________________
१३०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
एवं दयाप्रधानः सन् भोज्येष्वपि विविक्तधीः । श्रावकोऽपि क्रमयोगात् संसारात् परिमुच्यते" ॥३६४॥ देशनां तां प्रभोः श्रुत्वा वरदत्तो नरेश्वरः । परं संसारवैराग्यमाससाद व्रतोत्सुकः ॥३६५॥ नत्वाऽथ कृष्णः पप्रच्छ सर्वस्त्वय्यनुरागवान् । राजीमत्या विशेषानुरागे किं नाम कारणम् ? ॥३६६॥ ततो धन-धनवतीभवादारभ्य नेम्यपि । तया सह स्वसम्बन्धमाख्यादष्टभवावधि ॥३६७।। पाअथोत्थाय नमस्कृत्य वरदत्तमहीपतिः । कृताञ्जलिर्जगन्नाथं नेमिनाथं व्यजिज्ञपत् ।।३६८।। त्वत्तः श्रावकधर्मोऽपि प्रपन्नः स्यान्महाफलः । जन्तूनां स्वातिनक्षत्रजीमूतादिव पुष्करम् ॥३६९।। परं गुरौ त्वयि प्राप्ते नाऽहं तुष्यामि तावता । को हि कल्पद्रुमे प्राप्ते पत्रमात्रमभीप्सति ॥३७०।। तव प्रथमशिष्यत्वमभीप्सामि प्रयच्छ मे । संसारतारणी दीक्षां दयां कुरु दयानिधे ! ॥३७१।। इत्युक्तवन्तं तं भूपं स्वयं प्रावाजयत् प्रभुः । क्षत्राणां विंशतिशती तदनु प्राव्रजत् तथा ॥३७२।। धनदेव-धनदत्तौ बन्धू धनभवात् तु यौ । अमात्यो विमलबोधोऽपराजितभवात् तु यः ॥३७३।। स्वामिना ते सह भ्रान्ता भवेऽस्मिन् भूभुजस्त्रयः । तत्राऽऽयाता राजीमत्याः प्रसङ्गात् प्राग्भवैः श्रुतैः ॥३७४।। उत्पन्नजातिस्मरणा जातवैराग्यसम्पदः । अरिष्टनेमिपादान्ते तदैवाऽऽददिरे व्रतम् ॥३७५॥ त्रिभिविशेषकम् ।। तैः समं वरदत्तादीनेकादश गणाधिपान् । स्थापयामास विधिवन्नेमिनाथो जगद्गुरुः ॥३७६।। स्वाम्याख्यत्रिपदी तेभ्यो ध्रौव्योत्पाद-व्ययात्मिकाम् । तत्रिपद्यनुसारात् ते द्वादशाङ्गीमसूत्रयन् ॥३७७।। यक्षिणी राजपुत्री च भूरिकन्यासमावृता । प्राव्रजत् तां तदा स्वामी प्रत्यष्ठाच्च प्रतिनीम् ॥३७८।। दशार्हा उग्रसेनश्च वासुदेवश्च लागली । प्रद्युम्नाद्याः कुमाराश्च श्रावकत्वं प्रपेदिरे ॥३७९।। शिवा-रोहिणी-देवक्यो रुक्मिण्याद्याश्च योषितः । जगृहः श्रावकधर्ममन्याश्च स्वामिसन्निधौ ॥३८०।। एवं समवसरणे तस्मिन् सङ्घः प्रभोरभूत् । चतुर्विधो धर्म इव पृथिवीतलपावनः ॥३८१।। यातप्रथमपौरुष्यां व्यस्राक्षीद् देशनां प्रभुः । द्वितीयपौरुषीं चक्रे वरदत्तस्तु देशनाम् ॥३८२।। भगवन्तं ततो नत्वा वासवाद्या दिवौकसः । कृष्णाद्या भूभुजोऽन्येऽपि स्थानं निजनिजं ययुः ॥३८३।। पातत्तीर्थजन्मा गोमेधख्यास्यः श्यामो नुवाहनः । मातुलिङ्ग-पशु-चक्रधारिदक्षिणदोस्त्रयः ॥३८४।।
क्ति-दक्षिणेतरदोस्त्रयः । स्वामिनो नेमिनो जज्ञे तदा शासनदेवता ॥३८५।। तत्तीर्थजन्मा कूष्माण्डी स्वर्णाभा सिंहवाहना । आम्रलुम्बी-पाशधरें-वामेतरभुजद्वया ।।३८६॥ पुत्रा-ऽङ्कशधरवामकरयुग्माऽभवत् प्रभोः । अम्बिकेत्यभिधानेन भर्तुः शासनदेवता ॥३८७||
ताभ्यां सदाऽधिष्ठितसन्निधानो, व्यतीत्य वर्षाः शरदं च नेमिः । भद्रेभगामी जनभद्रकामी, विहर्तुमन्यत्र ततश्चचाल ॥३८८।।
॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये अष्टमे" पर्वणि अरिष्टनेमिकुमारक्रीडादीक्षा-केवलज्ञानोत्पत्तिवर्णनो नाम
नवमः सर्गः ॥
सनकुल
-X
१. ३५० तः ३६३ पर्यन्ता: श्लोकाः ‘योगशास्त्रे' तृ.प्र.दृश्यन्ते । २. जलम् । ३. सह मु० र० । ४. प्रवर्तनीम् खं० २ । ५. दानशील-तप-भावरूप चतुर्विधो धर्मः । ६. त्रिमुखः । ७. ०शूलि० खं० १, सू० । ८. स्वर्णभा खं० २ । ९. पाशधरा ला०सू० । १०. वर्षाशरदां मु० । वर्षाशरदौ (?) । वर्षाशरदं र०स्वी०पाठः । वर्षाऋतुं शरद्ऋतुम् च । ११, ०ऽष्टमपर्वणि मु० । १२. केवलोत्पत्ति० खं० १-२, ला०सू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.