________________
नवमः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
अथ क्रोष्टुकिमाहूय समुद्रविजयो नृपः । पप्रच्छ दिवस नेमि राजीमत्योर्विवाहने ॥ १३२ ॥ उवाच क्रोष्टुकिश्चैवं शुभारम्भास्तपात्र्त्यये । न खल्वन्येऽपि युज्यन्ते विवाहस्य तु का कथा ? ॥ १३३ ॥ समुद्रस्तं बभाषेऽथ कालक्षेपोऽत्र नाऽर्हति । नेमिः कथञ्चित् कृष्णेन विवाहाय प्रवर्तितः ॥१३४॥ मा भूद् विवाहप्रत्यूहो नेदीयस्तद्दिनं वद । गान्धर्व इव वीवाहो भूयाद् भवदनुज्ञया ॥ १३५ ॥ विमृश्य क्रोष्टुकिञ्श्चाऽऽख्यद् यद्येवं तद्यदूद्वह ! । श्रावणस्य श्वेतषष्ठ्यां कार्यमेतत् प्रयोजनम् ॥१३६॥ सत्कृत्य क्रोष्टुकिं राजा व्यस्राक्षीत् तं च वासरम् । भोजायाऽऽख्यापयामास ततो द्वावप्यसज्जताम् ॥१३७॥ कृष्णोऽपि द्वारकापुर्यां प्रत्यट्टं प्रतिगोपुरम् । प्रतिगेहं रत्नमञ्चतोरणादीनकारयत् ॥१३८॥ विवाहासन्नदिवसे दशार्हाः सीरि- शार्ङ्गिणौ । श्रीशिवा-रोहिणी-देवक्यादयश्चाऽपि मातरः ॥ १३९ ॥ रेवत्याद्या बलपत्यो भामाद्याश्च हरिप्रियाः । धात्र्यो महत्तराश्चाऽन्यास्तारमारब्धगीतयः ॥ १४० ॥ प्राङ्मुखं स्थापयामासुर्नेमिनाथं महासने । स्नापयामासतुः प्रीत्या स्वयं च बल- शार्ङ्गिणौ ॥ १४१ ॥ बेद्धप्रतिसरं नेमिं करे नाराचधारिणम् । कृत्वा जगाम गोविन्द उग्रसेननिकेतने ॥१४२॥ तत्र राजीमत बालामबालेन्दुसमाननाम् । कृष्णोऽधिवासयामास तेनैव विधिना स्वयम् ॥१४३॥ पुनर्ययौ निजगृहं व्यतिक्रम्य च शर्वरीम् । नेमिं संवाहयामास गन्तुं वैवाहिकौकसि ॥ १४४ ॥ [अथ श्वेतातपत्रेण विभान् श्वेतैश्च चामरैः । सदशश्वेतसंव्र्व्यानो मुक्ताभरणभूषितः ॥१४५॥ क्लृप्ताङ्गरागो गोशीर्षचन्दनेनाऽतिहारिणा । आरुरोहाऽरिष्टनेमिः स्यन्दनं श्वेतवाजिनम् ॥१४६॥ पुरो नेमकुमारस्य कुमाराः कोटिशोऽचलन् । तुरङ्गहेषानिर्घोषैर्बधिरीकृतदिङ्मुखाः ॥१४७|| पार्श्वतो भूभुजोऽभूवन्निभारूढाः सहस्रशः । पृष्ठे दशार्हा गोविन्दो मुशली चाऽवतस्थिरे ॥१४८॥ महार्घ्यशिबिकारूढाः सर्वाश्चाऽन्तः पुरस्त्रियः । चेलुर्मङ्गलगाँयन्योऽपरा अपि वरस्त्रियः ॥१४९॥ एवं महद्धर्ज्या श्रीनेमिः प्रतस्थे राजवर्त्मना । पठद्भिर्मङ्गलान्युच्चैः पुरो मङ्गलपाठकैः ॥ १५०॥ मार्गे गृहा-ट्ट-वेलभीस्थितानां पौरयोषिताम् । दृशो निपेतुः प्रेमार्द्रा नेमौ मङ्गललार्जवत् ॥ १५१ ॥ पौरेर्मिथो दर्श्यमानो वर्ण्यमानश्च सम्मदात् । उपोग्रसेनसदनमाससाद शिवासुतः ॥ १५२ ॥ नेम्यागमतुमुलेन स्तनितेनेव केकिनी । गाढोत्कण्ठाऽभवद् राजीमती राजीवलोचना ॥१५३॥ सख्यस्तामूचिरे भावविदो धन्याऽसि सुन्दरि ! । त्रैलोक्यसुन्दरो यस्या नेमिः पाणि ग्रहीष्यति ॥ १५४॥ नेम्यान्ता यद्यपीह तथाऽप्यत्युत्सुका वयम् । तमायान्तं गवाक्षस्थाः पश्यामः कमलेक्षणे ! || १५५ ॥ मनोगतार्थाभिधानान्मुदिता साऽपि सम्भ्रमात् । राजीमत्यभिगवाक्षं प्रचचाल सखीवृता ॥१५६॥ धम्मिल्लं मालतीगर्भं बिभ्रती सेन्दुमेघवत् । पराभवन्ती नेत्राभ्यां श्रवणोत्तंसपङ्कजे ॥१५७॥ समुक्ताकुण्डलाभ्यां च कर्णाभ्यां जितशुक्तिका । सयवकाधरदला पक्कै बिम्बेव ४ बिम्बिका ॥ १५८॥ "सैनिष्कं बिभ्रती कण्ठं" हेममेखलकम्बुवत् । हाराङ्कितौ च वक्षोजौ चक्रावात्तबिसाविव ॥१५९॥ राजैन्ती पाणिपद्मेनाऽब्जखण्डेनेव निम्नगा । मुष्टिसङ्ग्राह्यमध्य च मान्मथीव धनुर्लता ॥ १६० ॥ सौवर्णफलकेनेव नितम्बेन मनोरमा । रम्भोरुरेणिकाजङ्घा रत्नतुल्यनखावलिः ॥ १६९ ॥
सदशश्वेतवसना सगोशीर्षविलेपना । विमानगर्भे देवीव गवाक्षे निषसाद सा ॥ १६२ ॥ पञ्चभि: [ षड्भिः] कुलकम् ॥ तत्र स्थिता च साऽपश्यद् दूरादपि हि नेमिनम् । प्रत्यक्षमिव कन्दर्पं हृदि कन्दर्पदीपेनम् ॥ १६३॥ निध्यायन्ती दृशा नेमिं सा दध्याविति चेतसा । दुष्प्रापोऽयं वरोऽस्माकं मनसोऽपि न गोचरः || १६४।।
१. ग्रीष्मर्तुगमनानन्तरं, वर्षाऋतौ । २. बद्धं करसूत्रं - कङ्कणं यस्य सः तम् । ३. पूर्णेन्दुसमानमुखाम् । ४. सज्जीकृतवान् । ५. संव्यानं उत्तरीयवस्त्रम् । ६. क्षुप्ताङ्ग० खं० २, ला० सू० । कृष्णाङ्ग० मु० । ७. ०गायिन्यो मु० २० । ८. राजवर्त्मनि ला० मु० । ९. छदिराधारः, छतनो आधार । १०. लाजा: अक्षता: । ११. नेम्यागतो खं० २ । १२. यावक : अधरयो रक्तीकरणार्थं उपयुज्यमानः पदार्थः । १३. बिम्बेन ता० सं० । १४. रक्तफला 'टींडोळा' । १५. सहारम् । १६. कण्ठे मु० । १७. हेम्नो मेखलया युतः शङ्खस्तद्वत् । १८. चक्रो चात्त० खं० १, ला० सू० । बिसधारिणौ चक्रवाकपक्षिणा इव । १९. राजती मु०, खं० २ । २०. पादपद्मे० खं० १ सू० । २१. मध्यं कटिप्रदेशः । २२. ०दीपिनम् खं० २, पा० ला० र० मु० 1
Jain Education International
For Private Personal Use Only
१२३
www.jainelibrary.org