________________
दशमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
शङ्खध्वनिः कृष्णविष्णोरेष इत्यर्हतोदिते । एकत्र किं हरी स्यातामित्यपृच्छत् स केशवः ॥६६॥ द्रौपदी-कृष्ण-पद्मानां वृत्तान्तं भगवानपि । समाचख्यौ कपिलाय कपिलोऽप्येवमब्रवीत् ॥६७।। जम्बूद्वीपार्धभरतेशस्य कृष्णस्य नाथ ! किम् ? । भवाम्यहं स्वागतिकोऽभ्यागतस्याऽतिथेरिह ? ॥६८।। स्वाम्यूचे न यथैकत्र द्वितीयोऽर्हन्न चक्रभृत् । न च विष्णुस्तथाऽन्येन न मिलेत् कारणागतः ॥६९।। श्रुत्वाऽपीत्यर्हतो वाचं कपिलः कृष्णमीक्षितुम् । ययावब्धेस्तटे कृष्णरथसीमन्तिताध्वनि ॥७०॥ ईक्षाञ्चक्रे च कृष्णस्य मध्येऽम्भोनिधि गच्छतः । रजत-स्वर्णपत्राभान् श्वेत-पीतान् रथध्वजान् ॥७१।। 'कपिलो विष्णुरेषोऽहमुत्कस्त्वां द्रष्टुमागतः । तद्वलस्वे'त्यक्षराढ्यं शङ्ख दध्मौ स शार्गभृत् ॥७२॥ 'आर्गमाम वयं दूरे त्वया वाच्यं न किञ्चन' । इति व्यक्ताक्षरध्वानं शङ्ख कृष्णोऽप्यपूरयत् ॥७३॥ गतच्छतध्वनिमाकर्ण्य ववले कपिलो हरिः । गत्वा कङ्कापुरी पद्मं किमेतदिति चाऽवदत् ।।७४।। पद्मोऽप्यकथयत् स्वागोऽवोचद् यत् स्वामिनि त्वयि । कृष्णेनाऽहं पराभूतो जम्बूभरतविष्णुना ॥७५।। रे ! दुरात्मन्नसमानविग्रहेति वदन् हरिः । पद्मं निसियामास तद्राज्ये तत्सुतं न्यधात् ॥७६॥ कृष्णोऽप्यम्भोधिमुत्तीर्य पाण्डवानेवमब्रवीत् । आच्छे सुस्थितं यावत् तावद् गङ्गामतीत भोः ! ॥७७।। ततस्ते नावमारुह्य गङ्गास्रोतोऽतिभीषणम् । द्वाषष्टियोजनपृथूत्तीर्याऽन्योऽन्यमदोऽवदन् ||७८।। द्रक्ष्यामोऽद्य बलं विष्णोनौरत्रैव विधार्यताम । विना नावं कथं गङ्गास्रोतोऽसावत्तरिष्यति ? ||७९।। पाएवं ते कृतसङ्केता निलीयाऽस्थुर्नदीतटे । इतश्च कृतकृत्यः सन् कृष्णोऽप्यागात् सरिद्वराम् ॥८॥ तत्राऽपश्यन् हरिर्नावं दोष्ण्येकस्मिन् सवाजिनम् । रथं न्यस्याऽन्यदोष्णाऽम्भस्तरीतुमुपचक्रमे ॥८१॥ गङ्गामध्ये गतः श्रान्तः कृष्णश्चैवमचिन्तयत् । अहो ! पाण्डुसुताः शक्ता गङ्गां तेरुस्तरी विना ॥८२।। गङ्गा तच्चिन्तितं ज्ञात्वा ददौ स्ताघं क्षणादपि । उत्ततार ततस्तां च सुखेनैव जनार्दनः ॥८३।। युष्माभिः कथमुत्तीर्णा गछ्रेत्यूचे स पाण्डवान् । नावोत्तीर्णाऽस्माभिरिति प्रत्यूचुस्तेऽपि शार्डिगणम् ॥८४|| वालयित्वा न किं प्रैषि नौरित्युक्तास्तु शाङ्गिणा । तेऽवोचन् प्रेषिता नौर्न युष्मदोजः परीक्षितुम् ॥८५।। कृष्णोऽप्युवाच कुपितो मदोजो ज्ञास्यथाऽधुना । न ज्ञातमब्धितरणेऽमरकङ्काजयेऽपि च ॥८६॥ इत्युक्त्वा लोहदण्डेन रथांस्तेषां ममर्द सः । अभूच्च पत्तनं तत्र नामतो रथमर्दनम् ॥८७॥ ततो निविषयांश्चके पाण्डवान् कंससूदनः । सम्भूय शिबिरेणाऽथ द्वारका नगरी ययौ ॥८८॥ पाण्डवाः स्वपुरं गत्वा तत् कुन्त्या आचचक्षिरे । कुन्त्यपि द्वारकां गत्वा वासुदेवमभाषत ॥८९।। त्वया निर्वासिताः कुत्र तिष्ठन्तु मम सूनवः ? । अस्मिन् भरतवर्षा॰ न सा भूर्भवतो न या ॥१०॥ कृष्णोऽप्यूचे दक्षिणाब्धे रोधस्यभिनवां पुरीम् । निवेश्य पाण्डुमथुरां वसन्तु तव सूनवः ॥९१॥ कुन्ती गत्वा तदाचख्यौ सुतेभ्यः कृष्णशासनम् । तेऽपीयुः पाण्डुविषयं वाधिवेलापवित्रितम् ॥९२॥ कृष्णोऽपि हास्तिनपुरेऽभिषिषेच परीक्षितम् । पौत्रं जामे: सुभद्राया अभिमन्युतनूद्भवम् ॥९३।। पाइतश्च भगवान्नेमिः पावयन् पृथिवीतलम् । क्रमेण "भद्दिलपुरं पुरप्रवरमीयिवान् ॥९४॥ आसंश्च तस्मिन्नगरे सुलसा-नागयोः सुताः
षट् ते ये दत्ता नैगमेषिणा ॥१५॥ तेऽथ द्वात्रिंशतं कन्यां प्रत्येकं परिणिन्यिरे । श्रीनेमिना बोधितास्तु तत्पावें जगृहुव्रतम् ॥१६॥ सर्वे चरमदेहास्ते द्वादशाङ्गधराः क्रमात् । विजहुः स्वामिना सार्धं तपस्यन्तस्तपो महत् ॥९७॥ गइतश्च भगवान्नेमिविहरन द्वारकां ययौ । सहस्राम्रवणे तत्रोपवने समवासरत् ॥९८॥ षट् च ते देवकीपुत्राः षष्ठान्ते पारणार्थिनः । त्रिधा युगैलिनो भूत्वा प्राविशन् द्वारिकां पुरीम् ॥९९॥
तेभ्योऽनीकयशोऽनन्तसेनौ द्वौ देवकीगृहम् । गतौ तौ वीक्ष्य कृष्णाभावि(व?)त्यमोदत देवकी ॥१००।। १. द्वौ वासुदेवौ । २. द्रौपदीपद्मकृष्णानां मु० । ३. श्वेतपीतरथध्वजान् र. विना सर्वत्र । ४. उत्सुकः । ५. अगमाम ता० सं० की० ला० २ ला०सू० । ६. स्वापराधम् । ७. आपृच्छं ला० । ८. तलम् । ९. देशबाह्यान् । १०. पाण्डुदेशम् । ११. भगिन्याः । १२. भद्रिल० खं.१-२, सू० । १४. देवकीपुत्राः । १५. युगलिनौ मु०र० । १६. गृहे ला० । १७. कृष्णसदृशौ ।
मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org