________________
नवमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१२९
सद्यः सम्मूछितानन्तजन्तुसन्तानदूषितम् । नरकाध्वनि पाथेयं कोऽश्नीयात् पिशितं सुधीः ? ॥३३३।। पाअन्तर्मुहूर्तात् परतः सुसूक्ष्मा जन्तुराशयः । यत्र मूर्च्छन्ति तन्नाऽद्यं नवनीतं विवेकिभिः ।।३३४॥
एकस्याऽपि हि जीवस्य हिंसने किमघं भवेत् ? । जन्तुजातमयं तत् को नवनीतं निषेवते? ॥३३५।। प[अनेकजन्तुसङ्घातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकम् ? ॥३३६।। भक्षयन्माक्षिकं क्षुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यः शौनिकेभ्योऽतिरिच्यते ॥३३७॥ एकैककुसुमक्रोडाद्रसमापीय मक्षिकाः । यद् वमन्ति मधूच्छिष्टं तदश्नन्ति न धामिकाः ॥३३८।। अप्यौषधकृते जग्धं मधु श्वर्धनिबन्धनम् । भक्षितः प्राणनाशाय कालकूटकणोऽपि हि ॥३३९।। मधुनोऽपि हि माधुर्यमबोधैरहहोच्यते । आसाद्यन्ते यदास्वादाच्चिरं नरकवेदनाः ॥३४०॥ पाउदुम्बर-वट--प्लक्ष-काकोदुम्बरशाखिनाम् । पिप्पलस्य च नाऽश्नीयात् फलं कृमिकुलाकुलम् ॥३४१।।
अप्राप्नुवन्नन्यभक्ष्यमपि क्षामो बुभुक्षया । न भक्षयति पुण्यात्मा पञ्चोदुम्बरजं फलम् ॥३४२॥ आर्द्रः कन्दः समग्रोऽपि सर्वः किसलयोऽपि च । स्नुही लवणवृक्षत्वक् कुमारी गिरिकर्णिकाः ॥३४३।। शतावरी विरूढानि गुडूची कोमलाम्लिका । पल्यङ्कोऽमृतवल्ली च वल्ल: शूकरसंज्ञितः ॥३४४।। अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपापरैः । मिथ्यादृशामविज्ञाता वर्जनीयाः प्रयत्नतः ॥३४५।। स्वयं परेण वा ज्ञातं फलमद्याद् विशारदः । निषिद्धे विषफले वा मा भूदस्य प्रवर्तनम् ॥३४६।। पाअन्नं प्रेतपिशाचाद्यैः सञ्चरद्भिनिरङ्कुशैः । उच्छिष्टं क्रियते यत्र तत्र नाऽद्याद् दिनात्यये ॥३४७॥ घोरोन्धकाररुद्धाक्षैः पतन्तो यत्र जन्तवः । नैव भोज्ये निरीक्ष्यन्ते तत्र भुञ्जीत को निशि? ||३४८।। मेधां पिपीलिका हन्ति युका कुर्याज्जलोदरम । करुते मक्षिका वान्ति कष्ठरोगं च कोलिकः ॥३४ कण्टको दारुखण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तर्निपतितस्तालु विध्यति वृश्चिकः ॥३५०॥ विलग्नश्च गले वाल: स्वरभङ्गाय जायते । इत्यादयो दृष्टदोषाः सर्वेषां निशि भोजने ॥३५१।। नाऽप्रेक्ष्यसूक्ष्मजन्तूनि निश्यद्यात् प्रासुकान्यपि । अवश्यं जन्तुसम्पातः सम्भवेदशने तदा ॥३५२।। संसजज्जीवसङ्घातं भुञ्जाना निशि भोजनम् । राक्षसेभ्यो विशिष्यन्ते मूढात्मानः कथं न ते ? ॥३५३।। वासरे च रजन्यां च यः खादन्नेव तिष्ठति । शृङ्ग-पुच्छपरिभ्रष्टः स्पष्टं स पशुरेव हि ॥३५४॥ अह्नो मुखेऽवसानेऽपि यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोषज्ञोऽश्नात्यसौ पुण्यभाजनम् ॥३५५।। अकत्वा नियमं दोषांभोजनाद दिनभोज्यपि । फलं भजेन्न निर्व्याजं न वद्धिर्भाषितं विना ॥३५६।। ये वासरं परित्यज्य रजन्यामेव भुञ्जते । ते परित्यज्य माणिक्यं काचमाददते जडाः ॥३५७|| वासरे सति ये श्रेयस्काम्यया निशि भुञ्जते । ते वपन्त्यूषरक्षेत्रे शालीन् सत्यपि पल्वले ॥३५८।। उलूक-काक-मार्जार-गृध्र-शम्बर-शूकराः । अहि-वृश्चिक-गोधाश्च जायन्ते रात्रिभोजनात् ॥३५९॥ करोति विरतिं धन्यो यः सदा निशि भोजनात् । सोऽर्धं पुरुषायुषस्य स्यादवश्यमुपोषितः ॥३६०॥ रजनीभोजनत्यागे ये गुणाः परितोऽपि तान् । सद्गतेरेव जनकान् कः सङ्ख्यातुमलं भवेत् ? ॥३६१॥ आमगोरससम्पृक्तद्विदलादिषु जन्तवः । दृश्यन्ते बहवः सूक्ष्मास्तस्मात्तानि विवर्जयेत् ॥३६२।।
जन्तुमिश्रं फलं पुष्पं पत्रं चाऽन्यदपि त्यजेत् । सन्धानमपि संसक्तं दयाधर्मपरायणः ।।३६३।। १. न भक्षणीयम् । २. हिंसा न ला० । ३. किं निर्देष्टुमशक्यं पापम् । ४. मधु । ५. सौनिके० खं०१-२, सू० । खट्टिकेभ्यः अधिकीभवति । ६. ३२६तः ३३७ पर्यन्ताः श्लोकाः 'योगशास्त्रे' तृतीयप्रकाशे दृश्यन्ते । ७. भक्षितम् । ८. नरककारणम् । ९. कालकूटं विषं, तस्य कणः । १०. रात्रौ । ११. प्रबलान्धकारनिरुद्धलोचनैः । १२. मर्कटकः, ऊर्णनाभः । १३. ३३८ त: ३४९ पर्यन्ताः श्लोकाः 'योगशास्त्रे' तृतीयप्रकाशे दृश्यन्ते । १३. अप्रेक्ष्याः प्रेक्षितुमशक्याः सूक्ष्मा जन्तवो यत्र तानि । १४. अप्युद्यत्केवलज्ञानैर्नादृतं यन्निशाऽशनम् (योग. तृ०प्र० ५३) । १५. तथा खं० १, ला०सू० । १६. कथं नु र० । १७. दोषा रात्रिः । १८. निश्छद्म । १९. भाषितं 'इदं मे मूलधनं, तदुपरि एतावद् व्याज देयं त्वया' इतिरूपं निश्चयं विना न लभ्यते वृद्धिः कदापीति भावः । २०. अयं श्लोकः । खं० २, की० प्रत्योरेव प्राप्यते । २१. न सर्वज्ञादृते कश्चिदपरो वक्तुमीश्वरः (योग० तृ० प्र०७०)। २२. दृष्टाः केवलिभिः मु० योग० तृ०प्र०च०। २३. सन्धानं-आचारं (अथाणु), संसक्तं-जन्तुसंसक्तम् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org