________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
पाइति न्यग्रोधमार्गेण भैमी गन्तुं प्रचक्रमे । नलाक्षराणि पश्यन्ती पार्वे नलमिव स्थितम् ॥५६३॥ व्याघ्रा व्यात्ताननास्तस्या खादनायोत्थिता अपि । समीपमागन्तुमलमनलस्येव नाऽभवन् ॥५६४॥ गच्छन्त्यास्त्वरितं तस्या वल्मीकमथनोत्थिताः । जाङ्गल्या इव मूर्तया नाभ्यसर्पन महोरगाः ॥५६५।। स्वच्छायामपि भिन्दन्तौ दन्तैरन्येभशंकया । मत्ता अपि ययुर्दूरं तस्याः सिंह्या इव द्विपाः ।।५६६।। प्राभूवन् पथि गच्छन्त्यास्तस्या नान्येऽप्युपद्रवाः । सर्वत्र कुशलं तासां स्त्रीणां याः स्युः पतिव्रताः । ॥५६७।। सा पुलिन्दपुरन्ध्रीवाऽतिविसंस्थुलकुन्तला । सद्यःस्नातेव सर्वाङ्गमपि स्वेदजलाविला ॥५६८॥ करीर-बदरीप्रायकण्टकिद्रुमघर्षणैः । प्रक्षरद्रुधिरा निर्यनिर्यासाव सल्लकी ॥५६९॥ बिभ्रती मार्गसङ्क्रान्तं रजस्त्वचमिवाऽपराम् । त्वरितं त्वरितं यान्ती दवत्रस्तेव हस्तिनी ॥५७०॥ आवासितमुदैक्षिष्ट सङ्कटं शाकटादिभिः । मार्गे महद्धिकं सार्थं शिबिरं नृपतेरिव ॥५७१॥ चतुभिः कलापकम् ॥ अचिन्तयच्च सार्थश्चेत् कश्चिदप्यधिगम्यते । सोऽरण्याब्धितरण्ड: स्यात् तदा मे पुण्यसम्पदा ॥५७२।। स्वस्थीभूय च सा तस्थौ यावत् तावच्च दस्यवः । परितो रुरुधुः सार्थं देवसेनामिवाऽसुराः ॥५७३।। तां चौरसेनामायान्तीमीति चौरमयीमिव । दृष्ट्वा बिभ्युः सार्थलोकाः सुलभा धनिनां हि भीः ॥५७४॥ हंहो मा भैष्ट मा भैष्ट लोकाः सार्थनिवासिनः । इति तत्कुलदेवीवोवाच वाचं नलप्रिया ॥५७५॥ व्याजहार च सा चौरान रे रे यात दुराशयाः । रक्ष्यमाणे मयाऽमुष्मिन् सार्थेऽनर्थमवाप्स्यथ ॥५७६।। एवं वदन्तीमपि हि दवदन्तीं मलिम्लुचाः । वातूलामिव भूतात्तामिव चाऽजीगणन्न हि ।।५७७।। ततो मुमोच हुंकारांश्चौराहंकारदारणान् । कुण्डिनाधीशदुहिता हितार्थं सार्थवासिनाम् ॥५७८।। श्रुतैश्च तस्या हुङ्कारैर्बधिरीकृतकाननैः । दस्यवस्ते पलायन्त धनु दैरिव द्विकाः ॥५७९।। अस्मत्पुण्यैः समाकृष्टा काऽप्येषा देवता खलु । अस्मानरक्षच्चौरेभ्य इति सार्थजनोऽवदत् ॥५८०।। सार्थनाथोऽपि तां भक्त्या प्रणम्य जननीमिव । पप्रच्छ किमिहाऽरण्ये परिभ्रमसि काऽसि वा ? ॥५८१॥ सासंदृग् बान्धवायेव सार्थवाहाय भैम्यपि । अशंसदानलद्यूतात् सर्वं वृत्तान्तमात्मनः ॥५८२॥ उवाच सार्थवाहोऽपि महाबाहोर्महीपतेः । नलस्य पत्नीत्यपि मे पूज्याऽस्यद्याऽस्मि पुण्यभाक् ॥५८३॥ त्वयोपकारक्रीताः स्मस्तस्करेभ्यश्च रक्षणात । तत्पनीहि ममाऽऽवासं स्तोकं यत क्रियते त्वयि ५८४॥ एवमुक्त्वा सार्थवाहो नीत्वा पटगृहे निजे । भैमी विश्रामयामासाऽऽराधयन् देवतामिव ॥५८५।। पावर्षानाटकनान्द्याभां गर्जामच्चैर्विपञ्चयन । अखण्डधारां विदधे वष्टि धाराधरस्तदा ॥५८६।। स्थाने स्थाने परीवाहै: प्रवहद्भिनिरन्तरैः। ससारणीकमुद्यानमिवाऽभूदभितोऽपि भूः ॥ ५८७।। अखातसरसां वारिपूर्णानां दर्दुरारवैः । नद्यद्द१रकातोद्यमयीवोपान्तभूरभूत् ॥५८८॥ बभूव सर्वतोऽरण्ये वाराहीदोहदप्रदः । पङ्कः पादेषु पान्थानां मोचकप्रक्रियाकरः ॥५८९।। त्रिरात्रमनवच्छिन्ना वृष्टिरासीत् तदोत्कटा । भैमी त्वस्थात् सुखं तत्र प्राप्तेव पितृवेश्मनि ॥५९०॥
वर्ष वर्षं स्थिते मेघे दवदन्ती महासती । सार्थं हित्वा पुनरपि प्राग्वदेकाकिनी ययौ ॥५९१।। पनलप्रवासदिवसादपि भीमसुता सती । चतुर्थादितपोलीनाऽत्यगान्मार्ग शनैः शनैः ॥५९२।। उत्पिङ्गलकचं शैलमिव दीप्तदवानलम् । जिह्वाज्वालाकरालास्यं द्विजिह्वमिव दारुणम् ॥५९३।।
कतिकादारुणकरं तालदघ्नं कृशक्रमम् । अमावास्यातमःश्यामं घटितं कज्जलैरिव ॥५९४।। १. दूरे ला० २. निर्यन्-निर्गच्छन् यो निर्यासः रस: 'गुंद', तेनाऽऽर्दा सल्लकी (वृक्ष) इव सा । ३. मिवापरम् मु०र० । ४. उपद्रवम् । ५. ऽबिभ्यन् खं० २, ला० । ६. चौराः अरे ! ला० । ७. ०रान् स्फाराहंकार० खं.२ । ८. ०दारुणान् मु० र० विना । ९. काकाः । १०. अस्मान् रक्षति चौरेभ्यः इति ला० ला० २ । ११. साश्रु मु० र० । १२. त्वया चाद्योपकृताः स्म० खं० १ । ०क्रीतोऽस्मि ला० । १३. मास राध० मु० । १४. ०धारं खं० १, ला० सू० । १५. जलोच्छासैः, 'अधिकजलनिर्गमनमार्गः । १६. ससारणिक० मु० र० । १७. वराही० मु० विना । १८. पादत्राणपरिधायकः । १९. ०त्यागा० ला० । ०भ्यगा० ता०सं०पु० खं० २ । २०. तालवृक्षप्रमाणम्। तालदनकृश० खं० १-२, मु० २० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org