________________
अष्टमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
११७
पाण्डवान् कुरुदेशाय स्वस्वस्थानाय चाऽपरान् । भूचरान् खेचरांश्चाऽथ विससर्ज जनार्दनः ॥३४॥ दशाह दश दोष्मन्तः समुद्रविजयादयः । पञ्चसङ्ख्या महावीरा बलदेवादयस्तथा ॥३५।। राजान उग्रसेनाद्याः सहस्राणि च षोडश । प्रद्युम्नादिकुमाराणां साधु कोटित्रयं तथा ॥३६।। शाम्बादीनां दुर्दान्तानां सहस्राः षष्टिरेव च । वीरसेनादयो वीरा सहस्राण्येकविंशतिः ॥३७।। तथैव च महासेनप्रभृतीनां महौजसाम् । महतां तलवर्गाणां षट्पञ्चाशत्सहस्यपि ॥३८॥ अन्येऽपीभ्यश्रेष्ठि-सार्थपतिमुख्याः सहस्रशः । कृष्णं सिषेविरे मूनि रचिताञ्जलिसम्पुटाः ॥३९॥ भूपाः षोडश सहस्त्राः वासुदेवाय भक्तितः । रत्नानि ढोकयामासुढे द्वे च वरकन्यके ॥४०॥ ताभ्यः षोडश सहस्राः कन्याः कृष्ण उपायत । अष्टौ सहस्राणि बलोऽन्ये कुमाराश्च तावतीः ॥४१॥ कृष्णो रामः कुमाराश्च क्रीडोद्यान-नगादिषु । स्वच्छन्दं रेमिरे रम्यरमणीभिः समावृताः ॥४२॥ पातथा तान् क्रीडतः प्रेक्ष्य समुद्रविजयो नृपः । शिवादेवी चाऽभिदधे नेमि प्रेमाक्तया गिरा ॥४३॥ तात ! त्वां पश्यतां नेत्रोत्सवोऽस्माकं सदैव हि । अनुरूपवधूपाणिग्रहणेनाऽधिकोऽस्तु सः ॥४४॥ जन्मतोऽपि भवोद्विग्नो ज्ञानत्रयधरः प्रभुः । ऊचे नेमिर्नाऽनुरूपाः क्वाऽपि पश्यामि योषितः ॥४५।। भवन्त्येता हि पाताय दुःखेऽमूभिः कृतं हि नः । सम्पत्स्यन्तेऽनुरूपास्तु यदोद्वक्ष्यामि तास्तदा ॥४६॥ एवं गम्भीरया वाचा प्रकृत्या पितरावृजू । नेमिनिवारयामास विवाहोपक्रमाग्रहात् ॥४७॥ पाइतोऽपि च यशोमत्या जीवश्च्युत्वाऽपराजितात् । उग्रसेनस्य भार्याया धारिण्या उदरेऽभवत् ॥४८॥
धारिण्याः समये जज्ञे नाम्ना राजीमती सुता । अद्वैतरूपलावण्या क्रमेण ववृधे च सा ॥४९।। पाइतश्च द्वारकावासी धनसेनो ददौ सुताम् । नभःसेनाय कमलामेलाख्यामौग्रसेनये ॥५०॥ नभःसेनस्य सदने चाऽऽययौ नारदो भ्रमन् । विवाहव्यग्रचित्तेन स तेन न हि पूजितः ॥५१॥ तस्याऽनर्थेच्छया सोऽगाद् रामसू-निषधात्मजम् । नामतः सागरचन्द्रं शाम्बादीनामतिप्रियम् ॥५२॥ तमभ्युत्थाय सोऽपृच्छद् देवर्षे ! भ्रमता त्वया । किमैक्षि किञ्चिदाश्चर्यं तदालोकप्रियो ह्यसि ॥५३॥ सोऽप्यूचे प्रेक्षिताऽत्रैवाऽऽश्चर्यभूता जगत्यपि । नामतः कमलामेला धनसेनस्य कन्यका ॥५४॥ नभःसेनाय सा दत्ताऽधुनैवेत्यभिधाय सः । उत्पत्याऽगमदन्यत्र तद्रेक्तः सागरस्त्वभूत् ॥५५॥ तामेव सागरो दध्यौ तन्नामैव जगाद च । तामेव सर्वतोऽपश्यत् पीतोन्मत्तः सुवर्णवत् ।।५६।। पाजगाम कमलामेलासदने नारदोऽप्यथ । तया च पृष्ट आश्चर्यमित्यभाषिष्ट कूटधीः ॥५७।।
आश्चर्ये द्वे मया दृष्टे तत्रैकं रूपसम्पदा । कुमारः सागरचन्द्रो नभःसेनः कुरूपतः ।।५८॥ सद्यो मुक्त्वा नभःसेनमरज्यत् सागरेऽथ सा । तद्रागं नारदो गत्वा सागराय शशंस च ॥५९।। सागरं प्रेक्ष्य पतितं तस्या विरहसागरे । माताऽपरे कुमाराः
भृशम् ॥६०॥ तदा तत्राऽऽययौ शाम्बस्तथावस्थस्य पृष्ठतः । स्थित्वा सागरचन्द्रस्य पाणिभ्यां पिदधे दृशौ ॥६१॥ सागरः स्माऽऽह कमलामेला किमसि नन्विह? । एषोऽहं कैमलामेल' इति शाम्बोऽप्यभाषत ॥६२।। बभाषे नैषधिस्तर्हि त्वमेव कमलां मम । मेलयिष्यसि पर्याप्तमन्योपायविचिन्तया ॥६३॥
अप्रतीच्छंस्तद्वचनं शाम्बः सर्वैः कुमारकैः । पाययित्वा भूरिमा छलयित्वा च मानितः ॥६४॥ पाशाम्बो गतमदावस्थोऽचिन्तयत् किं मया ननु । दुष्करं प्रत्यपादीदं निर्वाह्य तत् तथापि हि ॥६५॥ ततश्च स्मृत्वा प्रज्ञप्ति कुमारैरपरैः समम् । नभःसेनोद्वाहदिने शाम्ब उद्यानमभ्यगात् ॥६६।। गृहाच्च कमलामेलां तत्राऽऽनाय्य सुरङ्गया । रक्तां सागरचन्द्रेण विधिवत् पर्यणायत ॥६७।।
गृहे च तामपश्यन्तो मार्गयन्त इतस्ततः । पितृ-श्वसुरवर्गीयास्तदुद्यानं समाययुः ॥६८॥ १. बलवर्गाणाम् की. ला०, तलारक्षकाणाम् । २. धनाढ्यः । ३. प्रवरकन्यके खं० २ । ४. परावृताः ता०सं० खं० २ । ५. प्रेमयुक्तया। ६. नः खं० २ । ७. धारण्या खं० १, सू० । ८. धारण्यां खं० १, सू० । ९. ववृधेतराम् खं०२।१०. द्वारिका खं० २, ला० । ११. उग्रसेनपुत्राय । १२. कमलामेलाया रागवान् । १३. कमलां मेलयति इति तथा । १४. सागरचन्द्रः । १५. अनङ्गीकुर्वन् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org