________________
११८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व
कृतखेचररूपाणां यदूनां मध्यवर्तिनीम् । आलोक्य कमलामेलां विष्णवे ते व्यजिज्ञपन् ॥६९।। क्रुद्धः कृष्णोऽपि कमलामेलाहर्तृनुपेत्य तान् । अयोधयद्धन्तुकामो दुर्नयासहनो हि सः ॥७०॥ कत्वा स्वरूपं शाम्बोऽपि कमलामेलया यतम् । गृहीत्वा सागरचन्द्रं न्यपतत् कृष्णपादयोः ॥७१।। ऊचे विलक्षः कृष्णोऽपि किमिदं रे ! त्वया कृतम् ? । आश्रितोऽयं नभ:सेनो यदेवं हन्त वञ्चितः ॥७२।। अस्य किं कियतेऽद्येति नभःसेनमबोधयत् । ददौ च कमलामेला सागरायैव केशवः ॥७३॥ अपकर्ता नभःसेनोऽप्यक्षमस्तत्प्रभुत्यपि । छिद्रं सागरचन्द्रस्य मार्गयामास सर्वदा ।।७४|| पाइतश्च पत्न्यां वैदर्थ्यां प्रद्युम्नस्य सुतोऽभवत् । अनिरुद्धोऽभिधानेन यौवनं प्रत्यपादि च ॥७५॥ तदा शुभनिवासाख्ये पुरेऽभूत् खेचरेश्वरः । बाणो नामोल्बणबलस्तस्य चोषेति कन्यका ॥७६।। सा च रूपवती स्वानुरूपवल्लभलिप्सया । विद्यामाराधयद् गौरी निश्चयेन गरीयसा ॥७७।। सा तुष्टा तामभाषिष्ट पौत्रः कृष्णस्य शाङ्गिणः । भविष्यत्यनिरुद्धस्ते वरः सुरवरोपमः ॥७८।। आराधितश्च बाणेन गौरीविद्याप्रियः सुरः । शङ्कराख्यो ददावस्याऽजय्यत्वं समराङ्गणे ॥७९।। गौरी तमूचे सर्वत्राऽजय्यत्वं यद् ददौ वरम् । तन्न युक्तं मया दत्तो ह्यस्त्युषाया वरों ननु ॥८०॥ शङ्करोऽप्यवदद् बाणं त्वमजय्यो भविष्यति । स्त्रीकार्यादन्यत इति बाणस्तेनाऽपि पिप्रिये ॥८१।। उषा रूपवतीत्वेन खैचरैर्भूचरेश्च सा । कैः कैर्ययाचे नो बाणान्न ददौ स त्वरोचकी ॥८२॥ पाविद्याधरी चित्रलेखां प्रेष्योषाऽप्यनुरागिणी । आनाययदनिरुद्धं मनसीव निजे गृहे ॥८३॥ तां गान्धर्वविवाहेनोदुह्याऽऽदाय च सोऽचलत् । उषां हृत्वाऽनिरुद्धोऽहं गच्छामीति जगाद च ॥८४॥ ततः क्रुद्धः खेचरेन्द्रो बाणो बाणासनी बलैः । व्याधः श्वभिरिव कोडमनिरुद्धं निरुद्धवान् ॥८५।। पत्युर्विद्यां तदानीं च पाठसिद्धामुषा ददौ । बृंहितौजास्तया सोऽपि बाणेन युयुधे चिरम् ॥८६।। नागपाशैः कमलवद् बद्धः प्रद्युम्ननन्दनः । बाणेनाऽथ तदाख्यायि प्रज्ञप्त्या शाङ्गपाणये ॥८७॥ तत्राऽऽययौ हरिः सीरि-शाम्ब-प्रद्युम्नसंयुतः । दुद्रुवुस्तेऽहिपाशीस्तु गरुडध्वजदर्शनात् ॥८८॥ बाणोऽपि शडरवरेणाऽऽत्मस्थाम्ना११ च गर्वितः । उचे कृष्णं मदोन्मत्तः किं त्वं वेत्सि न मद्बलम् ?||८९।। सदाऽन्यकन्याहरणं त्वमकार्षीस्ततश्च ते । पुत्रादीनां क्रमायातं तत्फलं दर्शयामि वः ॥९॥ ऊचे कृष्णोऽपि केयं ते वाचोयुक्तिर्दुराशय !? । कन्या ह्यवश्यं दातव्या दोषस्तद्वरणेऽस्तु कः? ॥९१॥ श्रुत्वेति खेचरवृतो भृकुटीभीषणाननः । कृष्टबाणासनो बाणो बाणांश्चिक्षेप शाङ्गिणे ॥९२॥ तानन्तराऽपि चिच्छेद छेदच्छेको जनार्दनः । शराशरि तयोरेवं वीरयोर्ववृते चिरम् ॥९३।। निरस्त्रीकृत्य तं कृष्णः कृष्णाहिमिव पक्षिराट् । निकृत्य खण्डशोऽनैषीत् प्रेतराजस्य सद्मनि ॥९४|| अनिरुद्धमुषासमन्वितं समुपादाय जनार्दनस्तत: । 'मुदितःस्मर-सीरि-शाम्बयुग नगरी द्वारवतीं पुनर्ययौ ॥९५||
॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते
महाकाव्ये अष्टमें पर्वणि सागरचन्द्रोपाख्यान-उषाहरणबाणवधवर्णनो नाम अष्टमः सर्गः ।।
-x
१. आयोध० सं० १. ला० सू० । २. अपहर्तुम् लं. १. ला० सू० ला० पु० ला०२ । ३. उत्कटबलः । ४. सर्वत्राजेयत्वं खं० २ । ५. वरः स नु खं० २ । ६. त्वजजेयो खं० र । ७. धनुर्धरः । ८. वराहम् । ९. तुत्रुटुस्ते पु० । १०. नागपाशाः । ११. आत्मबलेन । १२. च खं० १.२ । १३. हृष्टः प्रद्युम्नसीरि० मु.; रामप्रद्युम्नसीरि० खं० १ । १४. ०ऽष्टमपर्वणि मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org