________________
तृतीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । प्राणदानोपारं तं दिवानिशमविस्मरन् । मुक्तः स तस्करो भैमी नमश्चक्रे दिने दिने ॥७९७॥ पातमन्यदा चौरवरं पप्रच्छ नलवल्लभा । कोऽसि त्वं ? कुत आयासीरपशङ्क निवेदय ॥७९८॥
स आख्यत् तापसपुरे पुरे परमसम्पदः । वसन्तसार्थवाहस्य दासोऽहं पिङ्गलाह्वयः ॥७९९॥ व्यसनैरभिभूतेन वसन्तस्यैव वेश्मनि । खनित्वा खात्रमग्राहि कोशसारं मया निशि ॥८००। नष्टोऽहं लोजपाणिश्च प्राणत्राणपरायणः । लुण्टाकैर्लुण्टितो मार्गे कियत् क्षेमं दुरात्मनाम् ? ॥८०१।। अत्राऽऽगत्याथ राजानमृतुपर्णमसेविषि । 'सेवां मनस्वी कः कुर्यात् कुर्याद् वा तर्हि भूपतेः ? ॥८०२॥ ततः सञ्चरता राजहh चाऽधर्मबुद्धिना । मया चन्द्रवतीदेव्या दृष्टा रत्नकरण्डिका ।।८०३।। तदर्शनान्मनोऽचालीन्मम तद्धरणेच्छया । परस्त्रीदर्शनात् पारदारिकस्येव दुर्धियः.॥८०४।। चिल्ली हारमिवाऽहार्षमथ रत्नकरण्डिकाम् । विधायाऽप्रदीनं चोत्तरीयं निरगां ततः ॥८०५।। ऋतुपर्णनरेन्द्रेण कैश्चिच्चौरेङ्गितैरहम् । लक्षितोऽस्म्यतिदक्षेण नाऽलक्ष्यं दक्षताजुषाम् ॥८०६।। आरक्षैः पार्थिवार्दिष्टैर्बद्धोऽहं तत्क्षणादपि । वधार्थं नीयमानश्च त्वामद्राक्षं महासति ! |८०७।। दूरादपि त्वां शरणं प्रपन्नस्तारमारटन् । मोचितोऽस्मि त्वया छाग इव वध्यत्वमागतः ॥८०८॥ पाअन्यच्च तापसपुराद् गतायां स्वामिनि ! त्वयि । विन्ध्याकृष्टो द्विप इव वसन्तो भोजनं जहौ ॥८०९।। बोधितश्च यशोभद्रसूरिणाऽन्यजनेन च । उपोषितः सप्तरात्रं बुभुजे सोऽष्टमेऽहनि ॥८१०।। स वसन्तोऽन्यदाऽऽदाय महामूल्यमुपायनम् । जगाम कूबरनृपं द्रष्टं श्रीदसमं श्रिया ॥८११।। उपायनेन तुष्टश्च तस्मै कूबरपार्थिवः । प्रददौ तापसपुरराज्यं छत्रादिलाञ्छितम् ।।८१२।। तं सामन्तपदे कृत्वा तस्याऽदादभिधान्तरम् । वसन्तश्रीशेखर इत्यवनीशो नलानुजः ॥८१३।। कबरेण विसृष्टश्च भम्भया वाद्यमानया । आगतस्तापसपुरे वसन्तो राज्यमन्वशात् ॥८१४॥ पाभैम्यूचे वत्स ! दुष्कर्म कृतं प्रव्रज्य निस्तर । प्रमाणं मातुरादेश इति चोवाच पिङ्गलः ॥८१५।। तत्र चाऽऽगादनगारद्वितयं पर्यटत् तदा । प्रत्यलाभि च वैदा दोषवर्जितभिक्षया ॥८१६॥ बभाषे तावषी भैमी भगवन्तावयं पुमान् । यदि योग्यस्तदेतस्य व्रतदानात् प्रसीदतम् ॥८१७।। ताभ्यां योग्योऽयमित्युक्ते पिङ्गलोऽयाचत व्रतम् । ततो देवगृहे नीत्वा सद्यः प्रवाजितश्च सः ॥८१८|| पार्विदर्भेशोऽन्यदाऽ श्रौषीन्नलो यदनुजन्मना । द्यूते हारितराज्य श्रीः कूबरेण प्रवासितः ॥८१९। दवदन्ती गृहीत्वा च स विवेश महाटवीम् । न ज्ञायते गतः क्वाऽपि किं जीवति मृतोऽथवा ? ॥८२०॥ पुष्पदन्त्यपि तद्राज्ञो मुखाच्छ्रुत्वाऽरुदद्र्शम् । नारीणामातुरत्वे हि न दूरे नयनोदकम् ॥८२१।। ततश्च हरिमित्राख्यस्तदन्वेषणहेतवे । स्वाम्यादेशपटू राजबटू राज्ञा न्ययोज्यत ॥८२२॥ नलं च दवदन्ती च बटुः सर्वत्र शोधयन् । स ययावचलपुरेऽविक्षच्च नृपपर्षदि ॥८२३।। पप्रच्छ तं चन्द्रयशा निषण्णं नृपतेः पुरः । कच्चित् क्षेमं पुष्पदन्त्यास्तदीयस्य जनस्य च ॥८२४।। स आख्यत् कुशलं देव्याः पुष्पदन्त्याः सदोदितम् । नलस्य दवदन्त्याश्च कुशलं चिन्त्यमीश्वरि ! ||८२५।। उक्तश्च किं ब्रवीषीति देव्याः सोऽकथयद् बटुः । नल-भैम्योः कथां द्यूतादारभ्याऽत्यन्तदुःश्रवाम् ।।८२६।। ततश्च चन्द्रयशसि रुदन्त्यां प्ररुरोद च । हर्षवार्तास्वनध्यायी राजलोकस्तदाऽखिलः ॥८२७।। सर्वं दुःखातुरं प्रेक्ष्य क्षामकुक्षिर्बुभुक्षया । बटुर्ययौ दानशाला भोज्यचिन्तामणिहि सा ॥८२८।। तत्राऽऽसीनो भोजनार्थं दानशालाधिकारिणीम् । दवदन्ती स्वामिपुत्रीमुपलक्षयति स्म सः ॥८२९॥ स ववन्दे दवदन्त्याः पादौ रोमाञ्चमुद्वहन् । विस्मृतक्षुद्व्यथो हर्षादुत्फुल्लाक्षो जगाद च ॥८३०॥ देवि ! केयमवस्था ते निदाघ इव वीरुधः ? । दिष्टया दृष्टाऽसि जीवन्ती सर्वेभ्यः स्वस्ति सम्प्रति ॥८३१।। इत्युत्थाय द्रुतं चन्द्रयशोदेवीमवर्धयत् । तवाऽस्ति दानशालायां दवदन्तीति स "ब्रुवन् ।।८३२॥ १. ०पकारां मु० । २. सेवामतिश्वी खं० १-२ । ३. चाधर्म० मु० र० । ४. शकुनि:-'चील' । ५. पादानपर्यन्तम् । ६. सोऽष्टमे दिने मु०र०।७. श्रीदसमः ता०सं०की०ला छा० । ८. प्रसीदताम्र० १९. प्रावाजित० मु०र० । १०. वैदर्भे० खं० १, सू० । ११. संलपन् मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org