Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 152
________________ १२५ नवमः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । कर्मच्छेदः परिव्रज्यां विना न खलु साध्यते । तामेवाऽहं तदादास्ये मा निर्बन्धं वृथा कृथाः ॥१९९।। समुद्रविजयोऽथोचे वत्स ! गर्भे श्वरो ह्यसि । सुकुमार शरीरश्च कथं कष्टं सहिष्यसे ? ॥२००॥ ग्रीष्मकालातपा घोराः सोढव्याः सन्तु दूरतः । विनाऽऽतपत्रमन्यर्तुतापा अपि सुदुःसहाः ।।२०१।। क्षुत्-पिपासादयः सोढुं शक्यन्ते नेतरैरपि । किं पुनर्भवता तात ! सुरभोगार्हवर्मणा ? ।।२०२।। पाअथाऽवदन्नेमिनाथः किमिदं दुःखमुच्यते । उत्तरोत्तरदुःखौघानारकान् जानतां नृणाम् ? ॥२०३।। आसाद्यते तपोदुःखैर्मोक्षोऽनन्तसुखात्मकः । विषयप्रभवैः सौख्यैर्नरकोऽनन्तदुःखदः ॥२०४।। स्वयं विमृश्य तद् ब्रूत किं कर्तुं युज्यते नृणाम् ? । सर्वोऽपि विमृशन् वेत्ति विमृशेद् विरल: पुनः ॥२०५।। तच्छ्रुत्वा पितरौ कृष्णोऽन्येऽपि रामादयोऽविदन् । प्रव्रज्यानिश्चयं नेमे रुरुदुश्चोच्चकैःस्वरम् ॥२०६।। स्वजनस्नेहनिगडांस्त्रोटयन्नेमिकुञ्जरः । सारथिप्रेरितरथो ययावथ निकेतनम् ॥२०७।। पाज्ञात्वा च समयं तत्राऽभ्येयुलॊकान्तिकामराः । नेमिं नत्वा च ते प्रोचुर्नाथ ! तीर्थं प्रवर्तय ॥२०८।। द्रविणैर्वासवादिष्ट-जुम्भकामरपूरितैः । प्रारेभे वार्षिकं दानं प्रदातुं भगवानपि ॥२०९।। पाव्यावृत्तं नेमिनं दृष्ट्वा श्रुत्वा च व्रतकाङ्क्षिणम् । राजीमत्यपतत् पृथ्व्यां वल्लीवाऽऽकृष्टपादपा ॥२१०।। तां सख्यः सिषिचुर्भीताः शीताम्भोभिः सुगन्धिभिः । अवीजयन् व्यजनैश्च कदलीदलनिर्मितैः ।।२११।। अवाप्तसंज्ञा चोत्थाय कपोललुलितालका । अश्रुधारातिम्यमानकञ्चुका विललाप सा ॥२१२।। नाऽऽसीन् मनोरथोऽप्येष यन्नेमिः स्याद् वरो मम । केनाऽस्यभ्यथितो दैव!? यन्नेमिमें वरः कृतः ॥२१३।। विपरीतं कुतोऽकार्षीरकाण्डे दण्डपातवत् ? । एकस्त्वमसि मायावी त्वं च विश्वासघातकः ॥२१४।। यद्वेदं प्रागपि ज्ञातं स्वभाग्यप्रत्ययान्मया । क्वाऽयं जगत्रयोत्कृष्टो वरो नेमिरहं क्व च ? ॥२१५॥ आत्मनोऽननुरूपाऽहं ज्ञाता नेमे ! त्वया यदि । तत्प्रपद्य विवाहं मे जनितः किं मनोरथः ? ॥२१६॥ जनयित्वा च किं भग्नः स्वामिन् ! मम मनोरथः ? । महतां प्रतिपन्नं हि यावज्जीवमपि स्थिरम् ॥२१७।। प्रतिपन्नाद् भवन्तोऽपि चलन्ति यदि तत्प्रभो! । मर्यादां लयिष्यन्ति निश्चितं जलराशयः ॥२१८।। यद्वा तवाऽपि नो दोषो दोषो मत्कर्मणामयम् । भवत्पाणिगृहीतीत्वं वचसैव यदासदम् ॥२१९।। चारु मातृगृहं दिव्यमण्डपो रत्नवेदिकाः । विवाहायाऽऽवयोरन्यदप्येतदभवन्मुधा ॥२२०॥ धवलैर्गीयते यत् तन्न सर्वं सत्यमीदशी । सत्योक्तिस्त्वं हि मे भर्ता गीतोऽस्यादौ न चाऽभवः ।।२२।। किं 'युग्मिनां विघटनमकार्षं पूर्वजन्मनि ? । पाणिस्पर्शसुखमपि यत् पत्यु ऽहमाप्नुवम् ॥२२२॥ विलपन्तीति सा जघ्ने हस्ताब्जाभ्यामुरःस्थलम् । हारं च त्रोटयमास स्फोटयामास कङ्कणे ॥२२३।। सख्यस्तामचिरेऽथैवं विषादं सखि ! मा कृथाः । कस्तेन तवं सम्बन्धः कार्यं वा तेन किं तव? ॥२२४।। निःस्नेहो नि:स्पृहो लोकव्यवहारपराङ्मुखः । गृहवासात् सदा भीरुर्वसतेर्वन्यजीववत् ॥२२५।। निर्दाक्षिण्यो निष्ठुरश्च स्वैरी वैरीव नन्वयम् । यातश्चेद्यातु तन्नेमिः साधु ज्ञातोऽधुनैव हि ।।२२६।। यासौ परिणीय त्वां भवेदेवं हि निर्ममः । कूपे प्रक्षिप्य ते वर्तिकर्तनं स्यात् तदा कृतम् ॥२२७।। अन्येऽपि यदुकुमारा भूयांसः सन्ति सद्गुणाः । प्रद्युम्न-शाम्बप्रमुखास्तेष्वस्तु रुचितो वरः ।।२२८॥ त्वं हि सङ्कल्पमात्रेण दत्ताऽभूः सुभ्र ! नेमये । कन्यैवाऽसि तदद्याऽपि मुग्धे ! तदपरिग्रहात् ॥२२९।। पाराजीमती सकोपोचे सख्यः ! किमिदमुच्यते । अस्मत्कुलकलङ्काय कुलटाकुलसन्निभम् ? ॥२३०॥ नेमिर्जगत्त्रयोत्कृष्टः कोऽन्यस्तत्सदृशो वरः? । सदृशो वाऽस्तु किं तेन? कन्यादानं सकृत् खलु ॥२३१।। मया वृतश्च मनसा वचसा च सह धेनाऽप्यस्मि प्रपन्ना तेन गेहिनी ।।२३२॥ १. गर्भश्रीमान् । २. सुकुमाल० खं० । ३. शरीरेण । ४. पश्चाद्वलितम् । ५. अश्रुधारया आर्द्र कञ्चुकं यस्याः सा १ । ६. एष त्वमसि ला० पा० की० । ७. यद्येवम् ला० मु० । ८. समुद्रः । ९. भवत: नेमे: पत्नीत्वम् । १०. मांह्यरुं इति भाषायाम् । ११. गीतोऽप्यादौ ला० । १२. युगलानाम् । १३. मानवम् मु० र० । १४. कङ्कणम् खं० २ । १५. ०रे सैवं मु० । १६. सह मु० पु० । १७. गृहे खं० २ । १८. योऽसौ प्राक् ला० । १९. रज्जुकर्तनम् । २०. वृष्णिभूः खं० १ । २१. गुरूपरोधिना० मु० र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282