________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
पायथार्थनामा विमलमति: कुलपतिस्तु सः । प्रव्रज्यां श्रीयशोभद्रसूरिपादान्तिकेऽग्रहीत् ॥६९५॥ दवदन्त्यपि दान्तात्मा तं महर्षिमभाषत । ममाऽपि भगवन् ! देहि प्रव्रज्यां मुक्तिमातरम् ॥६९६।। यशोभद्रोऽवदत रिरद्यापि दवदन्ति ! ते । नलेन सह भोक्तव्या भोगा नाऽर्हसि तद् व्रतम् ॥६९७॥ पाविभातायां विभावाँ मुनिरुत्तीर्य पर्वतात् । पादैः पवित्रयामास तत् तापसपुरं पुरम् ॥६९८॥
तत्र चैत्यं प्रतिष्ठाय सोऽर्हद्धर्मोपदेशकः । सम्यक्त्वारोपणं चके पौराणां करुणानिधि ॥६९९।। पमलीमसाङ्गवसना धर्मध्यानपरायणा । सप्ताब्दी तत्र भैम्यस्थाद् भिक्षुणीव गुहागृहे ॥७००।पान्थ एकोऽन्यदा तस्याः कथयामास यन्मया । दृष्टोऽमुकप्रदेशेऽद्य दवदन्ति ! पतिस्तव ॥७०१।। दवदन्त्यपि तत्कालं पीततद्वचनामृता । रोमाञ्चोच्छसदङ्गाऽभूदिदं प्रेम्णो हि लक्षणम् ॥७०२॥ कोऽयमाप्याययति मामिति भीमसुता सती । अधावताऽनु तच्छब्दं शब्दवेधीव मार्गणः ॥७०३॥ भीमजाया गुहामध्याकर्षणप्रतिभूरिव । तां गुहाया स आकृष्य क्वचनाऽपि तिरोदधे ॥७०४॥ सा ददर्श न तं पान्थमत्यजत् तां गुहामपि । इत्यभूदुभयभ्रष्टा दैवं दुर्बलघाति हि ॥७०५॥ पतिता सा महारण्ये ययौ तस्थावुपाविशत् । व्यलुठद् व्यलपद् भूयो भूयोऽश्रान्तं रुरोद च ॥७०६।। किं करोमि ? क्व यामीति विमृशन्ती विमर्शवित् । तामेव गन्तुमारेभे कन्दरामादरेण सा ॥७०७।। सा राक्षस्यैकया दृष्टा छागी वृक्येव वर्त्मनि । प्रसारितास्यगुहया खादिष्यामीति चौच्यत ॥७०८।। भैम्यूचे यदि मे भर्ता नलो मनसि नाऽपरः । तत्सतीत्वप्रभावेण हताशा भव राक्षसि ! ॥७०९॥ सर्वज्ञो भगवानष्टादशदोषविवर्जितः । यद्यर्हन्नेव देवो मे हताशा भव राक्षसि ! ॥७१०॥ अष्टादशब्रह्मरता विरताः करुणापराः । साधवो गुरुवश्चेन्मे हताशा भव राक्षसि ! ॥७११।। आजन्माऽपि मम स्वान्ते विलग्नो वज्रलेपवत् । अस्ति यद्यार्हतो धर्मो हताशा भव राक्षसि ! ॥७१२॥* तच्छ्रुत्वा राक्षसँवधूरमुचत् तच्चिोदिषाम् । महर्षय इवाऽमोघवचना हि पतिव्रताः ॥७१३।। न सामान्येयमन्यूनप्रभावेति प्रणम्य ताम् । क्षणादपि तिरोधत्त स्वप्नायातेव राक्षसी ॥७१४॥ पायान्ती चाऽग्रे जलाकारतरङ्गीभूतवालुकाम् । ददर्शाऽद्रिनदीमेकां निर्जलां नलवल्लभा ॥७१५।।
शून्योपवनकुल्यायामिव तस्यामनम्भसि । उदैन्यन्ती दवदन्ती शुष्यत्तालु-रदोऽवदत् ।।७१६।। यदि मे मानसं सम्यग्दर्शनेनाऽधिवासितम् । तदत्रोद्वीचि 'वार्यस्तु गङ्गायामिव निर्मलम् ॥७१७।। इत्युक्त्वा 'पाणिघातेन भूतलं प्रजहार सा । सद्यो नद्यम्बुयुक्ताऽभूदिन्द्रजालनदीव सा ॥७१८॥ क्षीरोदधिर्शिरोद्भतमिव स्वाद यथारुचि । करेणकेव तद भैमी पपौ क्षीरोज्ज्वलं जलम् ॥७१९॥ ततोऽपि यान्ती वैदर्भी परिश्रममुपेयुषी । उपाविशद् वटस्याऽधो वटवासिवधरिव ॥७२०॥ तां तथास्थामथाऽद्राक्षुः पान्थाः सार्थादुपागताः । ऊचुश्च काऽसि भद्रे ! त्वं देवीव प्रतिभासि नः ॥७२१।। सोचे माऽस्म्यहं सार्थभ्रष्टाऽरण्ये वसामि च । यियासुस्तापसपुरं नियुङ्गध्वं मां तदध्वनि ॥७२२।। तेऽवोचन् याति यत्राऽस्तं रविस्तां दिशमाश्रयः । तवाऽध्वानं दर्शयितुं नेश्महे वयमुत्सुकाः ॥७२३॥ वारि६ चाऽऽदाय यास्यामः सार्थे स्वस्मिन्नितोऽस्ति सः । तत्रैषि चेन्नयामस्त्वां वसति क्वाऽपि पत्तने ॥७२४॥
तं सार्थं तैः सहाऽऽगाच्च तत्र तां करुणापरः । धनदेवः सार्थवाहोऽपृच्छत् का त्वं ? किमत्र च? ॥७२५।। भैयूँचेऽहं वणिक्पुत्री समं भर्ना पितुर्गृहे । चलिता निशि सुप्ताऽपि तेन त्यक्ताऽस्मि वर्त्मनि ॥७२६।। त्वदीयैः पुरुषैरत्राऽऽनीताऽहं सोदरैरिव । तन्मां नय महाभाग ! स्थाने वसति कुत्रचित् ॥७२७।। १. ०पतिः स तु खं० २ । २. दन्तात्मानं म० खं० १-२, ला०सू० । ३. नमस्कृत्य मु० । ४. वर्धापयति । ५. बाणः । ६. अलुटद् ला०। ७. भूयः श्रान्तं मु० र० । ८. ०वधूरमुञ्चत् खं० १-२, ला० सू० विना । ९. खादितुमिच्छाम् । १०. महर्द्धय० मु० । ११. उदकमिच्छन्ती। १२. नद्यां मे स्तात् कान्तिनिर्मलं जलम् खं० १ । १३. पाणिभागेन ता.सं. । १४. ०सिरोद्भूत० खं० १, मु० र० । १५. यक्षवधूरिव। १६. नीरमादाय पा० । १७. तत् खं० १, सू० । १८. भैम्यूचेऽस्मि मु० । ★ ७१२ इत्ययं श्लोक: खं० २ प्रतौ न ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org