________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
ऊचुश्च नगरेऽमुष्मिन्नृतुपर्णस्य भूपतेः । राज्ञी चन्द्रयशोनाम्नी त्वामाह्वयति गौरवात् ॥७६२ ॥ आज्ञापयति च त्वं हि पुत्री चन्द्रवतीव मे । तदेहि भद्रे ! दुःखेभ्यः प्रकल्पय जलाञ्जलिम् ॥७६३॥ तिष्ठन्ती शून्यचित्तेह छलमाप्य दुरात्मभिः । व्यन्तरादिभिराविष्टा त्वमनर्थमवाप्स्यसि ॥७६४|| एवं च चन्द्रयशसो वचनेनाऽर्द्रमानसा । दवदन्त्यपि पुत्रीत्वस्त्रे हक्रीती ततोऽचलत् ॥७६५॥ स्वामिन्या धर्मपुत्री त्वमपि स्वामिन्यसीति सा । ताभिविनयवक्त्रीभिरनीयत नृपौकसि ॥७६६ ॥ चन्द्रयशाः पुष्पदन्त्या भैमीमातुः सहोदरा । मम मातृष्वसैवेति विवेद न तु भीमजा || ७६७ ॥ जामेयी दवदन्ती मेऽस्तीति चन्द्रयशाः पुनः । विवेद बाल्यदृष्टां तु तामुपालक्षयन्त्र हि ॥ ७६८|| पुत्रीप्रेम्णा तु तां दूरादपि राज्ञी ददर्श सा । प्रमाणमन्तःकरणं खल्विष्टाऽनिष्टनिर्णये ॥७६९ ॥ सस्वजे चन्द्रयशसाऽतिगाढं च नलप्रिया । तदङ्गसादं श्रमजमपनेतुमिवाऽऽदरात् ॥७७०॥ वर्षन्त्यश्रूणि वैदर्भी राज्ञ्याः पादाववन्दत । तत्प्रीत्यैवक्रयं पादक्षालनेनेव तन्वती ॥७७१॥ पृष्टा च चन्द्रयशसा काऽसि त्वमिति भीमजा । कथयामास तत्सर्वं सार्थवाहाय यत्पुरा ॥ ७७२॥ वैदर्भीमभ्यधाच्चन्द्रयशाः कल्याणि ! मगृहे । यद्वच्चन्द्रवती तद्वत् त्वमप्येधस्व शर्मभिः ॥ ७७३|| ||देव्यन्यदा चन्द्रयशाः प्रोचे चन्द्रवतीं सुताम् । मज्जामेय्या दवदन्त्या सदृशीयं तव स्वसा ॥ ७७४|| तस्याः सम्भाव्यते नैवंविधमागमनं क्वचित् । अस्माकमपि यः स्वामी नलः पत्नी हि तस्य सा ॥७७५ ॥ सचतुश्चत्वारिंशति योजनानां शते च सा । कथमागमनं तस्या दुर्दशा चेदृशी कुत: ? ||७७६ ॥
सा च चन्द्रयशा देवी प्रत्यहं नगराद् बहिः । दीनाऽनाथादिपात्रेभ्यो ददौ दानं यथारुचि ॥७७७।। | तामन्यदचे वैदर्भी दानमत्र ददाम्यहम् । आगच्छेन्मे यदि पुनः पतिर्याचकवेषभाक् ॥ ७७८।। आयुक्ता चन्द्रयशसा दवदन्ती तदाद्यपि । पत्याशया क्लेशसहा ददौ दानं यथास्थिति ॥७७९॥ दानार्थिनश्च प्रत्येकं भैम्यपृच्छद् दिने दिने । ईदृग्रूपः पुमान् कोऽपि किं युष्माभिरदृश्यत ? || ७८०|| दानशालास्थिताऽन्येद्युश्चौरमेकं ददर्श सा । बद्ध्वाऽऽरक्षैर्नीयमानं वाद्यमानो ग्रडिण्डिमम् ॥७८१॥ अपृच्छद् भीमतनयाऽप्यारक्षानमुना हि किम् । अपराद्धं वधप्राप्तिप्रक्रियाऽस्य यदीदृशी ||७८२ ॥ एष चन्द्रवतीदेव्या जहे रत्नकरण्डिकाम् । वध्योऽसौ कर्मणाऽनेनेत्याख्यन्नारक्षपूरुषाः ॥७८३॥ चौरोऽपि नत्वा वैदर्भीमूचे दृष्टोऽस्मि ते दृशा । कथं प्राप्स्यामि मरणं ? शरणं भव देवि ! मे ॥७८४|| आरक्षानागमय्योचे तं चौरं दवदन्त्यपि । मा भैषीर्जीवितव्येन कुशलं ते न संशयः ॥ ७८५ ।। इत्युक्त्वा भीमतनया सतीत्व श्रावणां व्यधात् । सत्यस्मि चेद् विशीर्यन्तां बन्धनान्यभितोऽस्य तु ॥ ७८६|| सतीत्व श्रावणामेवं कृत्वा भृङ्गारवारिणा । त्रिस्तमाच्छोटयच्चौरं द्राक् तद्बन्धाश्च त्रुटुः ॥७८७|| अथत्थिते कलकले किमेतदिति चिन्तयन् । ऋतुपर्णनृपस्तत्राऽऽजगाम सपरिच्छदः ॥ ७८८|| सविस्मयस्मेरनेत्रो नेत्रकैरवकौमुदीम् । दवदन्तीं दन्तकान्तिधौताधरदलोऽवदत् ॥७८९ ॥ सर्वत्र राजधर्मोऽयं "मात्स्यन्यायनिषेधकः । यद् दुष्टनिग्रहः शिष्टपालनं च यशस्विनि ! ॥७९०॥ राजा गृह्णन् करं पृथ्व्या रक्षेच्चौराद्युपद्रवम् । चौरादीनां हि पापेन लिप्येत स्वयमन्यथा ॥ ७९१ ॥ तत् पुत्रि ! न निगृह्णामि यद्यमुं रत्नतस्करम् । तत्परस्वापहाराय प्रयतेताऽभयो जनः ॥ ७९२॥ भैम्यूचे मयि पश्यन्त्यां यदि मार्येत देहभृत् । श्राविकायाः कृपालुत्वं तदा मे तात ! कीदृशम् ॥७९३॥ क्षम्यतामपराधोऽस्य शरणाश्रित एष मे । दुष्टरोग इवास्याऽऽत्ति: सङ्क्रान्ता तात ! मय्यपि ॥ ७९४ || ऋतुपर्णनरेन्द्रोऽथ तं मुमोच मलिम्लुचम् । महासत्या धर्मपुत्र्यास्तस्या अत्युपरोधतः ॥७९५ ॥
मुक्तमात्रः स चौरोऽपि त्वं मे मातेति भीमजाम् । प्रतिपेदे तिलकयन् भालं भूतलरेणुना ||७९६ || १. स्नेहक्रीता मु० २० । २. ० निष्टदर्शने सू० । ३ तस्या अङ्गखेदम् । ४. तत्प्रीतिमूल्यम् । ५. तामन्यदा च मु० २० । ६. प्रयुक्ता ला० । ७. ०मानाग्र० मु० र० । ८. ०श्रावणं खं० २, ला० । ९. सविस्मयो स्मेरनेत्रो मु० २० । १०. मत्स्यगलागलन्यायः । ११. एतस्या उप० मु० । ०स्तस्या अप्युप० र० ।
६२
Jain Education International
For Private Personal Use-Only
(अष्टमं पर्व
www.jainelibrary.org