________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
पर्यणैषीन्न मां सोऽद्य चेत् त्रैलोक्यवरो वरः । भोगैरपि कृतं तर्हि प्रकृत्याऽनर्थहेतुभिः ॥ २३३ ॥ न स्पृष्टा पाणिना तेन यद्यप्युद्वाहकर्मणि । पाणिः स्प्रक्ष्यति तस्यैव व्रतदानकृतेऽपि माम् ॥२३४॥ इत्थं कृतप्रतिज्ञा सा प्रतिषिध्य सखीजनम् । कालं निनाय ध्यायन्ती नेमिमेवोग्रसेनजा ॥ २३५ ॥ इतश्च भगवान्नेमिर्ददौ दानं दिने दिने । रुरुदुश्च समुद्राद्या बाला इव सवेदनाः ॥ २३६ ॥ राजीमत्याः प्रतिज्ञां तां जनात् ज्ञानत्रयादपि । विदाञ्चकार भगवान्निर्ममोऽस्थात् तथापि हि ॥ २३७॥ ददौ च वार्षिकं दानं निर्निदानं जगद्गुरोः । दीक्षाभिषेकं चकुच शक्राद्या नाकिनायकाः ॥ २३८॥ नाम्नोत्तरकुरौ रत्नशिबिकायां शिवासुतः । आरुरोहोह्यमानायां सुरैर्नरवरैरपि ॥२३९॥ चामरे तत्र दधाते शक्रेशानौ पुरः प्रभोः । छत्रं सनत्कुमारस्तु माहेन्द्रः खड्गमुत्तमम् ॥२४०|| ब्रह्मेन्द्रो दर्पणं पूर्णकुम्भं लान्तकवासवः । स्वस्तिकं च महाशुक्रः सहस्त्रार : शरासनम् ॥ २४१॥ श्रीवत्सं प्राणताधीशो नन्द्यावर्तं तथाऽच्युतः । चमराद्यास्तु शेषेन्द्रा बभूवुः शस्त्रधारिणः || २४२ || पितृभिर्मातृभी राम-कृष्णाद्यैश्च समावृतः । प्रतस्थे भगवान् राजपथेनाऽथ महामनाः ॥२४३॥ स्वगृहाभ्यर्णमायातो राजीमत्येक्षितः प्रभुः । सद्यो नवीभूतशुच साऽमूर्छच्च मुहुर्मुहुः ॥२४४|| ततश्च प्रययौ नेमिरुज्जयन्ताद्रिभूषणम् । सहस्राम्रवणं नामोपवनं नन्दनोपमम् ॥२४५॥ आविष्कृतस्मितमिव प्रोन्मीलन्नवकेतकैः । गलितैर्जम्बुभिर्नीलबद्धोर्वीकमिवाऽभितः ॥ २४६ ॥ कदम्बपुष्पपर्यङ्कशयानोन्मत्तषट्पदम् । उद्बर्हबर्हिणाऽऽरब्धकेकाव्याकुलताण्डवम् ॥२४७॥ स्मरास्त्रागारसदृशस्फुटत्कुटजकाननम् । मालतीयूथिकामोदपर्यस्तपथिकम् ॥ २४८॥ प्रविश्योद्यानमुत्तीर्य शिबिकाया: शिवात्मजः । यन्मुमोचाऽऽभरणादि प्रादात्तद्धये हरिः ॥ २४९ ॥ चतुर्भिः कलापकम् । त्रिशत्यां जन्मतोऽब्दानामतीतायां शिवात्मजः । श्रावणस्य श्वेतषष्ठ्यां पूंर्वाहणे त्वष्ट्रविधौ ॥२५०॥
१२६
कृतषष्ठः कचोत्पाटं विदधे पञ्चमुष्टिकम् । केशान् शक्रः प्रतीयेष स्कन्धे दृष्यं न्यधाद् विभोः ॥ २५१॥ युग्मम् ॥ प्रक्षिप्य केशान् क्षीराब्धौ शक्रः पुनरुपेत्य च । न्यषेधत् तुमुलं सामायिकं च प्रभुराददे ॥२५२॥ मन:पर्ययसंज्ञं च जज्ञे ज्ञानं जगद्गुरोः । तदा सुखं समुत्पेदे नारकाणामपि क्षणम् ॥२५३॥ अनुनेमिकुमारं च सहस्रं प्राव्रजन्नृपाः । शक्रकृष्णादयो नेमिं नत्वा चाऽगुः स्वमाश्रमम् ॥२५४॥ [अर्थ गोष्ठे द्वितीयेऽह्नि वरदत्तद्विजौकसि । पारणं परमान्नेन चकार परमेश्वरः ॥२५५॥ वृष्टिं 'गन्धाम्बु-पुष्पाणां गम्भीरं दुन्दुभिध्वनिम्' । चेलोत्क्षेपं वसुधारां विदधुविबुधास्तदा ॥ २५६॥ ततो विहर्तुमन्यत्र घातिकर्मक्षयोद्यतः । नेमिनाथः प्रववृते निवृत्तः कर्मबन्धनात् ॥ २५७॥ |इतश्च नेमेरनुजो रथनेमिः स्मरातुरः । जज्ञे राजीमतीं पश्यन्निन्द्रियाणां वशंवदः ॥ २५८ ॥ सोऽपूर्वैर्वस्तुभी राजीमर्ती नित्यमुपाचरत् । तद्भावाविदुरा साऽपि मुग्धा न निषिषेध तम् ॥२५९॥ भ्रातृस्नेहादुपास्तेऽसौ नित्यं मामित्यमंस्त सा । ममोपचारं रागेण गृह्णात्येषेति सोऽपि हि ॥२६०|| ययौ च तुच्छधीर्नित्यं राजीमत्याः स वेश्मनि । भ्रातुर्जायापदेशेन तस्यां नर्म चकार च ॥ २६९ ॥ रह:स्थितामन्यदा तां रथनेमिरदोऽवदत् । मुग्धे ! परिणयामि त्वां यौवनं मा मुधा नय || २६२|| भोगानभिज्ञो मद्बन्धुस्त्यक्तवांस्त्वां मृगाक्षि ! यत् । स एव वञ्चितो भोगसुखानां किं गतं तव ? || २६३|| प्रार्थ्यमानोऽपि नाऽभूत् ते स वरो वरवर्णिनि ! । अहं प्रार्थयमानस्त्वामस्ति पश्याऽन्तरं महत् ॥२६४|| हेतुं पूर्वोपचाराणां तेन भावेन तस्य सा । तदानीमेव चाऽबोधि स्वभावसरलाशया ॥ २६५ ॥ बोधयामास सा तं च धर्मज्ञी धर्मशंसनात् । तस्मादध्यवसायात् तु न व्यरंसीत् स दुर्मतिः ॥ २६६ ॥
(अष्टमं पर्व
१. त्रैलोक्यैकवरो० मु०र० । २. जगद्गुरुः खं० २ विना । ३. देवनायकाः । ४. धनुः शरावकं वा । ५. राज्य० खं० २ । ६. पुनरुद्भूतशोकेन । ७. कृष्णाय । ८. इन्द्रः । ९. प्रथमप्रहरे । १०. चित्रानक्षत्रे गते चन्द्रे । ११. निषेध्य ला० । १२. शक्रः कृष्णा० मु० २० । १३. अथागात् स द्वि० खं० १; अथाभ्यगात् द्वि० सू०; गोष्ठं गवां स्थानम् । १४ तद्भावमजानती । १५. सुखेभ्यः ला० । १६. वृष्णिसू० खं० २ ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org