________________
नवमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । बाहौ पुष्पाङ्गदं काऽपि भूयो भूयो नवं नवम् । बबन्ध नेमिनः क्रीडाकालक्षेपविधित्सया ॥६५।। एवं ता विदधुर्नेमेरुपचारमृतूचितम् । तासु श्रीनेमिनाथोऽपि निर्विकारमुपाचरत् ॥६६॥ एवं विचित्रक्रीडाभिरहोरात्रं जनार्दनः । स्थित्वा पुनारिकायां जगाम सपरिच्छदः ॥६७॥ समुद्रविजयोऽप्युत्को नेमिपाणिग्रहोत्सवे । तस्थौ दशार्हा अन्येऽपि शाईपाणिश्च सर्वदा ॥६८।। पावसन्तर्तुरतीयाय सनेमेः क्रीडतो हरेः । 'घर्मर्तुश्चाययौ प्रौढीकुर्वन्नर्कमिव स्मरम् ॥६९।। बालातपोऽप्यसह्योऽभूत् प्रताप इव शाङ्गिणः । निशायामपि नाऽशाम्यद् धर्मः कर्मेव देहिनाम् ॥७०॥ वाससी श्वेतमसृणे रम्भान्तस्त्वक्सनाभिनी । मृगनाभीधूपिते च युवानस्तत्र पर्यधुः ॥७१।। तालवृन्तं कराद् दन्तिकर्णतालचलाचलम् । नेषदप्यमुचन्नार्यो मन्मथस्येव शासनम् ॥७२।। विचित्रकौसुमरसद्विगुणीकृतसौरभैः । भूयो भूयोऽभ्यषिञ्चन् स्वं युवानश्चन्दनाम्बुभिः ॥७३॥ नारीभिर्नलिनीनालान्याहितान्यभितो हृदि । मुक्ताहारेभ्योऽप्यधिकं सौभाग्यमुपलेभिरे ॥७४॥ निपीडयन्तो बाहुभ्यां गाढगाढं मुहुर्मुहुः । युवानो नोरसोऽमुञ्चन् जलाँी वल्लभामिव ॥७॥ एवं ग्रीष्मे घर्मभीष्मे कृष्णः सान्तपुरोऽपि हि । ययौ रैवतकोद्यानसरसी नेमिना सह ॥७६।। तदन्तर्मज्जनक्रीडां कर्तुं विष्णुः सनेम्यथ । सान्तःपुरः प्रविवेश हंसवन्मानसाम्भसि ॥७७।। तत्राऽऽकण्ठं निमग्नानां वदनैर्विष्णुयोषिताम् । नवोद्भिन्नाब्जिनीखण्डभ्रान्तिः सद्योऽप्य॑तन्यत ॥७८।। आचिक्षेप हरिः काञ्चित् स्वयमञ्जलिवारिणा । छेका प्रत्याक्षिपत् साऽपि गण्डूषपयसैव तम् ॥७९।। काभिश्च विलगन्तीभिर्भीरुभिर्जलभीरुभिः । दधौ सशालभञ्जीकस्तम्भशोभां जनार्दनः ॥८०॥ असकृद्वीचय इवोल्ललन्त्यो हरिणीदृशः । रभसादास्फलन्ति स्म शार्ङ्गपाणेरुरस्तटे ।।८१।। जलाघातेन ताम्रत्वं दधुर्मगदृशां दृशः । स्वभूषणाञ्जनापोहजातयेव रुषाऽधिकम् ॥८२।। विपक्षनामग्रहणेनाऽऽहता काऽपि शाहिणा । ताडयामास पोन सार्वलेनेव दन्तिनम् ॥८३।। हरिमन्यां वीक्षमाणं काचिदभ्येत्य चक्षुषोः । सरोरुहरजोमित्रैर्जघानाऽम्भोभिरुद्धतैः ॥८४॥ शाङ्गिणं परितो भ्रमुर्भूयो भूयो मृगीदृशः । स्मारयन्त्यो गोपभावलीलाहल्लीसकश्रियम् ॥८५।। निर्विकारो नेमिरपि तत्र भ्रात्रुपरोधतः । भ्रातुर्जायाभिरक्रीडद्वेष्ट्यमानः सनर्मभिः ॥८६॥ क्व यासि देवरेदानीमित्युक्त्वा हरियोषितः । नेमि युगपदाजघ्नुश्चपेटाताडितै लैः ॥८७।। पाणिभिः कृष्णपत्नीनां जलाच्छोटनपातिभिः । उत्पल्लवस्तरुरिवारिष्टनेमिरराजत ॥८८|| स्त्रीस्पर्शज्ञापनायाऽम्भ:क्रीडाव्याजेन नेमिनः । ताः कण्ठे शिश्लिषुर्वक्षस्याजघ्नुर्दोष्णि चाऽप्यधुः ॥८९।। सहस्रपत्रं श्रीनेमेरातपत्रमिवोपरि । शुद्धान्तच्छत्रधारीव क्रीडया काऽप्यधारयत् ॥९०।। काचिच्च नलिनीनालं नेमिन: कण्ठकन्दले । चिक्षेप नर्मणा स्तम्बेरमस्याऽलानदामवत् ॥९१॥ यत् किञ्चनाऽप्यपदेश्य शतपत्रेण नेमिनम् । काऽप्याजघान हृदये स्मरास्त्रैरप्यनाहते ॥९२।। अविकारः पुनर्नेमिकुमारोऽपि प्रजावतीः । क्रीडयामास ताः सर्वाः कृतप्रतिकृतैश्चिरम् ॥९३।। क्रीडन्तं भ्रातरं पश्यंस्तथाऽहष्यज्जनार्दनः । तत्राऽम्भसि चिरं तस्थौ नंदीचर इव द्विपः ॥९४॥ पासमापिताम्भःक्रीडोऽथ सरसो निर्ययौ हरिः । भामा-रुक्मिण्यादयोऽपि गत्वा तीरेऽवतस्थिरे ॥९५।।
सरसो निरगान्नेमिकुमारोऽपि मरालवत् । शिश्रिये तीरदेशं च रुक्मिण्यादिभिराश्रितम् ॥९६।। १. बाह्वोः मु० । २. उत्सुकः । ३. ग्रीष्मर्तुः । ४. नाशम्यद् खं०१ । ५. स्वेद, निदाघः भाषायां गरमी-घाम इति ख्यातम् । ६. सनाथिनी खं० २, सदृशी । ७. कस्तूरीधूपिते । ८. क्लिन्नवस्त्रम्, जलार्दा क्लिन्नवाससि (अभिचि० कां०२ श्लो० ६७९) । ९. प्यजायत मु० । ०प्यजन्यत खं० २ । १०. कान्ताभिः । ११. सपुत्तलीकस्तम्भशोभाम् । १२. सपत्नीनामग्रहणेन । १३. सर्वले खं० १-२, मु० । तोमरः, "सर्वला तोमरे"। अभि०चि० कां०३ श्लो. ७८७, भाषायां रवैया आकारनुं शस्त्र । १४. चिरमन्याम् ता० सं० विना । १५. वीक्ष्यमाणां मु० । १६. रास। मण्डलेन तु यन्नृत्तं स्त्रीणां हल्लीसकं हि तत् (अभिचिं. का. २. श्लो. २८१) । १७. नेमिनम् ला० की० पु० । १८. अन्तःपुरस्य छत्रधारीव। १९. प्रजावत: खं० १ । भ्रातृजायाः । २०. यथाम्भसि खं० २ । २१. नन्दीवर० मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org