________________
१२२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
उत्थाय रुक्मिणी तत्र स्वयं रत्नासनं ददौ । ममार्ज चाऽङ्गं श्रीनेमेनिजेनोत्तरवाससा ॥९७।। नर्मप्रश्रयपूर्वं च सत्याऽभाषिष्ट नेमिनम् । सदा नः सहसे तेनाऽभीता त्वां वच्मि देवर ! ॥९८।। षोडशस्त्रीसहस्राधिभर्तुर्कीताऽपि शाणिः । अप्येकामपि किं कन्यां न ह्युद्वहसि सुन्दर ! ॥९९।। त्रैलोक्ये तेऽप्रतिरूपं रूपं लावण्यपावितम् । यौवनं च नवोद्भेदं सत्येवं किमियं स्थितिः ? ॥१०॥ पितरौ भ्रातरश्चैते भ्रातुर्जाया वयं च ते । याचामहे विवाहाय कुरुष्वैषां समीहितम् ॥१०१।। वण्ठमात्र इवैकाङ्गो विना पत्नीपरिग्रहम् । कालं कियन्तं नेताऽसि विमृश स्वयमप्यहो ! ॥१०२॥ किमज्ञो नीरसो वाऽसि क्लीबो वाऽसीति शंस नः । स्त्रीभोगेन विनाऽसि त्वं कुमारोऽरण्यपुष्पवत् ॥१०३।। यथा प्रावर्तयत् तीर्थं प्रथमं वृषभध्वजः । तथा स एव वीवाहमङ्गलान्यप्यदर्शयत् ॥१०४।। समये प्रतिपद्येथा ब्रह्माऽपि हि यथारुचि । गार्हस्थ्ये नोचितं ब्रह्म मन्त्रोद्गार इवाऽशुचौ ॥१०५।। पाअथाऽवदज्जाम्बवती त्वद्वंशे मुनिसुव्रतः । कृतोद्वाहो जातसूनुर्जज्ञे तीर्थङ्करः प्रभुः ॥१०६।। ततः परस्तादर्वाक् च श्रूयन्ते जिनशासने । कृतोद्वाहाश्च मुक्ताश्च वेत्सि त्वमपि तन्ननु ॥१०७।। मुमुक्षुर्नूतनोऽसि त्वं मुक्तानामपि वर्त्म यः । विहाय जन्मतोऽप्येवं यदभूः स्त्रीपराङ्मुखः ॥१०८॥ पकृतप्रणयकोपोचे भामा सखि ! वृथैव किम् । अमुं वदसि साम्ना त्वं? सामसाध्यो न खल्वयम् ॥१०९॥ उक्तः सानुनयं पित्रा भ्रात्रा च ज्यायसाऽप्ययम् । अपरैश्च विवाहार्थे मेने न खलु तानपि ॥११०॥ अस्माभिरेष सम्भूय तत्सर्वाभिर्निरुध्यताम् । न मस्यतेऽस्मद्वचश्चेन्मोक्तव्यस्तन्न सर्वथा ॥१११।। अथोचिरे लक्ष्मणाद्या आराध्यो देवरो ह्यसौ । सकोपमेवं नो वाच्यमुपायोऽस्य प्रसादनम् ॥११२।। इत्युक्ते पादयोर्नेमे रुक्मिण्याद्या हरिस्त्रियः । निपेतुः प्रार्थयमाना विवाहाय कृताग्रहाः ॥११३॥ तथाऽर्थ्यमानं ताभिश्च प्रेक्ष्य कृष्णोऽपि नेमिनम् । उपेत्य प्रार्थनाञ्चक्रे पाणिग्रहणकर्मणे ॥११४॥
अन्येऽपि यदवो नेमिमूचुर्तुर्वचः कुरु । शिवा-समुद्रविजयौ मोदयाऽन्यानपि स्वकान् ॥११५॥ पाएवं तैः साग्रहैर्नेमिरुपरुद्धो व्यचिन्तयत् । अहो ! अज्ञत्वमेतेषां धिग् दाक्षिण्यं ममाऽप्यदः ॥११६।। न केवलं स्वयममी पतन्ति भवसागरे । आबद्धस्नेहशिलया पातयन्ति परानपि ॥११७॥ वाङ्मात्रेणाऽनुमन्तव्यममीषामधुना वचः । आत्मनीनं विधातव्यमवश्यं समये मया ॥११८।। ऋषभस्तीर्थकृद्यच्च विवाहं विदधे पुरा । तत् तथा भोग्यकर्मत्वाद् विभिन्ना कर्मणां गतिः ॥११९।। एवं विमृश्य श्रीनेमिस्तद्वचः प्रत्यपद्यत । तच्छ्रुत्वा जहषुः सर्वे समुद्रविजयादयः ॥१२०।। तत्राऽतिवाह्य ग्रीष्मा गोविन्दः सपरिच्छदः । जगाम द्वारिका नेमियोग्यकन्येक्षणोत्सुकः ॥१२।। तमूचे सत्यभामाऽथ भगिनी मे कनीयसी । अस्ति राजीमती नाम्नाऽनुरूपाऽरिष्टनेमिन: ॥१२२॥
कृष्णोऽप्युवाच तामेवं सत्ये ! सत्यं हिताऽसि मे । नेमिनाथानुरूपस्त्रीचिन्ताब्धेरुद्धृतोऽस्मि यत् ॥१२३।। पाअथोत्थाय स्वयं कृष्ण उग्रसेनगृहं ययौ । यदुभिः पुरलोकैश्च वीक्ष्यमाण: ससम्भ्रमैः ॥१२४॥ उग्रसेनोऽप्यर्घपोद्यादिना सत्कृत्य शाङ्क्षिणम् । सिंहासने चोपवेश्य पप्रच्छाऽऽगमकारणम् ॥१२५।। कृष्णोऽप्युवाच ते कन्या राजन् ! राजीमतीति या । गुणैर्मदधिकस्याऽर्हा नेमेर्मदनुजस्य सा ॥१२६॥ भोजोऽपि निजगादैवं भाग्यैनः फलितं प्रभो ! । हरिर्यद्गृहमायाति कृतार्थांश्च करोति नः ॥१२७॥ एतद्गृहमियं लक्ष्मीरेते वयमियं सुता । सर्वं चाऽन्यत् तवाऽऽयत्तं स्वायत्ते प्रार्थनाऽपि का? ॥१२८|| इत्युक्तो मुदितः कृष्णः समुद्रविजयाय तत् । गत्वाऽऽचख्याववादीच्च समुद्रविजयोऽप्यदः ॥१२९।। भक्तिः पितषु ते वत्स ! वात्सल्यं भ्रातृषूच्चकैः । भोगाभिमुख्यं यन्नेमेरकार्षीनः प्रमोदकृत् ॥१ इयत्कालं मनस्येव लीनो नोऽभून्मनोरथः । अरिष्टनेमिर्यत्कन्याविवाहमनुमंस्यते ॥१३१।। १. अद्यैका० खं० १ । २. वंडमात्र० मु० । वांढो-वंठेलो इति भाषायाम् । ३. किं मन्ये खं० १, सू० । ४. ब्रह्मचर्य-संयमः । ५. सकोपमिव मु० । ६. पाणिग्रहणकर्मणि पा० मु०, ०कर्मणा खं० १-२ । ७. अन्यत्व० खं० १, सू० । ८. ०णानुगन्तव्यम० ला० । ९. आत्महितम् । १०. पौर० खं०१-२, ला० सू० । ११. यंदानादिना खं० २ । १२. उग्रसेनः । १३. इत्युक्त्या मु०र०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org