________________
१२५
नवमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । कर्मच्छेदः परिव्रज्यां विना न खलु साध्यते । तामेवाऽहं तदादास्ये मा निर्बन्धं वृथा कृथाः ॥१९९।। समुद्रविजयोऽथोचे वत्स ! गर्भे श्वरो ह्यसि । सुकुमार शरीरश्च कथं कष्टं सहिष्यसे ? ॥२००॥ ग्रीष्मकालातपा घोराः सोढव्याः सन्तु दूरतः । विनाऽऽतपत्रमन्यर्तुतापा अपि सुदुःसहाः ।।२०१।।
क्षुत्-पिपासादयः सोढुं शक्यन्ते नेतरैरपि । किं पुनर्भवता तात ! सुरभोगार्हवर्मणा ? ।।२०२।। पाअथाऽवदन्नेमिनाथः किमिदं दुःखमुच्यते । उत्तरोत्तरदुःखौघानारकान् जानतां नृणाम् ? ॥२०३।।
आसाद्यते तपोदुःखैर्मोक्षोऽनन्तसुखात्मकः । विषयप्रभवैः सौख्यैर्नरकोऽनन्तदुःखदः ॥२०४।। स्वयं विमृश्य तद् ब्रूत किं कर्तुं युज्यते नृणाम् ? । सर्वोऽपि विमृशन् वेत्ति विमृशेद् विरल: पुनः ॥२०५।। तच्छ्रुत्वा पितरौ कृष्णोऽन्येऽपि रामादयोऽविदन् । प्रव्रज्यानिश्चयं नेमे रुरुदुश्चोच्चकैःस्वरम् ॥२०६।। स्वजनस्नेहनिगडांस्त्रोटयन्नेमिकुञ्जरः । सारथिप्रेरितरथो ययावथ निकेतनम् ॥२०७।। पाज्ञात्वा च समयं तत्राऽभ्येयुलॊकान्तिकामराः । नेमिं नत्वा च ते प्रोचुर्नाथ ! तीर्थं प्रवर्तय ॥२०८।।
द्रविणैर्वासवादिष्ट-जुम्भकामरपूरितैः । प्रारेभे वार्षिकं दानं प्रदातुं भगवानपि ॥२०९।। पाव्यावृत्तं नेमिनं दृष्ट्वा श्रुत्वा च व्रतकाङ्क्षिणम् । राजीमत्यपतत् पृथ्व्यां वल्लीवाऽऽकृष्टपादपा ॥२१०।। तां सख्यः सिषिचुर्भीताः शीताम्भोभिः सुगन्धिभिः । अवीजयन् व्यजनैश्च कदलीदलनिर्मितैः ।।२११।। अवाप्तसंज्ञा चोत्थाय कपोललुलितालका । अश्रुधारातिम्यमानकञ्चुका विललाप सा ॥२१२।। नाऽऽसीन् मनोरथोऽप्येष यन्नेमिः स्याद् वरो मम । केनाऽस्यभ्यथितो दैव!? यन्नेमिमें वरः कृतः ॥२१३।। विपरीतं कुतोऽकार्षीरकाण्डे दण्डपातवत् ? । एकस्त्वमसि मायावी त्वं च विश्वासघातकः ॥२१४।। यद्वेदं प्रागपि ज्ञातं स्वभाग्यप्रत्ययान्मया । क्वाऽयं जगत्रयोत्कृष्टो वरो नेमिरहं क्व च ? ॥२१५॥ आत्मनोऽननुरूपाऽहं ज्ञाता नेमे ! त्वया यदि । तत्प्रपद्य विवाहं मे जनितः किं मनोरथः ? ॥२१६॥ जनयित्वा च किं भग्नः स्वामिन् ! मम मनोरथः ? । महतां प्रतिपन्नं हि यावज्जीवमपि स्थिरम् ॥२१७।। प्रतिपन्नाद् भवन्तोऽपि चलन्ति यदि तत्प्रभो! । मर्यादां लयिष्यन्ति निश्चितं जलराशयः ॥२१८।। यद्वा तवाऽपि नो दोषो दोषो मत्कर्मणामयम् । भवत्पाणिगृहीतीत्वं वचसैव यदासदम् ॥२१९।। चारु मातृगृहं दिव्यमण्डपो रत्नवेदिकाः । विवाहायाऽऽवयोरन्यदप्येतदभवन्मुधा ॥२२०॥ धवलैर्गीयते यत् तन्न सर्वं सत्यमीदशी । सत्योक्तिस्त्वं हि मे भर्ता गीतोऽस्यादौ न चाऽभवः ।।२२।। किं 'युग्मिनां विघटनमकार्षं पूर्वजन्मनि ? । पाणिस्पर्शसुखमपि यत् पत्यु ऽहमाप्नुवम् ॥२२२॥ विलपन्तीति सा जघ्ने हस्ताब्जाभ्यामुरःस्थलम् । हारं च त्रोटयमास स्फोटयामास कङ्कणे ॥२२३।। सख्यस्तामचिरेऽथैवं विषादं सखि ! मा कृथाः । कस्तेन तवं सम्बन्धः कार्यं वा तेन किं तव? ॥२२४।। निःस्नेहो नि:स्पृहो लोकव्यवहारपराङ्मुखः । गृहवासात् सदा भीरुर्वसतेर्वन्यजीववत् ॥२२५।। निर्दाक्षिण्यो निष्ठुरश्च स्वैरी वैरीव नन्वयम् । यातश्चेद्यातु तन्नेमिः साधु ज्ञातोऽधुनैव हि ।।२२६।। यासौ परिणीय त्वां भवेदेवं हि निर्ममः । कूपे प्रक्षिप्य ते वर्तिकर्तनं स्यात् तदा कृतम् ॥२२७।। अन्येऽपि यदुकुमारा भूयांसः सन्ति सद्गुणाः । प्रद्युम्न-शाम्बप्रमुखास्तेष्वस्तु रुचितो वरः ।।२२८॥ त्वं हि सङ्कल्पमात्रेण दत्ताऽभूः सुभ्र ! नेमये । कन्यैवाऽसि तदद्याऽपि मुग्धे ! तदपरिग्रहात् ॥२२९।। पाराजीमती सकोपोचे सख्यः ! किमिदमुच्यते । अस्मत्कुलकलङ्काय कुलटाकुलसन्निभम् ? ॥२३०॥ नेमिर्जगत्त्रयोत्कृष्टः कोऽन्यस्तत्सदृशो वरः? । सदृशो वाऽस्तु किं तेन? कन्यादानं सकृत् खलु ॥२३१।। मया वृतश्च मनसा वचसा च सह
धेनाऽप्यस्मि प्रपन्ना तेन गेहिनी ।।२३२॥ १. गर्भश्रीमान् । २. सुकुमाल० खं० । ३. शरीरेण । ४. पश्चाद्वलितम् । ५. अश्रुधारया आर्द्र कञ्चुकं यस्याः सा १ । ६. एष त्वमसि ला० पा० की० । ७. यद्येवम् ला० मु० । ८. समुद्रः । ९. भवत: नेमे: पत्नीत्वम् । १०. मांह्यरुं इति भाषायाम् । ११. गीतोऽप्यादौ ला० । १२. युगलानाम् । १३. मानवम् मु० र० । १४. कङ्कणम् खं० २ । १५. ०रे सैवं मु० । १६. सह मु० पु० । १७. गृहे खं० २ । १८. योऽसौ प्राक् ला० । १९. रज्जुकर्तनम् । २०. वृष्णिभूः खं० १ । २१. गुरूपरोधिना० मु० र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org