________________
तृतीयः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
दृष्टमात्रेऽपि पितरि वैदर्भी पादचारिणी । स्मेरास्यपद्मा धावित्वाऽपतत् तत्पादपद्मयोः ॥८६७॥ र्पितुः पुत्र्याश्च सोत्कण्ठं चिरान्मिलितयोस्तयोः । पतद्भिर्नेत्रसलिलैर्भूरभूद् भूरिकर्दमा ॥८६८॥ ज्ञात्वा सह समायातां पुष्पदन्तीं तदात्मजा । आलिङ्गति स्म सुदृढं यमुना जाह्नवीमिव ॥८६९॥ लगित्वा तद्गलेऽरोदीन्मुक्तकण्ठं नलप्रिया । इष्टे दृष्टे नवमिव दुःखं भवति देहिनाम् ||८७० ।। प्रक्षाल्य च क्षणादूर्ध्वं मुखाम्भोजानि वारिणा । ते मिथो वार्तयामासुर्दुःखोद्गिरणपूर्वकम् ||८७१॥ अङ्कमारोप्य वैदर्भी पुष्पदन्ती जगाद च । दृष्टाऽस्यायुष्मती दिष्ट्या भाग्यं जागर्ति नः खलु ॥८७२ ॥ सुखेनाऽस्मद्गृहे कालं गमयन्ती चिरादपि । पतिं द्रक्ष्यसि जीवन् हि प्राणी भद्राणि पश्यति ||८७३|| हरिमित्राय तुष्टोऽदाद् ग्रामपञ्चशतीं नृपः । ऊचे च दास्ये राज्यार्धमपि तुभ्यं नलागमे ||८७४|| पुरे गत्वा नृपश्चक्रे दवदन्त्यागमोत्सवम् । दिनानि सप्त देवार्चां गुर्वच च विशेषतः ॥ ८७५ ॥ अष्टमेऽह्नि च वैदर्भी विदर्भपतिरब्रवीत् । तथा करिष्यते शीघ्रं नलः सङ्गस्यते यथा ॥ ८७६॥ [तदा चैं हित्वा वैदर्भी नलोऽरण्ये परिभ्रमन् । अपश्यदेकतो धूमं वनकँक्षात् समुत्थितम् ॥८७७|| धूमस्तोमो ऽञ्जनश्यामो व्यानशे स नभस्तलम् । अच्छिन्नपक्षः कोऽप्यद्रिः खे यातीति भ्रमप्रदः ||८७८ || धूमो निमेषमात्रेण ज्वालामालाकरालितः । भुवः प्रादुर्भवन् विद्युद्युतमेघविडम्ब्यभूत् ||८७९|| वंशानां दह्यमानानां त्रत्त्रटिति निःस्वनम् । आक्रन्दं श्वापदानां च ततः शुश्राव नैषधिः ॥ ८८० ततो 'देवानले दीप्ते शब्दं शुश्राव मानुषम् । ऐक्ष्वक ! नल ! भूपाल ! रक्ष मां क्षत्रियोत्तम ! ||८८१॥ निष्कारणोपकारी त्वं पुंव्रतेनाऽसि यद्यपि । तथाऽपि तुभ्यमुर्वीशोपकरिष्यामि रक्ष माम् ||८८२॥ तं शब्दमभिगच्छंश्च लतागहनमध्यगम् । महोरगं नलोऽद्राक्षीद् रक्ष रक्षेति भाषिणम् ॥८८३|| पप्रच्छ च कथं वेत्सि मां मन्नाम मदन्वयम् ? । कथं वा मानुषी वाक् ते? ममाऽऽख्याहि महोरग ! ||८८४ ॥ आख्यत् सर्पोऽहमभवं मनुष्यः पूर्वजन्मनि । तज्जन्माभ्यासतो भाषा मानुषी मे प्रवर्तते ॥ ८८५ ॥ ममाऽस्ति चावधिज्ञानमुज्ज्वलं तेन वेद्म्यहम् । त्वां च त्वन्नामधेयं च त्वद्वंशं च यशोनिधे ! ||८८६ ॥ [नलो जातानुकम्पोऽथ कम्पमानस्य भोगिनः । कर्षणायाऽक्षिपद् वल्लीवनोपरि निजां पटीम् ||८८७|| उत्तरीयाञ्चलं राज्ञो भूलग्नं प्राप्य पन्नगः । अवेष्टयत् स्वभोगेन बालकेनोर्मिकामिव ॥८८८॥ पन्नगेन तदाक्रान्तमुत्तरीयं निजं नलः । उदर्पानाद् रज्जुमिव चकर्षोत्कर्षभकृपः ||८८९ || गत्वोखरप्रदेशे च वनवह्नेरगोचरे । मुमुक्षु मङ्क्षु भूपालं दन्दशूकोऽदशत् करे ॥८९०|| स्वेदबिन्दुमिवाऽऽच्छोट्य तं नागमवनीतले । नलः प्रोवाच भोः ! साधु कृतज्ञेन कृतं त्वया ॥ ८९१ ।। ममोपकारिणः साधूपकृतं पन्नग ! त्वया । यो हि पाययति क्षीरं त्वज्जात्या सोऽपि दश्यते ॥८९२ ॥ नलस्यैवं विवदतो विषेणाऽङ्गे प्रसर्पता । कुब्जतां वपुरापेदे धन्वेवाऽधिज्यतां गतम् ॥८९३॥ सोऽणुपिङ्गकचः प्रेत इव लम्बौष्ठ उष्ट्रवत् । सूक्ष्मपाद - करः स्थूलोदरो रङ्क इवाऽभवत् ॥८९४॥ सर्वाङ्गमपि बीभत्सविकृताकारधार्यभूत् । आशीविषविषग्रस्तो नलो नट इव क्षणात् ॥८९५ ॥ अचिन्तयच्च रूपेणाऽमुना मे जीवितं मुधा । गृह्णामि तत् परिव्रज्यां परलोकोपकारिणीम् ॥८९६॥ [नलस्यैवं चिन्तयतः सोऽहिस्त्यक्त्वाऽहिरूपताम् । दिव्यालङ्कारवसनस्तेजोरूपः सुरोऽभवत् ॥८९७॥ ऊचे च मा विषीदः स्म तवाऽहं निषधः पिता । तुभ्यं दत्त्वा तदा राज्यं परिव्रज्यामुपात्तवान् ||८१८ || परिव्रज्याफलेनाऽहं ब्रह्मलोके सुरोऽभवम् । अद्राक्षं चाऽवधिना त्वां प्रपेदानमिमां दशाम् ॥८९९॥ मैंया मायोरगीभूय दुर्दशापतितस्य ते । गण्डोपरि पिटकवत् कृताऽङ्गेषु विरूपता ॥९००|| अङ्गेषु वैरूप्यमपि मयोत्पादितमीदृशम् । उपकाराय मन्यस्व कटुभेषजपानवत् ॥९०१॥
६५
९. पितृपुत्र्योश्च ता०सं० । २. विदर्भापति० खं० १-२, सू० । ३. तदा हित्वा च खं० २ । ४. वनविभागात् । ५. दावा० मु० र० । ६. इक्ष्वाकुनल मु० । ७. स्वशरीरेण । ८ कूपात् । ९. ०त्कर्षभाग् नृपः मु० र० । उत्कर्षभाक् कृपा यस्य सः । १०. ० रूपधरो० खं० १ । ११. मायामहोरगीभूय ता०सं० ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org