Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 144
________________ अष्टमः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । ११७ पाण्डवान् कुरुदेशाय स्वस्वस्थानाय चाऽपरान् । भूचरान् खेचरांश्चाऽथ विससर्ज जनार्दनः ॥३४॥ दशाह दश दोष्मन्तः समुद्रविजयादयः । पञ्चसङ्ख्या महावीरा बलदेवादयस्तथा ॥३५।। राजान उग्रसेनाद्याः सहस्राणि च षोडश । प्रद्युम्नादिकुमाराणां साधु कोटित्रयं तथा ॥३६।। शाम्बादीनां दुर्दान्तानां सहस्राः षष्टिरेव च । वीरसेनादयो वीरा सहस्राण्येकविंशतिः ॥३७।। तथैव च महासेनप्रभृतीनां महौजसाम् । महतां तलवर्गाणां षट्पञ्चाशत्सहस्यपि ॥३८॥ अन्येऽपीभ्यश्रेष्ठि-सार्थपतिमुख्याः सहस्रशः । कृष्णं सिषेविरे मूनि रचिताञ्जलिसम्पुटाः ॥३९॥ भूपाः षोडश सहस्त्राः वासुदेवाय भक्तितः । रत्नानि ढोकयामासुढे द्वे च वरकन्यके ॥४०॥ ताभ्यः षोडश सहस्राः कन्याः कृष्ण उपायत । अष्टौ सहस्राणि बलोऽन्ये कुमाराश्च तावतीः ॥४१॥ कृष्णो रामः कुमाराश्च क्रीडोद्यान-नगादिषु । स्वच्छन्दं रेमिरे रम्यरमणीभिः समावृताः ॥४२॥ पातथा तान् क्रीडतः प्रेक्ष्य समुद्रविजयो नृपः । शिवादेवी चाऽभिदधे नेमि प्रेमाक्तया गिरा ॥४३॥ तात ! त्वां पश्यतां नेत्रोत्सवोऽस्माकं सदैव हि । अनुरूपवधूपाणिग्रहणेनाऽधिकोऽस्तु सः ॥४४॥ जन्मतोऽपि भवोद्विग्नो ज्ञानत्रयधरः प्रभुः । ऊचे नेमिर्नाऽनुरूपाः क्वाऽपि पश्यामि योषितः ॥४५।। भवन्त्येता हि पाताय दुःखेऽमूभिः कृतं हि नः । सम्पत्स्यन्तेऽनुरूपास्तु यदोद्वक्ष्यामि तास्तदा ॥४६॥ एवं गम्भीरया वाचा प्रकृत्या पितरावृजू । नेमिनिवारयामास विवाहोपक्रमाग्रहात् ॥४७॥ पाइतोऽपि च यशोमत्या जीवश्च्युत्वाऽपराजितात् । उग्रसेनस्य भार्याया धारिण्या उदरेऽभवत् ॥४८॥ धारिण्याः समये जज्ञे नाम्ना राजीमती सुता । अद्वैतरूपलावण्या क्रमेण ववृधे च सा ॥४९।। पाइतश्च द्वारकावासी धनसेनो ददौ सुताम् । नभःसेनाय कमलामेलाख्यामौग्रसेनये ॥५०॥ नभःसेनस्य सदने चाऽऽययौ नारदो भ्रमन् । विवाहव्यग्रचित्तेन स तेन न हि पूजितः ॥५१॥ तस्याऽनर्थेच्छया सोऽगाद् रामसू-निषधात्मजम् । नामतः सागरचन्द्रं शाम्बादीनामतिप्रियम् ॥५२॥ तमभ्युत्थाय सोऽपृच्छद् देवर्षे ! भ्रमता त्वया । किमैक्षि किञ्चिदाश्चर्यं तदालोकप्रियो ह्यसि ॥५३॥ सोऽप्यूचे प्रेक्षिताऽत्रैवाऽऽश्चर्यभूता जगत्यपि । नामतः कमलामेला धनसेनस्य कन्यका ॥५४॥ नभःसेनाय सा दत्ताऽधुनैवेत्यभिधाय सः । उत्पत्याऽगमदन्यत्र तद्रेक्तः सागरस्त्वभूत् ॥५५॥ तामेव सागरो दध्यौ तन्नामैव जगाद च । तामेव सर्वतोऽपश्यत् पीतोन्मत्तः सुवर्णवत् ।।५६।। पाजगाम कमलामेलासदने नारदोऽप्यथ । तया च पृष्ट आश्चर्यमित्यभाषिष्ट कूटधीः ॥५७।। आश्चर्ये द्वे मया दृष्टे तत्रैकं रूपसम्पदा । कुमारः सागरचन्द्रो नभःसेनः कुरूपतः ।।५८॥ सद्यो मुक्त्वा नभःसेनमरज्यत् सागरेऽथ सा । तद्रागं नारदो गत्वा सागराय शशंस च ॥५९।। सागरं प्रेक्ष्य पतितं तस्या विरहसागरे । माताऽपरे कुमाराः भृशम् ॥६०॥ तदा तत्राऽऽययौ शाम्बस्तथावस्थस्य पृष्ठतः । स्थित्वा सागरचन्द्रस्य पाणिभ्यां पिदधे दृशौ ॥६१॥ सागरः स्माऽऽह कमलामेला किमसि नन्विह? । एषोऽहं कैमलामेल' इति शाम्बोऽप्यभाषत ॥६२।। बभाषे नैषधिस्तर्हि त्वमेव कमलां मम । मेलयिष्यसि पर्याप्तमन्योपायविचिन्तया ॥६३॥ अप्रतीच्छंस्तद्वचनं शाम्बः सर्वैः कुमारकैः । पाययित्वा भूरिमा छलयित्वा च मानितः ॥६४॥ पाशाम्बो गतमदावस्थोऽचिन्तयत् किं मया ननु । दुष्करं प्रत्यपादीदं निर्वाह्य तत् तथापि हि ॥६५॥ ततश्च स्मृत्वा प्रज्ञप्ति कुमारैरपरैः समम् । नभःसेनोद्वाहदिने शाम्ब उद्यानमभ्यगात् ॥६६।। गृहाच्च कमलामेलां तत्राऽऽनाय्य सुरङ्गया । रक्तां सागरचन्द्रेण विधिवत् पर्यणायत ॥६७।। गृहे च तामपश्यन्तो मार्गयन्त इतस्ततः । पितृ-श्वसुरवर्गीयास्तदुद्यानं समाययुः ॥६८॥ १. बलवर्गाणाम् की. ला०, तलारक्षकाणाम् । २. धनाढ्यः । ३. प्रवरकन्यके खं० २ । ४. परावृताः ता०सं० खं० २ । ५. प्रेमयुक्तया। ६. नः खं० २ । ७. धारण्या खं० १, सू० । ८. धारण्यां खं० १, सू० । ९. ववृधेतराम् खं०२।१०. द्वारिका खं० २, ला० । ११. उग्रसेनपुत्राय । १२. कमलामेलाया रागवान् । १३. कमलां मेलयति इति तथा । १४. सागरचन्द्रः । १५. अनङ्गीकुर्वन् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282