________________
॥ नवमः सर्गः ॥ इतश्च क्रीडया नेमिः कुमारैः सह पर्यटन् । विवेश वासुदेवस्याऽऽयुधर्शालामशङ्कितम् ॥१॥ तत्र चक्रमतिभास्वद् भास्वद्विम्बमिवोच्चकैः । शार्ङ्ग-कौमोदकी-खड्गान् भोंगिराड्भोगभीषणान् ॥२॥ पाञ्चजन्यं जन्यनाट्यनान्दीतूर्यं महत्तरम् । विष्णोर्यश:कोशमिव कुमारः समुदैवत ॥३॥ युग्मम् ॥ कौतुकाच्छङ्खमादित्सुं विज्ञायाऽरिष्टनेमिनम् । प्रणम्याऽस्त्रगृहारक्षश्चारुकृष्णोऽब्रवीदिति ॥४॥ यद्यप्यसि हरेर्धाता दोष्मानसि तथाऽपि हि । नाऽऽदातुमपि शक्नोषि शङ्ख पूरयितुं कुतः ? ॥५॥ इमं हि शङ्खमादातुमाध्मातुं च विना हरिम् । न क्षमः कोऽपि मा कार्षीस्तत्प्रयासं मुधैव हि ॥६॥ स्मित्वाऽथ नेमिस्तं शङ्खमुद्दधे लीलयाऽपि हि । दध्मौ चाऽधरविश्रान्तदन्तज्योत्स्नाविडम्बकम् ॥७॥ द्वारकावप्रसंमूर्छदुद्वेलजलधिध्वनेः । सब्रह्मचारी तद्ध्वानः पूरयामास रोदसी ॥८॥ प्राकारः शैलशृङ्गाणि प्रासादाश्च चकम्पिरे । चुक्षुभुः सीरभृच्छाँी दशार्हा अपरेऽपि च ॥९॥ स्तम्भानुन्मूल्य करिणस्नेसुस्त्रोटितशृङ्खलाः । पलायाञ्चक्रिरे चाऽश्वा निरस्तमुखबन्धनाः ॥१०॥ तद्धवनेर्वजनिर्घोषादिवाऽमूर्च्छन् पुरीजनाः । अस्त्रागारारक्षकाश्च निपत्याऽस्थुम॒ता इव ॥११॥ इति दध्यौ च गोविन्दः शङ्गः केनेष वादितः ? | किं चक्री कश्चिदुत्पन्नो ? वंजी वा भुवमागतः ? ॥१२॥ मयाऽपि वादिते शङ्के क्षोभः सामान्यभूभुजाम् । अनेन शङ्के त्वाध्माते मम रामस्य चाऽभवत् ।।१३।। पाइति कृष्णं चिन्तयन्तमस्त्रारक्षा व्यजिज्ञपन् । लीलया पाञ्चजन्योऽद्य पूरितोऽरिष्टनेमिना ॥१४॥ तच्छ्रुत्वा विस्मयापन्नोऽश्रद्दधानश्च चेतसि । यावत् तस्थौ हरिस्तावत् तत्रोपेयाय नेम्यपि ॥१५॥ कृष्णः कृतावहित्थोऽथ नेमिनाथं ससम्भ्रमः । उपवेश्याऽऽसनेऽनये" सगौरवमभाषत ॥१६।। पाञ्चजन्योऽऽधुना भ्रात: ! किमयं पूरितस्त्वया? । तन्नादेन मही सर्वा क्षुभिताऽद्याऽपि वर्तते ॥१७॥ आमेति नेमिनाऽप्युक्ते तद्दोर्बलमपि स्वयम् । परीक्षितुमनाः कृष्णस्तं सगौरवमब्रवीत् ॥१८॥ पाञ्चजन्यं पूरयितुं मदृते नाऽपरः क्षमः । भवता पूरिते त्वस्मिन् भ्रातः ! प्रीतोऽस्मि सम्प्रति ॥१९॥ मां विशेषात् प्रीणयितुं स्वदो:स्थामाऽपि दर्शय । युध्यस्व बाहुयुद्धेन मयैव सह मानद ! ॥२०॥ एवमस्त्विति तेनोक्ते कुमारपरिवारितौ । अस्त्रागारं जग्मतुस्तौ भ्रातरौ वीरकुञ्जरौ ॥२१॥ पप्रकृत्या सदयो नेमिर्दध्याविति ममोरसी । दोष्णा पादेन वाऽऽक्रान्तः कथं कृष्णो भविष्यति ? ॥२२॥
यथाऽसौ याति नाऽनर्थ मद्धजस्थाम वेत्ति च । तथा कार्यमिति ध्यात्वा जनार्दनमभाषत ॥२३॥ प्राकृतानामिदं युद्धं मुहुर्भूलुठनाकुलम् । मिथो दो मनेनैव तद्भूयाद्युद्धमावयोः ॥२४॥ तत्प्रपद्य वचो विष्णुः शाक्षिशाखामिवाऽऽयताम् । दधे भुजां तां च नेमि लनाममनामयत् ॥२५।। तथैव नेमिनाथोऽपि दधे वामभुजं निजम् । तत्र सर्वोजसा विष्णुर्ललम्बे द्रौ" कपिर्यथा ॥२६।। दोःस्तम्भो विष्णुना नेमे ऽनाम्यत मनागपि । वनस्तम्बेरमेणेव दन्तभूमिर्महागिरेः ॥२७॥ मुक्त्वा नेमिभुजस्तम्भं निढुवानो विलक्षैताम् । नेमिनाथं समालिङ्गन्नित्यवोचत शार्गभृत् ॥२८॥ यथा ममौजसा रामो मन्यते तृणवज्जगत् । तथा मन्ये तृणायाऽहं विश्वं भ्रातस्तवौजसा ।।२९।। इत्यक्त्वा व्यसजन्नेमि विष्णरूचे च २०सीरिणम । दष्टं भ्रातस्त्वया भ्रातर्वीयं त्रिभवनोत्तरम ॥३०॥ यथाऽर्धचकी दोण्यस्याऽभवं पक्षीव पादपे । मन्ये तथौजसाऽमुष्य चक्री वज्री च नो समः ॥३१॥ १. ०शालामशङ्कित: मु० । २. तच्चक्रमतिभास्वच्च ला०की० ।। ३. सूर्यबिम्बवत् । ४. शेषनागवपुर्वद् भयङ्करान् । ५. जन्यं युद्धं तदेव नाट्यं तस्य नान्द्यां तूर्यं वाजिबसमानम् । ६. प्राकारशैल० खं० २, ला० विना । ७. ०च्छाद्भिर्दशार्हा मु० र० । ८. इन्द्रः। ९. कृत: अवहित्थः आकारगोपनं येन सः । १०. ०ऽनघे खं०१-२, सू० । ११. क्षोभिता० मु० र० । १२. नेम्युक्ते खं०१, ला० सू० । १३. वक्षःस्थलेन। १४. वृक्षशाखां इव दीर्घाम् । १५. नालं इव नमयित्वा इति नालनामम् । १६. वृक्षे । १७. वनगजेन। १८. गोपायन् । १९. विलक्ष्यताम् खं० २ । २०. शीरिणम् की०पु०ला०२, ला० । २१. दोष्णस्या० खं० १-२, ला० सू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org