________________
तृतीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । तापसानां ततस्तेषामुपर्याविरभून्मम । प्रदीपनकवहन्याभः क्रोधो दुःखानुबन्धकः ॥६६१॥ जाज्वल्यमानः क्रोधेन दुर्मनाः प्राप्य पञ्चताम् । इहैव तापसारण्ये महाविषधरोऽभवम् ॥६६२।। दशनायाऽन्यदाऽहं तेऽधाविषं स्फारयन् फणान् । नमस्कारश्च पठितस्त्वया मद्गतिरोधकः ॥६६३|| नमस्काराक्षरैः सद्यः पतितैः कर्णगोचरम् । धृतः सन्दंशकेनेव नाऽभिगन्तुमशक्नुवम् ॥६६४॥ पुनश्च दर्यामेकस्यां प्राविशं हतशक्तिकः । भेकादीनाहरन् जीवानजीवं तत्र च स्थितः ॥६६५॥ अन्यदा वर्षति घने तापसानां पुरस्त्वया । कथ्यमानमिमं धर्ममश्रौषं परमार्हति ! ॥६६६।। यो जीवहिंसां कुरुते स संसारे निरन्तरम् । भ्रमन् दुःखान्यवाप्नोति मरुभूमाविवाऽध्वंगः ॥६६७|| तच्छ्रुत्वाऽचिन्तयं चाऽहं जीवहिंसापरः सदा । पापात्मा पन्नगोऽस्म्येष का गतिर्मे भविष्यति ? ॥६६८।। मयैवमूहापोहाभ्यां ज्ञातं यत् तापसा इमे । क्व नामैते मया दृष्टा इति भूयोऽप्यचिन्तयम् ॥६६९।। तदा च जातिस्मरणमुत्पेदे मम निर्मलम् । अस्मार्ष ह्यः कृतं कार्यमिव पूर्वभवं ततः ॥६७०॥ उत्कल्लोलशिरानीरमिव वैराग्यमक्षयम् । ममोदपद्यताऽकार्षमथाऽनशनमात्मना ॥६७१॥ ततो विपद्य सौधर्मे कल्पेऽभूवमहं सुरः । तपःक्लेशसहानां हि न मोक्षोऽपि दवीयसि ॥६७२॥ सोऽहं विमाने कुसुमसमृद्धे कुसुमप्रभः । नाम्ना देवोऽस्मि भुञ्जानः स्वःसुखं त्वत्प्रसादतः ॥६७३।। यदि ते धर्मवचनं न स्यान्मे कर्णगोचरम् । तदा कैषा गतिमें स्यात् पापपङ्कमहाकिरें:? ॥६७४|| विज्ञाय चाऽवधिज्ञानाद् भद्रे ! त्वामुपकारिणीम् । द्रष्टुमत्राऽऽगमं धर्मपुत्रस्तेऽहमतः परम् ॥६७५।। वैदा ज्ञापयित्वा स्वं से गीर्वाणोऽथ तापसान् । उवाच श्लक्ष्णया वाचा बन्धून् ग्रामागतानिव ॥६७६।। भोस्तापसाः ! पूर्वभवे तत्कोपाचरणं मम । क्षमध्वं पालयत च प्रपन्नं श्रावकव्रतम् ॥६७७|| इत्युक्त्वा तमहे: कायमाकृष्य गिरिकन्दरात् । उल्लम्ब्य नन्दिवृक्षे च प्रोवाच कुसुमप्रभः ॥६७८॥ यः कोऽपि कोपं कुरुते लोका:! कोपफलेन हि । स ईदृशो भवेत् सर्पः कर्परोऽहं यथा पुरा ॥६७९।। अग्रेऽपि सम्यक्त्वधरस्तदा कुलपतिः स तु । भाग्योदयेन वैराग्यं परमं प्रत्यपद्यत ॥६८०॥ अथ केवलिनं नत्वा तापसानामधीश्वरः । व्रतं ययाचे वैराग्यशाखिनः फलमुत्तमम् ॥६८१॥ केवल्यूचे यशोभद्रसूरिरेष तव व्रतम् । दास्यत्यसावेव गुरुर्ममाऽप्यममताधनः ॥६८२।। पुनर्विस्मयमापन्नोऽपृच्छत् कुलपतिर्मुनिम् । गृहीतवानसि कथं प्रव्रज्यां ? भगवन् ! वद ॥६८३॥ पकेवल्याख्यत् कोशलायां नगर्यां नलभूपतेः । अनुजः कुरुते राज्यं कूबरो वरवैभवः ॥६८४||
सूनुस्तस्याऽस्म्यहं सड़ानगरीशो ममाऽऽदित । नृपतिः केशरी बन्धुमती नाम निजात्मजाम् ॥६८५॥ पित्राऽऽदिष्टस्तत्र गत्वा पर्यणैषं च तामहम् । नवोढां च समादायाऽचालिषं स्वपुरं प्रति ॥६८६॥ मार्गे चाऽऽगच्छताऽनेकशिष्यो गुरुरयं मया । अदर्शि समवसृतः कल्याणमिव मूर्तिमत् ॥६८७॥ तत्र भक्त्या परमया वन्दितोऽयं मुनिर्मया । कर्णामृतप्रपाधर्मदेशना चाऽस्य शुश्रुवे ॥६८८।। देशनान्ते मया पृष्टः कियदायुर्ममेत्यसौ । दत्तोपयोगश्चाऽवोचत् पञ्चैव दिवसा इति ॥६८९॥ आसन्नं मरणं ज्ञात्वा ततोऽभैषमकम्पिषि । महाभयं प्राणभयं सर्वेषामपि देहिनाम् ॥६९०॥ सूरिमौ स्माऽऽह मा भैषीर्वत्साऽऽदत्स्वाऽनगारताम् । अप्येकाहपरिव्रज्याऽवश्यं स्वर्गापवर्गदा ॥६९१।। ततः प्रव्रजितोऽमुष्मादस्याऽऽदेशादिहाऽऽगमम् । शुक्लध्याने स्थितो घातिक्षयात् केवलमासदम् ॥६९२।। इत्युक्त्वा रचयन् योगनिरोधं सिंहकेसरी । भवोपग्राहिकर्माणि हत्चाऽगात् परमं पदम् ॥६९३॥ पुण्यक्षेत्रे सुरैर्नीत्वा तस्य केवलिनो वपुः । तत्कालमग्निसंस्कारपात्रीचके शुभाशयैः ॥६९४॥ १. दरे । २. परमार्हतः ता०सं० । ३. ०वाध्वगा: खं० २, सू० विना । ४. उत्कल्लोलसिरा० मु० । ५. 'सूकरस्य' खं० २, ला०टि० । ६. गीर्वाणः सर्वतापसान् ला०।७. कोमलया। ८. प्रपन्नश्रावक० खं०२।९. कर्परोऽयं १०।१०. ला०प्रतौ ६८० श्लोकस्य स्थानेऽयं श्लोकोऽस्ति- "महासत्याः प्रसादेनाऽस्माभिर्धर्मो जिनोदितः । अग्रेऽपि सम्यक्त्वयुतः परमः प्रत्यपद्यत ॥" ११. ज्ञात्वा ला०पु० । १२. दत्तवान् । १३. केसरी खं० १, ला०सू० । १४. विश्रुता खं० २, ला० ता०सं०की०छा० ला०२ । १५. सूरिर्मा खं० २, सू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org