________________
१२८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
तत्त्वानां श्रद्दधानत्वं सम्यग्दर्शनमुच्यते । यथावस्थिततत्त्वावबोधो ज्ञानं प्रकीर्तितम् ॥३०२।। सावद्ययोगविरतिश्चारित्रं मुक्तिकारणम् । सर्वात्मना यतीन्द्राणां देशतः स्यादगारिणाम् ॥३०३।। देशचारित्रनिरतो विरतानामुपासकः । भवस्वरूपं जानानः श्रावको जीवितोवधिः ॥३०४।। मद्यं मांसं नवनीतं मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ॥३०५।।
आमगोरससम्पृक्तद्विदलं पुष्पितौदनम् । दध्यहर्द्वितयातीतं कुथितान्नं च वर्जयेत् ॥३०६।। पामदिरापानमात्रेण बुद्धिर्नश्यति दूरतः । वैदग्धीबन्धुरस्याऽपि दौर्भाग्येणेव कामिनी ॥३०७॥ पापाः कादम्बरीपानविवशीकृतचेतसः । जननी हा ! प्रियीयन्ति जननीयन्ति च प्रियाम् ॥३०८॥ न जानाति परं स्वं वा मद्याच्चलितचेतनः । स्वामीयति वराक: स्वं स्वामिनं किङ्करीयति ॥३०९।। मद्यपस्य शबस्येव लुठितस्य चतुष्पथे । मूत्रयन्ति मुखे श्वानो व्यात्ते विवरशङ्कया ॥३१०॥ मद्यपानरसे मग्नो नग्नः स्वपिति चत्वरे । गूढं च स्वमभिप्रायं प्रकाशयति लीलया ॥३११।। वारुणीपानतो यान्ति कान्ति-कीर्ति-मति-श्रियः । विचित्राश्चित्ररचना विलुठत्कज्जलादिव ॥३१२॥ भूतात्तवन्नरीनति रारटीति सशोकवत् । दाहज्वरातवद् भूमौ सुरापो लोलुठीति च ॥३१३॥ विदधत्यङ्गशैथिल्यं ग्लपयन्तीन्द्रियाणि च । मूर्छामतुच्छां यच्छन्ती हीला हालौहलोपमा ॥३१४॥ विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा । मद्यात् प्रलीयते सर्वं तृण्या वह्निकणादिव ॥३१५।। रसोद्भवाश्च भूयांसो भवन्ति किल जन्तवः । तस्मान्मद्यं न पातव्यं हिंसापातकभीरुणा ॥३१६॥ दत्तं न दत्तमात्तं च नाऽऽत्तं कृतं च नो कृत मुंषोधराज्यादिव हा ! स्वैरं वदति मद्यपः ॥३१७|| गृहे बहिर्वा मार्गे वा परद्रव्याणि मूढधीः । वध-बन्धादिनिर्भीको गृह्णात्याच्छिद्य मद्यपः ॥३१८।। बालिकां युवतीं वृद्धां ब्राह्मणी श्वपचीमपि । भुङ्क्ते परस्त्रियं सद्यो मद्योन्मादकदर्थितः ॥३१९॥ रटन् गायन् लुठन् धावन् कुप्यंस्तुष्यन् रुदन् हसन् । स्तभ्नन्नमन् भ्रमंस्तिष्ठन् सुरापः पापण्नटः ॥३२०॥ पिबन्नपि मुहुर्मद्यं मद्यपो नैव तुष्यति । जन्तुजातं कवलयन् कृतान्त इव सर्वदा ॥३२१॥ दोषाणां कारणं मद्यं मद्यं कारणमापदाम् । रोगातुर इवाऽपथ्यं तस्मान्मद्यं विवर्जयेत् ॥३२२॥ पाचिखादिषति यो मांसं प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं दयाख्यं धर्मशाखिनः ॥३२३॥
अशनीयन सदा मांसं दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्ली स रोपयितमिच्छति ॥३२४|| हन्ता पलस्य विकेता संस्कर्ता भक्षकस्तथा । केताऽनुमन्ता दाता च घातकाः सर्व एव ते ॥३२५॥ ये भक्षयन्त्यन्यपलं स्वकीयपलेपुष्टये । त एव घातका यन्न वधको भक्षकं विना ॥३२६॥ मृष्टान्नान्यपि विष्ठाँसादमृतान्यपि मूसात् । स्युर्यस्मिन्नङ्गकस्याऽस्य कृते क: पापमाचरेत् ? ॥३२७।। मांसास्वादनलुब्धस्य देहिनं देहिनं प्रति । हन्तुं प्रवर्तते बुद्धिः शाकिन्या इव दुर्धियः ॥३२८।। ये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्स्वपि । सुधारसं परित्यज्य भुञ्जते ते हलाहलम् ॥३२९॥ न धर्मो निर्दयस्याऽस्ति पलौदस्य कुतो दया । पललुब्धो न तद्वेत्ति विद्याद्वोपदिशेन्नहि ॥३३०॥ नाऽन्यस्ततो गतघृणो नरैकार्चिष्मदिन्धनम् । स्वमांसं परमांसेन यः पोषयितुमिच्छति ॥३३१॥
शुक्र-शोणितसम्भूतं विष्ठारसविवधितम् । लोहितं स्त्यानतामाप्तं कोऽश्नीयादकृमिः पलम् ? ॥३३२।। १. श्रद्दधानं च खं० २। २.०तत्त्वानां बोधो मु० २० । ३. जीवितावधि मु० । ४. ०सम्पृक्तं द्वि० खं० २, ला०सू० । ५. विदग्धस्यापि । ६. मदिरा, ७. प्रियायन्ति खं० २। प्रियामिव आचरन्ति। ८. जननीमिवाचरन्ति। ९. ३०५ तः ३१३ पर्यन्ता: श्लोकाः 'योगशास्त्रे तृतीयप्रकाशे लभ्यन्ते, ६-१४ । १०. सुरा । ११. विषोपमा । १२. तृणानां समूहः । १३. तदुद्भवा० खं. १, सू० । मदिरोत्पन्नाः । १४. असत्यकथितराज्यादिव। १५. चाण्डालीम् । १६. स्तम्भन्नमन् मु० र० । १७. पापिष्ठः । १८. तृप्यति (यो.शा.तृ.प्र.टी.) । १९. खादितुमिच्छति । २०. अशनमिवाचरन् । २१. कर्तुमिच्छति । २२. अग्नौ । २३. मांसस्य । २४.३१४त: ३२५ पर्यन्ताः श्लोकाः 'योगशास्त्रे' तृतीयप्रकाशेऽपि लभ्यन्ते। २५.०बलपुष्टये खं०२।२६. मिष्टान्नान्यपि यो.शा.तृ.प्र०] । २७. विष्ठात्वेन । २८. मूत्रत्वेन । २९. अङ्गकस्य-शरीरस्य । ३०. विषभेदम्। ३१. मांसोपजीविनः, रक्षसः । ३२. जानीयात् । ३३. नरक एव अग्निः तस्मिन् इन्धनम् । ३४. रक्तम् । ३५. कोऽश्नीयात् कृमिसंकुलम् ला० । ०दकृमिः फलम् खं० १-२ । कृमिरहितोऽन्यः को जन्तुं पलं मांसं अश्नीयात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org