठम् ०मतिष्ठपत् मु० । १६. तेनाथ दा० ता०सं०विना ।
Jain Education International
(अष्टमं पर्व
For Private Personal Use Only
www.jainelibrary.org