________________
१३२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व का वश्चिन्तेति तानुक्त्वा कृष्णः कृष्णेतराशयः । तीरे निषद्य तपसाऽऽराधयामास सुस्थितम् ॥३१॥ आविर्भूय सुरः सोऽपि किं करोमीत्यभाषत । कृष्णोऽप्यूचे पाथिवेन पद्मेन द्रौपदी हृता ॥३२॥ सा यथा धातकीखण्डद्वीपादानीयते द्रुतम् । तथा कुरु सुर श्रेष्ठ ! लवणोदधिदैवत ! ॥३३॥ देवोऽप्युवाच पद्मस्य पूर्वसङ्गतनाकिना । हृत्वा समर्पिता कृष्ण ! तद्वत् तामर्पयामि वः ॥३४।। यद्वा नेदं रोचते वस्ततः सबलवाहनम् । क्षिपाम्यम्भोनिधौ पद्मं द्रौपदीमर्पयामि वः ॥३५।। कृष्णोऽप्यूचे मेति कार्षीः पाण्डवानां ममापि च । षण्णां रथानां तोयान्तर्देहि मार्गमनाहतम् ॥३६।। यथा तत्र स्वयं गत्वा तं वराकं विजित्य च । आनयामो वयं कृष्णां पन्था ह्येष यशस्करः ॥३७॥ सुस्थितोऽपि तथा चक्रे कृष्णोऽपि हि सपाण्डवः । अब्धि स्थलमिवोल्लघ्याऽमरकां ययौ पुरीम् ॥३८॥ स्थित्वा तद्वहिरुद्यानेऽनुशिष्य हरिणां स्वयम् । दारुकः प्रेषितो दौत्ये ययौ पद्मनृपान्तिके ॥३९॥ तत्पादपीठं पादेनाऽऽक्रामन् भृकुटिभीषणः । कुन्ताग्रेणाऽर्पयन् लेखं दारुकः पद्ममब्रवीत् ॥४०॥ पाण्डवानां वासुदेवसहायानां प्रिया त्वया । जम्बूद्वीपस्य भरतादानीता द्रुपदात्मजा ॥४१॥ दत्तमार्गोउँम्भोधिनाऽपि कृष्ण: पाण्डुसुतैः सह । आगतोऽस्त्यर्प्यतां कृष्णा जिजीविषसि यद्यरे ! ॥४२॥ पद्मोऽप्यूचे स तत्रैव वासुदेव इह त्वहो ! । 'आत्मषष्ठो मम कियान् गच्छ सज्जय तं युधि ॥४३॥ अभ्येत्य तद्वचः कृष्णायाऽऽचख्यौ दारुकोऽपि हि । आगाद् युयुत्सुः पद्मोऽपि सन्नह्य सह सेनया ॥४४॥ तस्याऽऽपतत्सु सैन्येषु वारिधेरिव वीचिषु । स्मेराक्षः पुण्डरीकाक्षः पाण्डवानित्यभाषत ॥४५॥ योत्स्यन्ते किं भवन्तोऽत्र सह पोन भूभजा ? । अथवा युध्यमानं मां प्रेक्षिष्यन्ते रथस्थिताः ॥४६॥ तेऽप्यचः सह पदोन वयं योत्स्यामहे प्रभो ।। राजाऽद्य पद्मनाभो वा वयं वेति का श्रवाः ॥४७॥ ततश्च ते युयुधिरे पद्मेन पृथिवीभुजा । जिताश्च पुनरप्येत्य वासुदेवमदोऽवदन् ॥४८॥ स्वामिन् ! बलीयान् पद्मोऽयं बलवत्सैनिकावृतः । त्वयैव जय्यो नाऽस्माभिः कुरुष्वेह यथोचितम् ॥४९।। कृष्णोऽप्यूचे जिता यूयं तदैव ननु पाण्डवाः !। राजा पद्मो वयं वेति गदितं वचनं यदा ॥५०॥ राजाऽहमेव नो पद्म इत्युदित्वा जनार्दनः । युधे चचाल दध्मौ च पाञ्चजन्यं महास्वनम् ॥५१॥ बलत्रिभागः पद्मस्य तच्छतध्वनिनाऽत्रुटत् । गतिमंगकुलस्येव सिंहनादेन सर्पता ॥५२॥ शार्गं चाऽस्फालयच्छार्गी तस्यापि ध्वनिना पुनः । बलत्रिभागः पद्मस्याऽत्रुटद् दुर्बलरज्जुवत् ॥५३।। अवशिष्टतृतीयांशबल: पद्मो रणाङ्गणात् । प्रणश्याऽमरकङ्काया प्रविवेश झगित्यपि ॥५४॥ लोहार्गलासनाथानि पिदधे गोपराणि सः । कष्णोऽपि प्रज्वलन् क्रोधादुत्ततार रथादथ ॥५५॥
रिः । क्रुद्धोऽन्तक इव व्यात्ताननदंष्ट्राभयङ्करः ॥५६॥ नर्दन्नत्यूजितं सोऽथ विदधे पादैदर्दरम् । चकम्पे वसुधा तेन हृदयेन सह द्विषाम् ॥५७।। प्राकाराग्राणि बभ्रंशः पेतर्देवकलान्यपि । कट्रिमानि व्यशीर्यन्त शागिणः पादददरैः ।।५८॥ गर्तेषु लिल्यिरे केऽपि केऽपि तोयेषु चाऽविशन् । निपेतुर्मच्छिताः केऽपि तत्पुर्यां नहरेर्भयात् ॥५९॥ क्षम्यतां देवि ! रक्षाऽस्मादन्तकादिव शागिणः । इति जल्पन् ययौ पद्मः शरणं द्रुपदात्मजाम् ॥६०।। साऽप्यूचे मां पुरस्कृत्य स्त्रीवेषं विरचय्य च । प्रयाहि शरणं कृष्णं तथा जीवसि नान्यथा ॥६१॥ इत्यक्तः स तथा चके नमश्चके च शार्डिगणम । शरण्यो वासुदेवोऽपि मा भैषीरित्युवाच तम् ॥१२॥ द्रौपदी चाऽर्पयामास पाण्डवानां जनार्दनः । ववले च रथारूढः सह तैस्तेन वर्त्मना ॥६३।। पतदा च तत्र चम्पायामुद्याने पूर्णभद्रके । भगवान् समवासार्षीन्मुनिसुव्रततीर्थकृत् ॥६४॥
कपिलस्तत्सभासीनो विष्णुं प्रपच्छ तं प्रभुम् । स्वामिन् ! ममेव कस्यायं शङ्खनादः अवोऽतिथिः ? ॥६५॥ १. शुद्धाशयः । २. नैवं खं. २ । ३. जलमध्ये । ४. अक्षुण्णम्, अनभ्यस्तम् । ५. द्रौपदीम् । ६. कृष्णेन । ७. दूतकर्मणि । ८. ०म्बुधिनापि मु० । ९. त्वसौ ता०स०की०पा०पु० । १०. आत्मना षष्ठः कृष्णः । ११. युधे खं. १ । १२. कृष्णः । १३. कृतप्रतिज्ञाः । १४. युधि मु० र० । १५. वैक्रियसमुद्धातेन । १६. पादघातम् । १७. नरसिंहस्य-कृष्णस्य । १८. यमादिव । १९. श्रवणस्य कर्णस्य अतिथिः, श्रूयते इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org