________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
त्वया दासीकृताः सर्वे राजानस्ते तव द्विषः । वैरूप्याऽनुपलक्ष्यं त्वां नोपद्रोष्यन्ति सम्प्रति ॥९०२।। इदानीमपि मा कार्षीः परिव्रज्यामनोरथम् । भोक्तव्या भूस्तवाऽद्याऽपि तावत्येव चिरं नल ! ॥९०३।। कथयिष्यामि समयं परिव्रज्योचितं च ते । स्वाहा मौहर्तिक इव सुस्थितोऽतः परं भव ॥९०४॥ पुत्रेदं श्रीफलफलमिमं रत्नकरण्डकम् । गृहाण यत्नाद् रक्षेश्च क्षत्रव्रतमिवाऽऽत्मनः ॥९०५॥ स्वरूपार्थी यदा त्वं स्याः श्रीफलं स्फोटयेस्तदा । देवदूष्याण्यदूष्याणि द्रक्ष्यसि त्वं तदन्तरे ॥९०६।। तदैवोद्घाटये रत्नकरण्डमपि तत्र तु । हारादीन्यतिहारीणि द्रक्ष्यस्याभरणानि च ॥९०७|| सद्यः परिहितैर्देवदूष्यैराभरणैश्च तैः । तदैव देवताकारं निजं रूपमवाप्स्यति(सि) ॥९०८॥ पानल: पप्रच्छ तं तात ! दवदन्ती स्नुषा तव । किं यत्र मुक्ता तत्राऽस्ति गता वा क्वचिदन्यतः ? ॥९०९॥ देवोऽप्याख्यत् ततः स्थानाद् विदर्भागमनावधि । भैम्या वृत्तान्तमखिलं तत्सतीत्वं प्ररूपयन् ॥९१०॥ जगाद च नलं वत्स: किमरण्ये भ्रमन्नसि । नयामि तत्र स्थाने त्वां यस्मिन् जिगमिषा तव ॥९११॥ नल: प्रोवाच मां देव ! सुसुमारपुरे नय । देवोऽपि हि तथा कृत्वा जगाम निजधामनि ॥९१२।। नलोऽपि नन्दनवने तत्पुरोपान्तवम॑नि । स्थितो ददर्शाऽऽयतनं सिद्धायतनसन्निभम् ॥९१३॥ तत्र चैत्ये विशन् कुब्जो ददर्श च तदन्तरे । प्रतिमां नमिनाथस्योत्पुलकस्तामवन्दत ॥९१४॥ ततो नलः सुसुमारनगरद्वारमभ्यगात् । तत्र चाऽऽलानमुन्मूल्य भ्रमन्मत्तगजोऽभवत् ॥९१५।। स्पृष्टासनोऽनिलेनापि स व्यधूनयदासनम् । उपरि स्फुरतो हस्तेनाऽऽचकर्ष खगानपि ॥९१६॥ दृष्टिं दृष्टिविषस्येव जहुँस्तस्येभजी विकाः । महावात इवोद्यानतरूनपि बभञ्ज सः ॥९१७।। दधिपर्णनृपस्तत्र वप्रमारुह्य सत्वरम् । उच्चैरुवाच तं नागं वशं नेतुमनीश्वरः ॥९१८॥ कर्याद गजं मे यो वश्यमवश्यं तस्य वाञ्छितम । ददामि किं भोः ! कोऽप्यस्ति गजारोहणधर्वहः ? ॥९१९॥ कुब्जोऽवादीत् तदाकर्ण्य क्व स क्व स मतङ्गजः ? । तमहं गमयिष्यामि वश्यतां पश्यतां हि वः ॥९२०॥ आगात् कुब्जे वदत्येवं स गर्जन्नूजितं गजः । तमभ्यधावत् कुब्जोऽपि मां पयामस्पृशन्निव ॥९२१॥ मा मृथा मा मृथाः कुब्जाऽपसराऽपसरेत्यलम् । लोको जगाद निःशङ्ख केसरीव ययौ तु सः ॥९२२।। प्रससाराऽपससार पपात च लुलोठ च । स कन्दुक इव कुब्जः कुञ्जरं विप्रतारयन् ॥९२३।। भूयो भूयश्च लाङ्गलमाक्रमन् विक्रमी नलः । वार्त्तिकः पन्नगमिव खेदयामास तं गजम् ॥९२४।। जितश्रमो नलो जातश्रमं विज्ञाय तं गजम् । द्राग् गरुत्मानिवोत्पत्याऽऽरुरोहाऽऽरोहकाग्रणीः ॥९२५॥ पूर्वासनमधिष्ठाय पादौ न्यस्य कैलापके । दृढयामास तद्ग्रन्थिमाघ्नन् कुम्भौ चपेटया ॥९२६॥ कलापंताडनाव्यात्तर्वक्त्रं चीत्कारकारिणम् । करिणं वाहयामास तं कुब्जो नर्तयन् सुणिम् ॥९२७।। तस्याऽथो घोषयामास जनो जयजयारवम् । तद्गले चाऽक्षिपद् राजा स्वयं कनकशृङ्खलाम् ॥९२८।। मदनमयमिव तं कृत्वा व्यालं नलो बली । आलानलीनतां निन्ये कक्षानाड्योत्ततार च ॥९२९।। ततो नलोऽमलयशाः प्रणिपतिमसंस्पृशन् । अभ्यर्णे दधिपर्णस्योपाविशत् सवैया इव ॥९३०॥ दधिपर्णोऽथ तं प्रोचे गजशिक्षाविचक्षण !। किमन्यदपि भोः कुब्ज ! वेत्सि? सम्भावनाऽस्ति ते ॥९३१॥ कुब्जोऽप्युवाच हे राजन् ! किमन्यत् कथयामि ते । सूर्यपाकां रसवीं वेद्मि किं तां दिदृक्षसे ? ॥९३२॥ स राजा सदनं गत्वा सूर्यपाककुतूहली । कुब्जाय तण्डुलान् शाकान् वेषवारादि चाऽऽर्पयत् ॥९३३॥ चरून् सूर्यातपे मुक्त्वा 'सौरी विद्यामनुस्मरन् । मक्षु निष्पादयामास दिव्यां रसवती नलः ॥९३४॥ कल्पवृक्षविशेषेण दत्तयेव मनोज्ञया । रसवत्या तया राजा बुभुजे सपरिच्छदः ॥९३५॥ १.सोऽहं मौ० मु०र० । महामौहू० ला० । अहो मौ०सू० । 'स्वाहा' उच्चारणक्षणं कथयन् ज्योतिविद् इव । २.०पुरं मु०र० । ३. स्कन्धप्रदेशम् । ४. शुण्डया। ५. जहू० खं०१-२॥ ६.०जीवकाः खं० २, लासू० । हस्तिपकाः । ७. गारुडिकः । ८. श्रेष्ठारोहक इव। ९. कण्ठरज्ज्वाम् । १०. कलापताडनव्यात्त० खं० २ । ११. ०व्यात्तवक्त्रचीवर० मु० । १२. शूणिम् खं० १-२ । अङ्कशम् । १३. मदनं 'मीण' इति । १४. पार्श्वस्थरज्जुबलेन । १५. ०पातमसंस्पृशन् मु० र० । १६. सुहृदिव । १७. शौरी खं० २। १८. कल्पवृक्षावि० ख० १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org