Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 85
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (अष्टमं पर्व भैयाख्यात सार्थवाहाय, देवोऽर्हन परमेश्वरः । त्रैलोक्यनाथो भविनां प्रार्थनाकल्पपादपः ॥६२८॥ आराधयन्त्यहममुमिह तिष्ठामि निर्भया । एतत्प्रभावात् प्रभवन्त्यत्र व्याघ्रादयो न मे ॥६२९॥ अर्हत्स्वरूपमाख्याय वैदर्भी धर्ममार्हतम् । वसन्तसार्थवाहायाऽहिंसादिकमचीकथत् ।६३०।। तं च धर्म तयाऽऽख्यातं वसन्तः प्रत्यपद्यत । धर्मकामगवी दिष्ट्या दृष्टाऽसीति मुदाऽवदत् ॥६३१।। हेयोपादेयविर्द्रय तापसा अपि तद्गिरा । तद्धर्मं प्रत्यपद्यन्ताऽनुस्यूतमिव चेतसि ॥६३२॥ निजं तापसधर्मं तेऽनिन्दस्तद्धर्मवासिताः । अवाप्तक्षीरपाणाय कस्मै रोचेत काञ्जिकम् ? ॥६३३॥ वसन्तसार्थवाहोऽपि तत्रैवाऽकारयत् पुरम् । पुरन्दरपुराकारं महेभ्यैर्यन्न मुच्यते ॥६३४।। तापसानां पञ्चशती प्रबुद्धाऽत्रेति कारणात् । तत्पुरं तापसपुरमिति सर्वत्र पप्रथे ॥६३५॥ स्वार्थज्ञः सार्थवाहों हि स स्वमर्थं कृतार्थयन् । चैत्यं श्रीशान्तिनाथस्य पुरे तस्मिन्नकारयत् ॥६३६।। स सार्थवाहस्ते सर्वे तापसाः स जनोऽखिलः । समयं गमयामासुरर्हद्धर्मपरायणाः ॥६३७।। पअन्यदा तु निशीथेऽद्रिशिखरे नलवल्लभा । ददर्शोद्योतमादित्यः स्फुलिङ्ग इव यत्पुरः ॥६३८॥ उत्पततो निपततस्ततश्च पतगानिव । भैमी व्यलोकयद् देवाऽसुरान् विद्याधरानपि ॥६३९॥ तेषां जयजयारावतुमुलेन प्रबोधिताः । अपश्यन् विस्मयोत्पश्या वणिजस्तापसाश्च ते ॥६४०॥ रोदस्योरन्तर्रा' मानदण्डरूपं महागिरिम् । तमारुरोह वैदर्भी सवणिग्जन-तापसा ॥६४१।। तत्रोत्पन्नकेवलस्य सिंहकेसरिणो मुनेः । केवलमहिमानं ते प्रारब्धं ददृशुः सुरैः ॥६४२॥ द्वादशावर्तपूर्वं ते वन्दित्वा तं महामुनिम् । तत्पादमूले न्यषदन् द्रुममूल इवाऽध्वगाः ॥६४३॥ आगाद् यशोभद्रसूरिस्तदा तस्य मुनेगुरुः । तं च केवलिनं ज्ञात्वा वन्दित्वा न्यषदत् पुरः ॥६४४|| पासिंहकेसर्यपि स्वामी करुणारससागरः । मर्माविधमधर्मस्य विदधे धर्मदेशनाम् ॥६४५।। मानष्यं दर्लभं हन्त प्राणिनां भ्रमतां भवे । तल्लब्ध्वा सफलं कार्यं स्वयमप्त इव द्रमः ॥६४६।। मानुष्यकस्य च फलमाददीध्वं सुमेधसः । मुक्तिप्रदं जीवदयाप्रधानं धर्ममार्हतम् ॥६४७।। श्रोतृ श्रोत्रसुधासारं धर्ममाख्याय पावनम् । स महर्षिः कुलपति प्रोचे तत्संशयच्छिदे ॥६४८।। दवदन्त्या तवाऽऽख्यातो धर्मो यः स तथैव हि । अर्हद्धर्माध्वपथिकी भाषते नेयमन्यथा ॥६४९॥ महासतीयमाजन्माऽऽर्हती वो दृष्टप्रत्यया । ती हि वर्षन् जीमूतो रेखाकुण्डे धृतोऽनया ॥६५०॥ सतीत्वेनाऽऽर्हतीत्वेन चाऽमुष्या देवता अपि । सदा सान्निध्यकारिण्योऽरण्येऽप्यस्यास्ततः शिवम् ॥६५१।। सार्थोऽस्य सार्थवाहस्य चौरेभ्यो रक्षितः पुरा । अस्या हङ्कारमात्रेण प्रभावोऽतः परं हि कः? ॥६५२॥ पातदा च कश्चिदप्यागात् तत्र देवो महद्धिकः । स वन्दित्वा केवलिनमूचे भैमीमभीमवाक् ॥६५३॥ भद्रे ! तपोवनेऽमुष्मिन् शिष्यः कुलपतेरहम् । अभूवं कर्परो नाम तपस्तेजोदुरासदः ॥६५४॥ पञ्चाग्निसाधकमपि ते तपोवनतापसाः । न मामपूजयन्नाऽपि वचसाऽप्यभ्यनन्दयन् ॥६५५।। ततोऽहमभिमानेन तद्विहाय तपोवनम् । द्रुतमन्यत्र गतवानाविष्टः कोधरक्षसा ॥६५६॥ नीरन्ध्रतिमिरायां च यामिन्यां त्वरितं व्रजन् । पतितोऽद्रिकन्दरायामहं वार्यामिव द्विपः ॥६५७॥ सर्वे दन्ता गिरिदन्तास्कँलितास्यस्य मे तदा । जीर्णशुक्तिपुटानीव व्यशीर्यन्त सहस्रधा ॥६५८॥ सप्तरात्रं तथैवाऽस्थां दन्तपातव्यथातुरः । दुःस्वप्नस्येव मे वार्तामपि चकुर्न तापसाः ॥६५९।। ततः स्थानान्मयि गते गृहादिव महोरगे । प्रत्युताऽभूत् सुखं तेषां तापसानां महत्तरम् ॥६६०॥ १.भैम्यप्याख्यत् सार्थवाह ! मु०र० । २. हेयोपादेयविद्रूप० मु० । हेयोपादेयविद्भूता खं० २ । ३. निजतापस० खं० २ । ४. पानाय ला० । ५. काञ्जिका खं० २, मु० । काञ्चिकम् खं० १ । ६. तत्रैवाऽवासयत् मु० । ७. पुरं तत्र स्वयमपि खं० १२, सू० 'र'स्वीकृतपाठश्च । पुरं तच्च स्वयमपि ला० । ८. ०वाहोऽपि र० । ९. च ला० । १०. अग्निकणः । ११. पक्षिणः । १२. विस्मयेनोवं पश्यन्तः । १३. ०रन्तरात्मानं खं० १-२, ला०सू० विना; र० । १४. केवलि० मु० । केवलिबहुमानं ला० । १५. तथा ला० । १६. सार्थस्य खं० १-२। १७. ततोऽहमति० ता०सं० । १८. वारी-गजबन्धनी । १९. ०दन्तास्फालि० खं० १-२, ला० विना च; र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282