________________
नवमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१२७
अन्येधुर्दुग्धमाकण्ठं पपौ राजीमती सुधीः । तत्राऽऽयाते तु मंदनफलं जघ्रौ च वान्तिकृत् ॥२६७।। ऊचे च रथनेमिं सा स्थालमानय काञ्चनम् । सोऽप्यानिनाय सा तत्र पीतदुग्धं ववाम च ॥२६८।। रथनेमे ! पिबेदं त्वमित्युवाचोग्रसेनजा । सोऽभ्यधात् किमहं श्वाऽस्मि वान्तपानाय वक्षि यत् ।।२६९।। साऽप्यब्रवीदपातव्यमिदं त्वमपि वेत्सि किम्? । सोऽवोचत् केवलो नाऽहं बाला अपि विदन्त्यदः ॥२७०।। राजीमती जगादाऽथ यदि जानासि तर्हि रे ! । नेमिनाथेन वान्तां मामुपभोक्तुं किमिच्छसि ? ॥२७१।। तस्य भ्राताऽपि भूत्वा त्वं कथमेवं चिकीर्षति ? । माऽतः परमिदं वादीनरकायुर्निबन्धनम् ॥२७२।। एवं तयोक्तस्तुष्णीको हीणः क्षीणमनोरथः । रथनेमिनिजं धाम जगाम विमनायितः ॥२७३।। राजीमती च श्रीनेमावनुरागपरायणा । संविग्ना गमयन्त्यस्थाद् वासरान् वर्षसन्निभान् ॥२७४।। पानेमिनाथोऽपि हि चतुःपञ्चाशद्वासरी व्रतात् । विहृत्याऽऽगाद् रैवतके सहस्त्रामवणे वने ॥२७५।। वेतसस्य तले तत्र ध्यानान्तरविवर्तिनः । श्रीनेमेरष्टमस्थस्य घातिकर्माणि तुत्रुटुः ॥२७६।। आश्विनस्याऽमावास्यायां पूर्वाह्ने त्वाष्ट्रगे विधौ । केवलज्ञानमुत्पेदे स्वामिनोऽरिष्टनेमिनः ॥२७७।। सद्यः सुरेन्द्राश्चलितासनास्तत्र समाययः । चक्रः समवसरणं प्राकारत्रयभूषितम् ॥२७८॥ प्रविश्य पूर्वद्वारेण विशेधन्वशतोनतम् । तत्र प्रदक्षिणीचक्रे चैत्यवृक्षं जगद्गुरुः ॥२७९।। 'तीर्थाय नमः' इत्युक्त्वा द्वाविंशः सोऽथ तीर्थकृत् । पूर्वसिंहासने पूर्वाभिमुंखं समुपाविशत् ॥२८०॥
श्रीनेमेः प्रतिरूपाणि दिक्ष्वन्यास्वपि तत्क्षणम् । रत्नसिंहासनस्थानि विचक्रुर्व्यन्तरामराः ।।२८१।। पाअथ तस्थुर्यथास्थानं देवा देव्यश्चतुर्विधाः । दत्तेक्षणा: स्वामिमुखे चकोरा इव शीतगौ ॥२८२।। तथा च समवसृतं स्वामिनं शैलपालकाः । गत्वाऽऽचख्युः स्वनाथाय देवकीतर्नुजन्मने ॥२८३।। रूप्यस्य द्वादश कोटी: सार्धास्तेभ्यः प्रदाय सः । प्रचचाल गजारूढो नेमिनाथं विवन्दिषुः ।।२८४।। समं दशाहेर्दशभिर्मातृभिर्भ्रातृभिस्तथा । कोटिसङ्ख्यैः कुमारैश्च समग्रान्तःपुरेण च ॥२८५।। महीभुजां षोडशभिः सहस्त्रैश्च समावृतः । ऋद्ध्या महत्या समवसरणं प्रययौ हरिः ॥२८६।। दूरादप्यवरुह्येभाद् राज्यचिह्नान्यपास्य च । उदग्द्वारेण समवसरणे प्राविशद् हरिः ॥२८७।। तत्र प्रदक्षिणीकृत्य नेमिं नत्वा च शार्गभृत् । अनुशक्रं निषसाद यथास्थानमथाऽपरे ॥२८८।। इन्द्रोपेन्द्रौ पुनर्नत्वा जिनेन्द्रमथ नेमिनम् । प्रारेभाते स्तोतुमेवं गिरा भक्तिपवित्रया ॥२८९।। पा"नमस्तुभ्यं जगन्नाथ ! विश्वविश्वोपकारिणे । आजन्म ब्रह्मनिष्ठाय दयावीराय तायिने ।।२९०।। दिष्ट्या कर्माणि घातीनि स्वामिन् ! घातितवानसि । शुक्लध्यानेन दिवसैश्चतुःपञ्चाशताऽपि हि ।।२९१।। न केवलं यदुकुलं त्वया नाथ ! विभूषितम् । इदं जगत्त्रयमपि केवलालोकभास्वता ॥२९२।। अस्ताघो यस्तथा स्वामिन्नपारश्च भवाम्बुधिः । गुल्फगोष्पदमात्रं स स्यात् त्वत्पादप्रसादतः ॥२९३|| सर्वस्य भिद्यते स्वान्तं ललनाललितैः प्रभो ! । अभेद्यो वज्रहृदयस्त्वत्तो नाऽन्यो जगत्यपि ॥२९४।। त्वयि व्रतनिषेधिन्यो बन्धूनां ता गिरोऽधुना । भवन्ति पश्चात्तापाय तवद्धि पश्यतामिमाम् ॥२९५।। दंराग्रहैबन्धुवगैदिष्ट्या न स्खलितस्तदा । जगत्पुण्यैरस्खलितोत्पन्नकेवल ! पाहि नः ।।२९६।। यत्र तत्र स्थितस्याऽपि यद्वा तद्वाऽपि कर्वतः । त्वमेवं देव ! हृदये भूयाः किमपरेण मे?" ॥२९७। इति स्तुत्वा विरतयोस्तत्रेन्द्रोपेन्द्रयोः प्रभुः । सर्वभाषानुगगिरा प्रारेभे धर्मदेशनाम् ।।२९८।। "विद्युद्विलासचपलाः श्रियः सर्वशरीरिणाम् । संयोगा विप्रयोगान्ताः स्वप्नप्राप्तार्थसन्निभाः ॥२९९॥ गत्वरं यौवनमपि मेघच्छायासहोदरम् । अम्बुबुद्बुदकल्पानि वपूंष्यपि वपुष्मताम् ।।३००।।
तस्मादसारे संसारे सारमत्र न किञ्चन । सारं तु दर्शन-ज्ञान-चारित्रपरिशीलनम् ॥३०१॥ १. रथनेमौ आगते सति । २. भाषायां 'मिंढल' इतिख्यातम् । ३. वान्ति० ला० । ४. नाऽत: सू० । ५. नेमेः देहं १० धनुःप्रमाणं तद्द्वादृशगुणं १२० धनुःप्रमाणं चैत्यवृक्षस्य । ६. ०शतोन्नति खं० १, सू० । ७. पूर्वाभिमुखः खं० १, सू० विना । ८. कृष्णाय । ९. रौप्यस्य ता०सं० । १०. सः खं० १ । ११. अगाधः । १२. पुराग्रहै: ला० । १३. ०परिपालनम् मु० ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org