________________
तृतीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
६१
पसार्थेशोऽवददचलपुरे यास्याम्यहं पुरे । त्वमप्यागच्छ हे वत्से ! त्वां हि नेष्यामि पुष्पवत् ॥७२८॥ इत्युक्त्वा सार्थवाहस्तां स्नेहलः स्वां सुतामिव । अधिरोप्योत्तमे याने गन्तुं प्रास्थित सत्वरः ॥७२९॥ अथैकस्मिन्नद्रिकुले वारिझात्कारनिझरे । सार्थमावासयामास सार्थनाथशिरोमणिः ॥७३०॥ वैदर्भी सुस्थिता तत्र सुखसुप्ताऽशृणोन्निशि । नमस्कारं पठ्यमानं केनचित् सार्थवर्तिना ॥७३१॥ उवाच सार्थवाहं सा नमस्कारं पठन्नसौ । साधर्मिको मे तदमुं दिदृक्षेऽहं त्वदाज्ञया ॥७३२॥ तस्याः पूरयितुं वाञ्छां सार्थवाहः पितेव सः । तामादाय नमस्कार श्रावकस्याऽऽश्रयं ययौ ॥७३३।। तं श्रावकं बन्धुमिव कुर्वाणं चैय॑वन्दनाम् । ददर्शाऽथ पटौकःस्थं भैमी शममिवाऽङ्गिनम् ॥७३४॥ आचैत्यवन्दनं भैमी तत्राऽस्थाच्च निषेदुषी । तं महाश्रावकमनुमोदमानाऽश्रुपूर्णदृक् ॥७३५।। ददर्श वन्द्यमानं च पटालिखितमाहतम् । जीमूतश्यामलं बिम्बं ववन्दे च नलप्रिया ॥७३६।।
चैत्यवन्दनपर्यन्ते कृतस्वागतमङ्गलम् । भैमी पप्रच्छ तं भ्रातः ! कस्येदं बिम्बमर्हतः ? ॥७३७।। पाश्रावकः कथयामास धर्मशीले ! स्वसः ! शृणु । मल्लेरेकोनविंशस्याऽर्हतो बिम्बं भविष्यतः ॥७३८।। भविष्यतोऽर्हतो बिम्बं कारणात् पूजयाम्यहम् । तच्चाऽद्य शृणु कल्याणि ! मम कल्याणकारणम् ॥७३९॥ अब्धिकाञ्चीशिरोरत्ने काञ्चीपुर्यामहं वणिक् । तत्राऽन्यदा धर्मगुप्तो ज्ञानवान् मुनिराययौ ॥७४०॥ स मुनिः समवासार्षीदुद्याने रतिवल्लभे । तं वन्दित्वा पर्यपृच्छं क्व तीर्थे निर्वृतिर्मम ? ॥७४१॥ स आख्यन मल्लिनाथस्याऽर्हतस्तीर्थे दिवश्च्यतः । प्रसन्नचन्द्रो राजा त्वं मिथिलायां भविष्यसि ||७४२।। मल्लेरेकोनविंशस्याऽर्हतः सम्प्राप्य दर्शनम् । उत्पन्नकेवलज्ञानो निर्वाणं त्वमवाप्स्यसि ॥७४३।। तदादि मल्लिनाथेऽहमुत्पन्नात्यन्तभक्तिकः । पटे तबिम्बमालेख्य धर्मज्ञे ! पूजयायदः ॥७४४।। आख्यायेति स्ववृत्तान्तं पप्रच्छ श्रावकोऽप्यदः । धर्मबन्धोर्ममाऽऽख्याहि काऽसि त्वं पुण्यदर्शने !? ॥७४५।। तस्मै श्रावकवर्याय धनदेवाय तादृशम् । सर्वं पतिवियोगादि वृत्तमाख्यदुदर्सदृक् ॥७४६।। श्रावकोऽपि करन्यस्तहनुर्बाष्पायितेक्षणः । असंमात्रेव वैदर्थ्यां दुःखेनाऽधिष्ठितोऽवदत् ॥७४७॥ मा शोचीरीदृशं कर्मोदितं ते दुःखकारणम् । पिता ते सार्थवाहोऽयं भ्राताऽहं सुखमास्स्व तत् ॥७४८।। पाप्रभाते सार्थवाहोऽपि प्राप्याऽचलपुरं पुरम् । मुमोच तत्र वैदर्भीमन्यतोऽगात् स्वयं पुनः ॥७४९।। तृषिता नगरद्वारवाप्यामाशु विवेश सा । लक्षिता जलह/भिर्मूर्तेव जलदेवता ॥७५०।। वामोऽहिर्गोधया तस्या जनसे जलसीमनि । आयाति दुःखिनां दुःखे दुःखं तत्सौहृदादिव ॥७५१॥ साऽपाठीविनमस्कारं तत्प्रभावेण गोधया । मुक्तोंऽहिरिन्द्रजालिक्या गलान्तकृतवस्त्विव ॥७५२॥ मुखां-ऽहि-हस्तं प्रक्षाल्य पीत्वा तद्वारि हारि च । मन्दं मन्दं मरालीव सा वाप्या निर्ययौ बहिः ॥७५३।। सा विषण्णा निषण्णा च शीलरत्नकरण्डिका । वरण्डिका तटे वाप्याः पावयन्ती दृशा पुरम् ॥७५४।। ऋतुपर्णनृपस्तत्राऽभूत् सुपर्ण इवौजसा । चन्द्रोज्ज्वलयशाश्चन्द्रयशास्तस्य च गेहिनी ॥७५५॥ तत्र चन्द्रयशोदास्यो वार्यानेतुं समाययुः । मस्तकन्यस्तकलशा मिथो नर्मपरायणाः ॥७५६॥ दास्यस्ता दुर्दशां प्राप्तामपि ताममरीमिव । ददृशः पङ्कमग्नाऽपि पद्मिन्येव हि पद्मिनी ॥७५७|| भैम्या रूपं प्रपश्यन्त्यस्ताश्च वाप्यां सविस्मयाः । मन्दं मन्दं प्रविविशुर्मन्दं मन्दं च निर्ययुः ॥७५८॥ गत्वा च कथयामासुस्तां तथारूपशालिनीम् । स्वामिन्यै चन्द्रयशसे सम्प्राप्तमिव शेवर्धिम् ॥७५९।। ताश्च चन्द्रयशाः प्रोचे समानयत तामिह । मत्पुत्र्याश्चन्द्रवत्याः सा भगिनीव भविष्यति ॥७६०॥
वापीपरिसरे तस्मिन्नेव ता द्रुतमाययुः । नगराभिमुखां लक्ष्मीमिवाऽथ ददृशुश्च ताम् ॥७६१॥ १. ०वन्दनम् ता०सं०ला० । २. धर्ममिवा० ला० । ३. अस्ति का० खं० २ । ४. निर्वाणम् । ५. भविष्यति खं० २ विना, र० । ६. ०याम्यहम् मु० र० । ७. धनदेवस्तयोदितम् ला० विना । ८. ०दुदश्रुदक् खं० २, ता०सं०ला० आ०ला०२, छा० विना । ९. असंमातेव खं० १, ला०सू० । असंमात्रेण र० । १०. ०रैन्द्रजालिक्या खं० १-२ । ११. तटे वाप्याः पावयन्ती दृशाऽचलपुरं पुरम् खं० २ । वरण्डिका-भीता-इति मु० प्रतौ टि. । १२. गरुडः । १३. सेवधिम् खं० २ । निधिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org