________________
१२४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
एषोऽपि यदि मे भर्ता त्रैलोक्यस्यैकभूषणम् । सम्पद्यते तदा कि मे न पूर्णं जन्मनः फलम् ? ॥१६५॥ यद्यप्ययमिहाऽऽयात: परिणेतुमनाः स्वयम् । तथाऽपि नाऽहं प्रत्येमि कैः पुण्यैः प्राप्यते ह्यसौ ? ॥१६६।। एवं तस्याश्चिन्तयन्त्याः पस्पन्दे दक्षिणेक्षणम् । बाहश्च दक्षिणो जज्ञे सन्तापश्च मनोऽङ्गयोः ॥१६७॥ राजीमती तत्सखीनामाचख्यौ गद्गदाक्षरम् । नेत्राभ्यामश्रु वर्षन्ती धारागृहवधूरिव ॥१६८॥ सख्योऽप्यूचुः सखि ! शान्तं पापं हतममङ्गलम् । सकला: कुलदेव्यस्ते भवन्तु शिवतातयः ॥१६९।। धीरा भव वरस्तेऽसावागात् पाणिग्रहोत्सुकः । अनिष्टचिन्ता ते केयं वर्तमाने महोत्सवे ? ॥१७०।। पाशुश्राव नेमिश्चाऽऽगच्छन् प्राणिनां करुणस्वरम् । किमेतदित्यपृच्छच्च संविदानोऽपि सारथिम् ॥१७१॥
अथाऽऽख्यत् सारथिर्नाथ ! किं न जानास्यमी हि ते । विवाहे भोज्यसात् कर्तुं नाना प्राणिन आहृताः ॥१७२।। मेषादयो भूमिचरास्तित्तिर्याद्या नभश्चराः । ग्राम्या आटविकाश्चाऽमी स्वामिन् ! यास्यन्ति पञ्चताम् ॥१७३।। आरक्ष रक्ष्यमाणाश्च सन्त्यमी वाटकान्तरे । आरटन्तः प्राणभयं सर्वेषां हि महद्भयम् ॥१७४|| ततो नेमिर्दयावीरो बभाषे निजसारथिम् । यत्रैते प्राणिनः सन्ति स्यन्दनं नय तत्र मे ॥१७५।। तथैव सारथिश्चके ददर्श भगवानपि । विविधान् प्राणिनः प्राणापहारचकितात्मनः ॥१७६।। ग्रीवायां रज्जुभिर्बद्धाः केऽपि केऽपि च पादयोः । केऽपि क्षिप्ताः पञ्जरान्तः केऽपि पाशेषु पातिताः ॥१७७॥ उन्मुखा दीननयना वेपमानशरीरकाः । ते प्रेक्षाञ्चक्रिरे नेमि प्रीणकं दर्शनादपि ॥१७८।। पाहि पाहीति ते नेमिं स्वस्वभाषाभिरब्रुवन् । तांश्च सारथिमाज्ञाप्य नेमिनाथोऽप्यमोचयत् ॥१७९।। स्वं स्वं स्थानं ततस्तेषु गतेषु प्राणिषु प्रभुः । रथं निवर्तयामास पुनर्निजगृहं प्रति ॥१८०॥
वा समद्रविजयः कष्णो रामोऽपरेऽपि हि । विहाय स्वस्वयानानि नेमिनः पुरतोऽभवन् ॥१८॥ शिवा-समुद्रविजयाँवूचाते साश्रुलोचनौ । कस्मादकस्मादप्यस्माद् विनिवृत्तस्त्वमुत्सवात् ॥१८२।। नेमिरप्यब्रवीदेते प्राणिनो बन्धनैर्यथा । बद्धास्तथा वयमपि तिष्ठामः कर्मबन्धनैः ।।१८३।। यथैषां बन्धनान्मोक्षः कृतस्तद्वत्तमात्मनः । कर्तुं दीक्षामुपादास्ये सौख्याद्वैतनिबन्धनम् ॥१८४॥ तन्नेमिवचनं श्रुत्वा तौ द्वावपि मुमूर्छतुः । रुरुदुर्यदव: सर्वेऽप्यनुद्वानविलोचनाः ॥१८५।। शिवा-समद्रविजयौ समाश्वास्य जनार्दनः । रुदितं च प्रतिषिध्य बभाषेऽरिष्टनेमिनम् ॥१८६।। मम रामस्य तातानां सदा मान्योऽसि मानद ! । रूपं निरुपमं चेदं यौवनं च नवं तव ॥१८७।। किं च साऽपि स्नुषा राजीमती राजीवलोचना । तवाऽनुरूपा तद् ब्रूहि किं ते वैराग्यकारणम् ? ॥१८८॥ ११ये चैते पशवो दृष्टींस्त्वया तेऽपि हि मोचिताः । पितॄणां बान्धवानां च तत्पूरय मनोरथम् ॥१८९॥ पितरौ शोकनिर्मग्नौ न ह्युपेक्षितुमर्हसि । तत्राऽपि हि कुरु भ्रातः ! सर्वसाधारणी कृपाम् ॥१९०||
प्रीणिताः प्राणिनो दीना यथैते भवता तथा । भ्रातृन् प्रीणय रामादीनपि स्वोद्वाहदर्शनात् ॥१९॥ पाअथोचे भगवान्नेमिः पित्रोः शोकस्य कारणम् । न किञ्चिदपि पश्यामि भवतां चाऽपि बान्धर्व! ॥१९२॥
वैराग्यकारणं मे तु चतुर्गतिरयं भवः । दुःखान्येवाऽनुभूयन्ते यत्रोत्पन्नैः शरीरिभिः ।।१९३।। भवे भवे च पितरौ भ्रातरोऽन्येऽपि चाऽभवन् । न कोऽपि कर्मदायोदः स्वयं स्वं कर्म भुज्यते ॥१९४|| छिद्यते दुःखमन्यस्य यद्यन्येन हरे ! तदा । पित्रोरथे प्रदीयेरन् प्राणा अपि विवेकिना ॥१९५॥ परं जन्तुर्जरा-मृत्युप्रायदःखानि सत्स्वपि । पुत्रादिषु स्वयं भुङ्क्ते त्राता कोऽपि न कस्यचित् ॥१९६।। दृष्टेरानन्दमात्रं चेत् पुत्रास्तातस्य सन्ति तत् । विनाऽपि मां महानेमिप्रमुखाः सुखहेतवः ॥१९७।।
जरत्पान्थ इवाऽहं तु संसाराध्वगतागतैः । खिन्नोऽस्मि प्रयतिष्ये तच्छेदे तद्धेतुकर्मणाम् ॥१९८॥ १. क्षेमङ्कराः । २. सम्यग्जानन्नपि । ३. प्रीणन्तं खं० १ । ४. तं स्वसारथि० खं० २ । ५. सारथिनाज्ञाप्य ला० सू० । ६. ०प्यमोचत खं० २ । ७. १८१ श्लोकः खं० २ न । ८. विजयौ बुवाते खं०१, सू० । ९. कर्मबन्धात् तथाऽऽत्मनः मु० । तं मोक्षम् । १०. दीक्षा ग्रहीष्येऽहं खं० २।११. अनुदानानि आाणि विलोचनानि येषां ते । ०प्यनुद्धतविलो० मु. । १२. यच्चैते ता०सं०छा०पा०ला० । यथैते खं० २. । १३. बद्धा० खं० २ । १४. बान्धवाः ! खं० १. सू० । १५. कर्मसु भागग्राही । १६. यदन्येन मु० र० । १७. हेतवे ला० । १८. वृद्धप्रवासी। -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org