________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
भैयाख्यात सार्थवाहाय, देवोऽर्हन परमेश्वरः । त्रैलोक्यनाथो भविनां प्रार्थनाकल्पपादपः ॥६२८॥ आराधयन्त्यहममुमिह तिष्ठामि निर्भया । एतत्प्रभावात् प्रभवन्त्यत्र व्याघ्रादयो न मे ॥६२९॥ अर्हत्स्वरूपमाख्याय वैदर्भी धर्ममार्हतम् । वसन्तसार्थवाहायाऽहिंसादिकमचीकथत् ।६३०।। तं च धर्म तयाऽऽख्यातं वसन्तः प्रत्यपद्यत । धर्मकामगवी दिष्ट्या दृष्टाऽसीति मुदाऽवदत् ॥६३१।। हेयोपादेयविर्द्रय तापसा अपि तद्गिरा । तद्धर्मं प्रत्यपद्यन्ताऽनुस्यूतमिव चेतसि ॥६३२॥ निजं तापसधर्मं तेऽनिन्दस्तद्धर्मवासिताः । अवाप्तक्षीरपाणाय कस्मै रोचेत काञ्जिकम् ? ॥६३३॥ वसन्तसार्थवाहोऽपि तत्रैवाऽकारयत् पुरम् । पुरन्दरपुराकारं महेभ्यैर्यन्न मुच्यते ॥६३४।। तापसानां पञ्चशती प्रबुद्धाऽत्रेति कारणात् । तत्पुरं तापसपुरमिति सर्वत्र पप्रथे ॥६३५॥ स्वार्थज्ञः सार्थवाहों हि स स्वमर्थं कृतार्थयन् । चैत्यं श्रीशान्तिनाथस्य पुरे तस्मिन्नकारयत् ॥६३६।।
स सार्थवाहस्ते सर्वे तापसाः स जनोऽखिलः । समयं गमयामासुरर्हद्धर्मपरायणाः ॥६३७।। पअन्यदा तु निशीथेऽद्रिशिखरे नलवल्लभा । ददर्शोद्योतमादित्यः स्फुलिङ्ग इव यत्पुरः ॥६३८॥
उत्पततो निपततस्ततश्च पतगानिव । भैमी व्यलोकयद् देवाऽसुरान् विद्याधरानपि ॥६३९॥ तेषां जयजयारावतुमुलेन प्रबोधिताः । अपश्यन् विस्मयोत्पश्या वणिजस्तापसाश्च ते ॥६४०॥ रोदस्योरन्तर्रा' मानदण्डरूपं महागिरिम् । तमारुरोह वैदर्भी सवणिग्जन-तापसा ॥६४१।। तत्रोत्पन्नकेवलस्य सिंहकेसरिणो मुनेः । केवलमहिमानं ते प्रारब्धं ददृशुः सुरैः ॥६४२॥ द्वादशावर्तपूर्वं ते वन्दित्वा तं महामुनिम् । तत्पादमूले न्यषदन् द्रुममूल इवाऽध्वगाः ॥६४३॥
आगाद् यशोभद्रसूरिस्तदा तस्य मुनेगुरुः । तं च केवलिनं ज्ञात्वा वन्दित्वा न्यषदत् पुरः ॥६४४|| पासिंहकेसर्यपि स्वामी करुणारससागरः । मर्माविधमधर्मस्य विदधे धर्मदेशनाम् ॥६४५।। मानष्यं दर्लभं हन्त प्राणिनां भ्रमतां भवे । तल्लब्ध्वा सफलं कार्यं स्वयमप्त इव द्रमः ॥६४६।। मानुष्यकस्य च फलमाददीध्वं सुमेधसः । मुक्तिप्रदं जीवदयाप्रधानं धर्ममार्हतम् ॥६४७।। श्रोतृ श्रोत्रसुधासारं धर्ममाख्याय पावनम् । स महर्षिः कुलपति प्रोचे तत्संशयच्छिदे ॥६४८।। दवदन्त्या तवाऽऽख्यातो धर्मो यः स तथैव हि । अर्हद्धर्माध्वपथिकी भाषते नेयमन्यथा ॥६४९॥ महासतीयमाजन्माऽऽर्हती वो दृष्टप्रत्यया । ती हि वर्षन् जीमूतो रेखाकुण्डे धृतोऽनया ॥६५०॥ सतीत्वेनाऽऽर्हतीत्वेन चाऽमुष्या देवता अपि । सदा सान्निध्यकारिण्योऽरण्येऽप्यस्यास्ततः शिवम् ॥६५१।। सार्थोऽस्य सार्थवाहस्य चौरेभ्यो रक्षितः पुरा । अस्या हङ्कारमात्रेण प्रभावोऽतः परं हि कः? ॥६५२॥ पातदा च कश्चिदप्यागात् तत्र देवो महद्धिकः । स वन्दित्वा केवलिनमूचे भैमीमभीमवाक् ॥६५३॥ भद्रे ! तपोवनेऽमुष्मिन् शिष्यः कुलपतेरहम् । अभूवं कर्परो नाम तपस्तेजोदुरासदः ॥६५४॥ पञ्चाग्निसाधकमपि ते तपोवनतापसाः । न मामपूजयन्नाऽपि वचसाऽप्यभ्यनन्दयन् ॥६५५।। ततोऽहमभिमानेन तद्विहाय तपोवनम् । द्रुतमन्यत्र गतवानाविष्टः कोधरक्षसा ॥६५६॥ नीरन्ध्रतिमिरायां च यामिन्यां त्वरितं व्रजन् । पतितोऽद्रिकन्दरायामहं वार्यामिव द्विपः ॥६५७॥ सर्वे दन्ता गिरिदन्तास्कँलितास्यस्य मे तदा । जीर्णशुक्तिपुटानीव व्यशीर्यन्त सहस्रधा ॥६५८॥ सप्तरात्रं तथैवाऽस्थां दन्तपातव्यथातुरः । दुःस्वप्नस्येव मे वार्तामपि चकुर्न तापसाः ॥६५९।। ततः स्थानान्मयि गते गृहादिव महोरगे । प्रत्युताऽभूत् सुखं तेषां तापसानां महत्तरम् ॥६६०॥ १.भैम्यप्याख्यत् सार्थवाह ! मु०र० । २. हेयोपादेयविद्रूप० मु० । हेयोपादेयविद्भूता खं० २ । ३. निजतापस० खं० २ । ४.
पानाय ला० । ५. काञ्जिका खं० २, मु० । काञ्चिकम् खं० १ । ६. तत्रैवाऽवासयत् मु० । ७. पुरं तत्र स्वयमपि खं० १२, सू० 'र'स्वीकृतपाठश्च । पुरं तच्च स्वयमपि ला० । ८. ०वाहोऽपि र० । ९. च ला० । १०. अग्निकणः । ११. पक्षिणः । १२. विस्मयेनोवं पश्यन्तः । १३. ०रन्तरात्मानं खं० १-२, ला०सू० विना; र० । १४. केवलि० मु० । केवलिबहुमानं ला० । १५. तथा ला० । १६. सार्थस्य खं० १-२। १७. ततोऽहमति० ता०सं० । १८. वारी-गजबन्धनी । १९. ०दन्तास्फालि० खं० १-२, ला० विना च; र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org