________________
तृतीयः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
५७
शार्दूलचर्मसंव्यानं भीषणेभ्योऽपि भीषणम् । रक्षोऽद्राक्षीदथैकं सा पुत्रं पितृपतेरिव ॥५९५ ॥ त्रिभिविशेषकम् ॥ बुभुक्षाक्षामकुक्षेर्मे चिराद् भक्ष्यमुपस्थितम् । मङ्क्षु त्वां भक्षयिष्यामीत्युवाच च स राक्षसः ॥ ५९६ ॥ भीताऽप्यथोऽवदद् धैर्यमालम्ब्य नलगेहिनी । श्रुत्वा मदीयं वचनं यथारुचि त्वमचरेः ॥५९७|| जातस्य हि ध्रुवं मृत्युरकृतार्थस्य मृत्युभीः । आजन्म परमार्हत्याः कृतार्थायास्तु सा न मे ॥५९८॥ परस्त्रियं मा स्पृश मां स्पृशन्नपि न नन्दसि । ममाऽऽक्रोशेन मूढात्मन्नेषाऽस्मि विमृश क्षणम् ॥५९९|| इति धैर्येण वैदर्भ्या हृष्टः स रजनीचरः । उवाच भद्रे ! तुष्टोऽस्मि किं तवोपकरोम्यहम् ? || ६०० || साऽप्यूचे यदि तुष्टोऽसि देवयोने ! निशाचर ! । तर्हि पृच्छामि कथय कदा मे पतिसङ्गमः ? ||६०१॥ विज्ञायाऽवधिना तस्यै कथयामास राक्षसः । सम्पूर्णे द्वादशे वर्षे प्रवासाहाद्यशस्विनि ! ||६०२॥ पितृवेश्मस्थितायास्ते स्वयमेव समागतः । मिलिष्यति नलो राजा समाश्वसिहि सम्प्रति ||६०३|| युग्मम् | कल्याणि ! भणसि त्वं चेत् तदा त्वां तातवेश्मनि । नयाम्यर्धनिमेषेण यासीर्माऽऽयासमध्वनि ||६०४ || सा प्रोचे कृतकृत्याऽस्मि नलागमनशंसनात् । परपुंसा सह नाऽहं प्रयामि स्वस्ति ते व्रज ||६०५ ॥ दर्शयित्वा निजं रूपं स ज्योतिर्मयमात्मनः । उत्पपाताऽम्बरतले तडित्पुञ्ज इव क्षणात् ॥ ६०६॥ [पत्युः प्रवासं विज्ञाय साऽपि द्वादशहायनीम् । चकाराऽभिग्रहानेवं सतीत्वंद्रुमपल्लवान् ||६०७॥ रक्तवस्त्राणि ताम्बूलं भूषणानि विलेपनम् । विकृतीरपि नाऽऽदास्ये न यावन्मिलितो नलः ||६०८|| गिरेरेकस्य च प्राप्य कन्दरां दरवर्जिता । भैमी प्रावृषमत्येतुं तत्रैवाऽवस्थितिं व्यधात् ॥६०९॥ सा बिम्बं शान्तिनाथस्य स्वयं निर्माय मृन्मयम् । न्यवीविशद् गुहाकोणे मनसीवाऽमले निजे ॥६१०॥ स्वयंगलितपुष्पाणि स्वयमानीय भीमजा । त्रिसन्ध्यं पूजयामास तद्विम्बं षोडशार्हतः ||६११॥ चतुर्थादितप:प्रान्ते पारणं परमार्हती । प्रासुकैर्बीजरहितैः कृतिन्यकृत सा फलैः ॥६१२॥ सोऽपश्यन् सार्थवाहोऽपि सार्थमध्ये नलप्रियाम् । आगादनुपदं तस्याः क्षेममस्त्विति चिन्तयन् ॥६१३॥ गुहायामागतस्तस्यां सार्थवाहो ददर्श च । दवदन्तीमर्चयन्तीमर्हद्विम्बं समाधिना ॥६१४|| दृष्ट्वा क्षेमवतीं भैमीं सार्थवाहः प्रमोदभाक् । नत्वा चोपाविशद् भूमौ विस्मयस्मेरलोचनः ||६१५॥ भैमी समाप्याऽर्हत्पूजां स्वागतप्रश्नपूर्वकम् । सार्थेशं वार्त्तयामास सुधामधुरया गिरा ॥ ६१६॥ अदूरवासिनः केऽपि तापसास्तत्र सत्वरम् । "आगुस्तच्छब्दमाकर्ण्यात्कर्णाश्चाऽस्थुर्मृगा इव ||६१७ || धाराधरोऽम्बुधाराभिर्दुर्धराभिर्धराधरम् । ताडयन्नभितष्टङ्गैरिवाऽऽरेभे च वर्षितुम् ॥६१८|| आहन्यमाना भल्लीभिरिव धाराभिरम्भसाम् । ते प्रोचिरे क्व गच्छामः ? क्व पयो वञ्च्यतामिदम् ? ॥ ६१९ ॥ दृष्ट्वा च तान् कान्दिशीकान् श्वापदानिव तापसान् । उवाच भैमी मा भैष्ट मा भैष्टेति प्रकृष्टवाक् ॥६२०॥ कृत्वा च परिधौ तेषां कुण्डं कुण्डिनराट्सुता । सतीधुरन्धरा धीरं व्याजहाराऽतिहारिवाक् ॥६२१॥ सत्यस्मि यद्यहं यद्यार्हती ऋजुमना यदि । कुण्डात् तदस्मादन्यत्र वर्षन्तु स्तनयित्नवः ॥ ६२२॥ तदैव भीमतनयासतीत्वस्य प्रभावतः । कुण्डे धृतच्छत्र इव पयस्तत्राऽपतन्नहि ||६२३॥ पर्वतः सर्वतोऽपि द्राग् धौतो नीरैरराजत । निर्मलैश्यामलवपुर्नदीस्त्रात इव द्विपः ॥६२४॥ गह्वराणि गिरेस्तस्याऽभूवन् वर्षति वारिदे । परितो वारिपूर्णानि पूर्तानीवाऽम्बुदश्रियः ॥६२५॥ तद्दृष्ट्वाऽचिन्तयन् सर्वे काऽप्येषा खलु देवता । मानव्या नेदृशं रूपं न च शक्तिरपीदृशी ॥ ६२६॥ सार्थवाहो वसन्तस्तां पप्रच्छ स्वच्छधीरथ । भद्रे ! कथय को नाम देवोऽयं पूज्यते त्वया ? ॥६२७॥
१. यमराजस्य । २. मदीयवचनं खं० २ । ३. तमाचरे: र० स्वीकृतप्रतिषु सर्वत्र । ४. प्रवासदिनात् । ५. साहं सू० । ६. सतीव्रतद्रुपल्लवान् ला० । ७ ० वर्जिताम् खं० २, ला०सू० । भयरहिता । ८. निर्दोषैः । ९. पण्डिता । कृतज्ञाऽकृत ता०सं०पु० । १०. अगा० ला० । ११. आयु० ता०सं० । १२. ०भेऽथ खं० २, सू०ला० । ०भे प्रव० खं० १ । १३. प्रगल्भवाक् ता०सं०। । १४. कुण्डात् तस्मात्तदन्यत्र ला० । १५. मेघाः । १६. निर्मल: मु०र० । १७. वारिपूर्णानि मूर्त्तानि पू० ला० सू० । १८. पूर्त्तानि - जलाशयाः, ‘इष्टापूर्त्त’कर्मसु 'पू' कर्म । १९. ० श्रिया खं० २ ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org