________________
॥ दशमः सर्गः ॥
इतश्च पाण्डवाः कृष्णप्रसादात् स्वपुरे स्थिताः । वारकेण प्रमुदिता द्रौपद्या सह रेमिरे ॥१॥ द्रौपद्याश्चाऽन्यदा वेश्मन्याययौ नारदो भ्रमन् । तया त्वविरतोऽसावित्यवज्ञाय न सत्कृतः ॥२॥ भाविनी दुःखभागेषा कथं न्विति विचिन्तयन् । निर्ययौ तद्गृहात् क्रुद्धो विरुद्धो नारदो मुनिः ॥३॥ अत्र कृष्णभयात् तस्या अपश्यन्नप्रियावहम् । जगाम धातकीखण्डभरते नारदस्ततः ॥४॥ तत्र चम्पाजुषो विष्णोः कपिलाख्यस्य सेवकम् । पुर्यां सोऽमरकङ्कायां स्त्रीलोलं पद्ममभ्यगात् ॥५॥ स राजोत्थाय नीत्वाऽन्तःपुरे स्वाः स्त्रीः प्रदर्शयन् । ऊचे नारदमीदृश्यो दृष्टाः किं क्वाऽपि योषितः ? ॥६।। सेत्स्यत्यर्थो ममाऽनेनेत्यामृशन्नारदोऽवदत् । कूपमण्डूकवद् राजन् ! किमेताभिः प्रमोदसे ? ||७|| जम्बूद्वीपस्य भरते नगरे हस्तिनापुरे । पाण्डवानां महिष्यस्ति द्रौपदीति पदं श्रियाम ॥८॥ तस्याः पुरस्तादेता हि चेट्य एवाऽखिला अपि । इत्युदित्वा नारदर्षिरुत्पत्याऽगमदन्यतः ।।९।। पअथेप्सुौपदी पद्मनाभः पातालवासिनम् । तपसाऽऽराधयामास पूर्वसङ्गतिकं सुरम् ॥१०॥ प्रत्यक्षीभूतममरं किं करोमीति वादिनम् । पद्मस्तमूचेऽत्राऽऽनीय द्रौपदी मे समर्पय ॥११॥ सोऽप्याख्यत् पाण्डवान् मुक्त्वा द्रौपदी नान्यमिच्छति । त्वनिर्बन्धादानयामीत्युक्त्वा गजपुरे ययौ ॥१२॥ ततोऽवस्वापनी दत्त्वा प्रसुप्तां द्रौपदी निशि । अपहृत्य समानीयाऽऽर्पयत् पद्माय सोऽमरः ॥१३॥ प्रबुद्धा द्रौपदी तत्राऽप्रेक्षमाणा निजां स्थिंतिम् । किं स्वप्नो वेन्द्रजालं वेत्यामृशद् विधुरा हृदि ॥१४॥ बभाषे पद्मनाभस्तां मा भैषीमंगलोचने ! । आनायिता मयाऽसि त्वं भुझ्व भोगान् मया सह ॥१५॥ द्वीपोऽयं धातकीखण्डोऽमरकङ्का पुरी त्वसौ । राजाऽहं पद्मनाभोऽत्र बुर्भूषुस्तेऽधुना पतिः ॥१६॥ प्रत्युत्पन्नमतिौपद्यूचे मासान्तरे यदि । कोऽपि नैष्यति मदीयः करिष्ये त्वद्वचस्तदा ॥१७॥ अशक्याऽत्राऽऽगतिर्नृणां जम्बूद्वीपजुषामिति । विमृशंस्तद्वचो मेने पद्मश्छद्मपरोऽपि हि ॥१८॥ न भोक्ष्ये मासपर्यन्तेऽप्यहं पतिविनाकृता । द्रौपदीत्यभिजग्राह सतीव्रतमहाधना ॥१९॥ पाण्डवा अप्यपश्यन्तः प्रभाते द्रौपदीं गृहे । भशमन्वेषयामासर्जल-स्थल-वनादिषु ।।२०।। तद्वार्तामपि ते नाऽऽपुस्तन्माताऽऽख्यच्च शागिणे । स एव शरणं तेषां बन्धुश्च "विधुरेषु सः ॥२१॥ कृष्णोऽपि कृत्यमूढोऽस्थाद् यावत् तावत् समाययौ । स नारदमुनिर्द्रष्टुं तमनर्थं स्वयं कृतम् ।।२२।। किं दृष्टा द्रौपदी क्वाऽपीत्यनुयुक्तः स विष्णुना । ऊचेऽगां धातकीखण्डेऽमरकां पुरीमहम् ॥२३॥ तत्र भूपस्य पद्मस्य सद्मनि द्रुपदात्मजाम् । अद्राक्षमहमित्युक्त्वा जगामोत्पत्य सोऽन्यतः ॥२४॥ पबभाषे पाण्डवान् कृष्णः पद्मन द्रौपदी हृता । एष तामाहरिष्यामि मा खिद्यध्वं मनागपि ॥२५।। ततः सपाण्डवो विष्णुर्महानीकसमावृतः । जगाम मागधाभिख्यप्राचीनौम्भोधिरोधसि ॥२६॥ ऊचुश्च पाण्डवाः कृष्णं स्वामिन्नत्यन्तभीषणः । संसार इव चाऽपारः पारावारोऽयमद्धतः ॥२७॥ मग्नास्तिष्ठन्ति कुत्रापि लोष्टुंवत् पर्वता इह । तिष्ठन्ति पर्वतप्रायाण्यत्र यादांसि कुत्रचित् ॥२८॥ कृतशोषप्रतिज्ञश्च वोडवोऽत्रास्ति कुत्रचित् । वेलन्धरसुराश्चात्र कैर्वर्ता इव कुत्रचित् ।।२९।।
उद्वर्त्यन्तेऽत्रोमिभिश्च कमण्डलुनिभा घनाः । अलयो मनसाऽप्येष लकनीयः कथं ततः ? ॥३०॥ १. अप्रियं अपश्यन् । २. वासुदेवस्य । ३. श्रियाः मु० । ४. तपसा साधया० मु० । ५. पूर्वमित्रम् । ६. हस्तिनापुरम् । ७. निद्राम्, अपस्वापनीम् ता० सं० छा० की० ला० आ० । ८. स्थानम् । ९. स्वप्नमिन्द्र० मु० । १०. सती मु० । ११. भवितुं इच्छुः । १२. पतिं विना कृता ला०सू० विना । १३. पाण्डवमाता । १४. विधुरेष्वपि खं.१, ला०सू० की० ला० पु० छा० ला२० । १५. कङ्कापुरी० मु० । १६. पूर्वसमुद्रतटे । १७. समुद्रः । १८. लोष्टवत् पा० की० ला १. । १९. जलजन्तवः । २०. कृता शोषेशोषणे प्रतिज्ञा येन सः। २१. वडवानलः । २२. धीवराः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org