Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 80
________________ तृतीयः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । तद् गृहाण रथं नाथ ! प्रसीदाऽनुगृहाण नः । देव्या सममिहाऽऽरोह क्षेमोऽध्वा स्वस्ति चाऽस्तु वः ॥४६९।। प्रधानपुरुषैरेवं प्रार्थ्यमानो मुहुर्मुहुः । दवदन्त्या सह नलो रथमारुह्य निर्ययौ ।।४७०।। एकवस्त्रां दवदन्ती दृष्ट्वा स्नानोद्यतामिव । नागर्यो रुरुदुर्बाष्पजलक्लेदितकञ्चकाः ॥४७१।। पागच्छंश्च पुरमध्येन हस्तपञ्चशतोन्नतम् । ददशैकं नलः स्तम्भं दिग्गजालानसन्निभम् ।।४७२॥ राज्यभ्रंशोद्भवं दुःखमविदन्निव कौतुकात् । तं नलो लीलयोद्दधे कदलीमिव वारणः ।।४७३।। पुनरारोपयमास स्तम्भं तत्रैव तं नलः । उत्खोत-प्रतिरोपाख्यं शंसन्निव नृपव्रतम् ॥४७४।। दृष्ट्वा च नागरा: प्रोचुर्नलस्याहो ! महद्बलम् । व्यसनं बलिनोऽप्यस्य प्रमाणं नियतिः खलु ॥४७५।। क्रीडतोऽस्य नगोद्याने कूबरेण समं पुरा । महर्षिराजगामैको ज्ञानरत्नमहानिधिः ॥४७६। स आख्यद् भाव्यसौ योम्यभरतार्धपतिर्नल: । पूर्वस्मिन् जन्मनि मुनेः क्षीरदानप्रभावतः ॥४७७।। पुरीमध्ये महास्तम्भं हस्तपञ्चशतोन्नतम् । चौलयिष्यति योऽवश्यं भरतार्धपतिः स हि ॥४७८।। द्वयं संवाद्यभूदेतद् भरतार्धपतिर्नलः । स्तम्भश्च चालितोऽनेन दृष्टः स्वैरेव लोचनैः ॥४७९।। नले जीवति न ह्यन्य: कोशलोयां महीपतिः । भावीति यत् त्ववादीत् स विसंवादि बभूव तत् ॥४८०॥ वाग् दृष्टप्रत्यया तस्य भवित्री नाऽन्यथाऽथवा । किं ज्ञायते यदि पुनर्न नन्दिष्यति कूबरः ? ॥४८१।। कदाचित् स्याद् यदि पुनर्नल एवात्र भूपतिः । नलस्य पुण्यश्लोकस्य सर्वथा पुण्यमेधताम् ॥४८२॥ एवं लोकवचः शृण्वन् पुरी तत्याज कोशलाम् । रुदाँ दवदन्त्याऽत्रैः स्नाप्यमानरथो नलः ॥४८३।। अभ्यधान्नैषधिः पत्नी क्व यामो देवि ! सम्प्रति ? । न हि स्थानमनुद्दिश्य प्रवृत्तिश्चेतनावताम् ॥४८४|| वैदर्युवाच दर्भाग्रतीक्ष्णधीर्देव ! गम्यताम् । कुण्डिने तत्र मे तातोऽतिथीभूयाऽनुगृह्येताम् ॥४८५।। तथैवाऽथ नलादिष्टः सव्येष्ठा प्रेरयन् हयान् । आशिश्रायाऽऽश्रयो भक्तेर्दिशं कुण्डिनमण्डिताम् ।।४८६।। व्याघ्रघूत्कारघोराद्रिगुहामुरगदारुणाम् । दुःश्वापदशताकीर्णा सङ्कीर्णा भिल्ल-लुब्धकैः ॥४८७॥ सिंहमारितवन्येभदन्तदन्तुरभूतलाम् । क्रीडास्थानं यमस्येव नलः प्रापदथाऽटवीम् ॥४८८।। युग्मम् ।। आकर्णाकृष्टकोदण्डान् प्रचण्डानभिसर्पतः । यमदूतोपमान् भिल्लान् गच्छन्नग्रे ददर्श सः ॥४८९।। भिल्लास्ते ननृतुः केऽपि पानगोष्ठीपरा इव । केऽपि चाऽ वादयन् शृङ्गमेकदन्तद्विपोपमाः ॥४९०।। केचित् कलकलं चक्रू रङ्गादाविव नर्तकाः । केचिच्च ववृषुर्बाणान् धारासारानिवाऽम्बुदाः ॥४९१॥ करास्फोटं व्यधुः केऽपि मल्ला इवनियोधिनः । सर्वे सम्भूय रुरुधुर्नलं श्वान इव द्विपम् ॥४९२।। त्रिभिविशेषकम् ॥ द्रुतं रथादथोत्तीर्य कोशादाकृष्य नैषधिः । अनर्तयन्मुष्टिरङ्गेऽसियष्टि नर्तकीमिव ॥४९३।। भीमजाऽपि रथं मक्त्वा बाहौ धत्वाऽवदन्नलम । क एतेषु तवाऽऽक्षेपः सिंहस्य शशकेष्विव ॥४९४। व्यापार्यमाणश्चैतेषु पशुमात्रेषु नैषधेः । हेष्यत्यसौ भरतार्धजयश्रीवासभूरसिः ॥४९५।। इत्युक्त्वा भीमतनया हुङ्कारानमुचन् मुहुः । मान्त्रिकी मण्डलस्येव स्वसमीहितसिद्धये ॥४९६।। मुच्यमानास्तु ते भैम्या हुङ्कारास्तत्प्रभावतः । विशन्तो भिल्लकर्णेषु तीक्ष्णायःसूचितां ययुः ॥४९७।। भिल्लास्तु ते ययुः सर्वे कान्दिशीका दिशो दिशम् । तौ तु तानभिधावन्तौ रथाद् दूरे बभूवतुः ॥४९८।। पाइतश्च भिल्लैरपरैरपजहे तयो रथः । कुर्यात् पुरुषकारः किं दैवें वक्रत्वमीयुषि ? ॥४९९।। तस्यामटव्यां भीमायां भैमीमादाय पाणिना । पाणिग्रहोत्सवं तस्याः स्मौरयन्नभ्रमन्नलः ॥५००।। वैदर्भी दर्भविद्धांहिक्षरद्रुधिरबिन्दुभिः । चकाराऽरण्यवसुधामिन्द्रगोपाङ्कितामिव ॥५०१॥ पट्टबन्धः पुरा मूर्धन्यभूद् भैम्यास्तदा पुनः । नलेन पादयोश्चक्रे दारं दारं स्वमंशुकम् ।।५०२।। १. उत्पाट्य प्रति० खं० २ । २. 'दक्षिण' लाटि० । ३. चलयि० खं० १, सू० । ४. ०द्यभूदेतै० खं० २ । ५. चलितो येन ता०सं०। ६. कोशलाया० पा० मु० । ७. स्यादिदं पुन० खं० १ । ८. रुदन्त्या मु० । ९. ०नुगृह्यत खं० २ । १०. ०दिष्टसव्येष्टा मु० । सव्येष्ठा सारथिः । ११. व्याघ्रपूत्कार० ला० २ । व्याघ्रबूत्कार० ता०सं०म० । १२. नियोगिनः खं०१। च योधिन: खं० २। द्वन्द्वयुद्धं कुर्वाणाः । १३. मुष्टिरेव रङ्ग-नाट्यशाला तत्र । १४. नैषधिः खं० १ । नैषधे ! ला० । १५. देववक्रत्व० ख० १-२ । १६. स्मर० खं० १, सू० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282