________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
तच्छ्रुत्वा दानशालायां गत्वा चन्द्रयशा द्रुतम् । दवदन्तीमालिलिङ्ग मरालीव मृणालिनीम् ॥८३३।। ऊचे च वत्से ! धिग् धिग् मां यया नाऽस्युपलक्षिता । सामुद्रिकैरद्वितीयैर्लक्षणैर्व्यञ्जिताऽपि हि ॥८३४॥ किमात्मगोपनं कृत्वा वञ्चिताऽस्मि त्वयाऽनघे !? । यद्येति दुर्दशा दैवात् का हीर्मातृकुले निजे? ॥८३५।। हा वत्से ! किं त्वया मुक्तो नलो? मुक्ताऽसि तेन वा ? । नूनं मुक्ताऽसि तेन त्वं त्वं सती तं न मुञ्चसि ॥८३६।। त्वयाऽपि यदि हीयेत दुर्दशापतितः पतिः । उदयेत तदा नूनं पश्चिमायां दिवाकरः ॥८३७।। नलोऽत्याक्षीः कथमिमां? मत्पार्वे नाऽमुचः कथम् ? । किं ते कुलोचितमिदं दयितां त्यजतः सतीम् ? ॥८३८।। दुःखं गृह्णामि ते वत्से ! क्रियासमवतारणम् । आगः सहस्व मे यत् त्वं न मयाऽस्युपलक्षिता ॥८३९॥ तमोऽहिगरुडः कृष्णनिशायामपि भौसुरः । क्व वा स तिलको बाले ! तवाऽलिकसहोद्भवः ? ॥८४०॥ इति स्ववदनाम्भोजनिष्ठीवनरसेन सा । भैम्या अमार्जयद् भालं जिघ्रन्ती मूनि तां मुहः ॥८४१॥ रैपिण्डोऽग्न्युत्तीर्ण इव मेघमुक्त इवाऽर्यमा । तत्कालं भालतिलको वैदा दिद्युतेतराम् ॥८४२॥ ततश्चाऽस्नपयच्चन्द्रयशा देवी नलप्रियाम् । गन्धोदकैः स्वपाणिभ्यां देवताप्रतिमामिव ॥८४३।। वाससी धवले सूक्ष्मे ज्योत्स्नारसमये इव । भैमी चन्द्रयशोदेव्याऽपिते परिदधे ततः ॥८४४॥ देवी चन्द्रयशाः प्रीता पाणिनाऽऽदाय भीमजाम् । प्रमोदवारिसरसी निषसाद नपान्तिके ॥८४५॥ पातदा चाऽस्तं ययौ सूर्योऽपूर्यताऽशेषमम्बरम् । सूचिभेद्येन तमसा कज्जलेनेव भाजनम् ।।८४६।। विवेश नाऽन्धतमसं तदा सदसि भूपतेः । भैमीतिलकतेजोभिः स्खलितं काष्ठिकैरिव ॥८४७॥ उवाच देवी नृपतिर्नन्वियायाऽस्तमर्यमा । नेह दीपो न वा वह्निरहीवोद्योत एष किम् ? ॥८४८॥ जन्मतः सहसंसिद्ध वैदास्तिलकं च तम् । राज्ञी प्रादर्शयद् राज्ञे ज्योतिर्जलमहाहूदम् ॥८४९।। प्यधात्तत् तिलकं राजा कौतुकेन स्वपाणिना । अभूद् गिरिगुहाप्रायं तमसा मङ्घ तत्सदः ॥८५०॥ अपसार्य पुनः पाणि पप्रच्छाऽतुच्छसम्मदः । राजा पित्रीयितो भैमी राज्यशादिकां कथाम् ।।८५१।। न्यग्मखी कथयामास रुदती दवदन्त्यपि । नल-कबरयो तादारभ्य सकलां कथाम् ॥८५२॥
राजाऽपि स्वोत्तरीयेण भैम्याः सम्माW चक्षुषी । उवाच पुत्रि ! मा रोदीन कश्चिद् बलवान् विधेः ॥८५३।। पाअत्रान्तरे दिवो देवः कश्चिदुत्तीर्य पर्षदि । तत्राऽऽगाद् भीमतनयामूचे च रचिताञ्जलिः ॥८५४॥ दवदन्ति ! तवाऽऽदेशाच्चौरः पिङ्गलको ह्यहम् । प्रव्रज्यं तापसपुरे कर्दाचिद् विहरन्नगाम् ।।८५५।। तत्र स्मशानमध्येऽस्थामहं प्रतिमया स्थिरः । चितानलोत्थितो दूरं प्रासारच्च दवानलः ॥८५६॥ तेनाऽहं दह्यमानोऽपि धर्मध्यानादविच्युतः । स्वयमाराधनां कृत्वा नमस्कारपरायणः ॥८५७|| भूपृष्ठे पतितस्तत्र 'समिधीभूतविग्रहः । विपद्य त्रिदशोऽभूवं नामधेयेन पिङ्गलः ॥८५८॥ युग्मम् ।। ततोऽज्ञासिषमवधे रक्षितोऽस्मि त्वया वधात् । प्रव्रज्यां ग्राहितश्चाऽस्मि तत्प्रभावात् सुरोऽभवम् ॥८५९॥ मां महापापिनं भद्रे ! यधुपैक्षिष्यथास्तदा । अप्राप्तधर्मो मृत्वाऽहमयास्यं नरके ततः ॥८६०॥ वैदर्भि ! त्वत्प्रसादेनाऽऽसदं धुसदनश्रियम् । इति त्वां द्रष्टुमागच्छं विजयस्व महासति ! ॥८६१॥ इत्युक्त्वा च हिरण्यस्य सप्तकोटी: प्रवृष्य सः । सुरस्तिरोऽधादुत्पत्य विद्युत्पुञ्ज इवाऽम्बरे ॥८६२॥ इति साक्षात्कृतफलं द्युसदा धर्ममार्हतम् । ऋतुपर्णनरेन्द्रोऽपि प्रपेदे विदुषां वरः ॥८६३॥
सम्प्राप्तावसरश्चोचे हरिमित्रस्तदा नृपम् । देवाऽऽदिश चिराधातु दवदन्ती पितुर्गृहे ।।८६४॥ पततश्च चन्द्रयशसाऽप्युक्तो राजैवमस्त्विति । विदर्भान् प्रति वैदर्भीमादिशत् सेनया सह ।।८६५।।
आगच्छन्ती दवदन्ती श्रुत्वा भीमनृपोऽभ्यगात् । कृष्टो बलीयसा प्रेम्णा दुधरणेव वाजिना ॥८६६॥ १. यद्येवं मु०र० । २. क्रियाः सम० मु० र० । क्रियां सम० ला० । 'क्रियासम्' कृधातोराशी:प्रथमपुरुषैकवचनप्रयोगः । ३. भास्करः ता०सं०म० । ४. स्वर्णपिण्डः । ५. सूच्यभेदेन मु० । ६. काष्ठकै० म० । वेत्रधारिभिः । ७. राज्ञो ता०सं० । ८. प्यधात्तं मु० र० । पिधात्तत् खं० २ । ९. राजसभा । १०. पित्रीयते खं० २ । पित्रीयन्ति खं० १ । पित्रीयतो सू० । पितेवाऽऽचरन् । ११. तदा च ला० । १२. तदा हि वि० मु०र० । १३. भूमध्ये ला० । १४. दग्धकाष्ठतुल्यदेहः । १५. ०फल: खं० २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org