Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 153
________________ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं पर्यणैषीन्न मां सोऽद्य चेत् त्रैलोक्यवरो वरः । भोगैरपि कृतं तर्हि प्रकृत्याऽनर्थहेतुभिः ॥ २३३ ॥ न स्पृष्टा पाणिना तेन यद्यप्युद्वाहकर्मणि । पाणिः स्प्रक्ष्यति तस्यैव व्रतदानकृतेऽपि माम् ॥२३४॥ इत्थं कृतप्रतिज्ञा सा प्रतिषिध्य सखीजनम् । कालं निनाय ध्यायन्ती नेमिमेवोग्रसेनजा ॥ २३५ ॥ इतश्च भगवान्नेमिर्ददौ दानं दिने दिने । रुरुदुश्च समुद्राद्या बाला इव सवेदनाः ॥ २३६ ॥ राजीमत्याः प्रतिज्ञां तां जनात् ज्ञानत्रयादपि । विदाञ्चकार भगवान्निर्ममोऽस्थात् तथापि हि ॥ २३७॥ ददौ च वार्षिकं दानं निर्निदानं जगद्गुरोः । दीक्षाभिषेकं चकुच शक्राद्या नाकिनायकाः ॥ २३८॥ नाम्नोत्तरकुरौ रत्नशिबिकायां शिवासुतः । आरुरोहोह्यमानायां सुरैर्नरवरैरपि ॥२३९॥ चामरे तत्र दधाते शक्रेशानौ पुरः प्रभोः । छत्रं सनत्कुमारस्तु माहेन्द्रः खड्गमुत्तमम् ॥२४०|| ब्रह्मेन्द्रो दर्पणं पूर्णकुम्भं लान्तकवासवः । स्वस्तिकं च महाशुक्रः सहस्त्रार : शरासनम् ॥ २४१॥ श्रीवत्सं प्राणताधीशो नन्द्यावर्तं तथाऽच्युतः । चमराद्यास्तु शेषेन्द्रा बभूवुः शस्त्रधारिणः || २४२ || पितृभिर्मातृभी राम-कृष्णाद्यैश्च समावृतः । प्रतस्थे भगवान् राजपथेनाऽथ महामनाः ॥२४३॥ स्वगृहाभ्यर्णमायातो राजीमत्येक्षितः प्रभुः । सद्यो नवीभूतशुच साऽमूर्छच्च मुहुर्मुहुः ॥२४४|| ततश्च प्रययौ नेमिरुज्जयन्ताद्रिभूषणम् । सहस्राम्रवणं नामोपवनं नन्दनोपमम् ॥२४५॥ आविष्कृतस्मितमिव प्रोन्मीलन्नवकेतकैः । गलितैर्जम्बुभिर्नीलबद्धोर्वीकमिवाऽभितः ॥ २४६ ॥ कदम्बपुष्पपर्यङ्कशयानोन्मत्तषट्पदम् । उद्बर्हबर्हिणाऽऽरब्धकेकाव्याकुलताण्डवम् ॥२४७॥ स्मरास्त्रागारसदृशस्फुटत्कुटजकाननम् । मालतीयूथिकामोदपर्यस्तपथिकम् ॥ २४८॥ प्रविश्योद्यानमुत्तीर्य शिबिकाया: शिवात्मजः । यन्मुमोचाऽऽभरणादि प्रादात्तद्धये हरिः ॥ २४९ ॥ चतुर्भिः कलापकम् । त्रिशत्यां जन्मतोऽब्दानामतीतायां शिवात्मजः । श्रावणस्य श्वेतषष्ठ्यां पूंर्वाहणे त्वष्ट्रविधौ ॥२५०॥ १२६ कृतषष्ठः कचोत्पाटं विदधे पञ्चमुष्टिकम् । केशान् शक्रः प्रतीयेष स्कन्धे दृष्यं न्यधाद् विभोः ॥ २५१॥ युग्मम् ॥ प्रक्षिप्य केशान् क्षीराब्धौ शक्रः पुनरुपेत्य च । न्यषेधत् तुमुलं सामायिकं च प्रभुराददे ॥२५२॥ मन:पर्ययसंज्ञं च जज्ञे ज्ञानं जगद्गुरोः । तदा सुखं समुत्पेदे नारकाणामपि क्षणम् ॥२५३॥ अनुनेमिकुमारं च सहस्रं प्राव्रजन्नृपाः । शक्रकृष्णादयो नेमिं नत्वा चाऽगुः स्वमाश्रमम् ॥२५४॥ [अर्थ गोष्ठे द्वितीयेऽह्नि वरदत्तद्विजौकसि । पारणं परमान्नेन चकार परमेश्वरः ॥२५५॥ वृष्टिं 'गन्धाम्बु-पुष्पाणां गम्भीरं दुन्दुभिध्वनिम्' । चेलोत्क्षेपं वसुधारां विदधुविबुधास्तदा ॥ २५६॥ ततो विहर्तुमन्यत्र घातिकर्मक्षयोद्यतः । नेमिनाथः प्रववृते निवृत्तः कर्मबन्धनात् ॥ २५७॥ |इतश्च नेमेरनुजो रथनेमिः स्मरातुरः । जज्ञे राजीमतीं पश्यन्निन्द्रियाणां वशंवदः ॥ २५८ ॥ सोऽपूर्वैर्वस्तुभी राजीमर्ती नित्यमुपाचरत् । तद्भावाविदुरा साऽपि मुग्धा न निषिषेध तम् ॥२५९॥ भ्रातृस्नेहादुपास्तेऽसौ नित्यं मामित्यमंस्त सा । ममोपचारं रागेण गृह्णात्येषेति सोऽपि हि ॥२६०|| ययौ च तुच्छधीर्नित्यं राजीमत्याः स वेश्मनि । भ्रातुर्जायापदेशेन तस्यां नर्म चकार च ॥ २६९ ॥ रह:स्थितामन्यदा तां रथनेमिरदोऽवदत् । मुग्धे ! परिणयामि त्वां यौवनं मा मुधा नय || २६२|| भोगानभिज्ञो मद्बन्धुस्त्यक्तवांस्त्वां मृगाक्षि ! यत् । स एव वञ्चितो भोगसुखानां किं गतं तव ? || २६३|| प्रार्थ्यमानोऽपि नाऽभूत् ते स वरो वरवर्णिनि ! । अहं प्रार्थयमानस्त्वामस्ति पश्याऽन्तरं महत् ॥२६४|| हेतुं पूर्वोपचाराणां तेन भावेन तस्य सा । तदानीमेव चाऽबोधि स्वभावसरलाशया ॥ २६५ ॥ बोधयामास सा तं च धर्मज्ञी धर्मशंसनात् । तस्मादध्यवसायात् तु न व्यरंसीत् स दुर्मतिः ॥ २६६ ॥ (अष्टमं पर्व १. त्रैलोक्यैकवरो० मु०र० । २. जगद्गुरुः खं० २ विना । ३. देवनायकाः । ४. धनुः शरावकं वा । ५. राज्य० खं० २ । ६. पुनरुद्भूतशोकेन । ७. कृष्णाय । ८. इन्द्रः । ९. प्रथमप्रहरे । १०. चित्रानक्षत्रे गते चन्द्रे । ११. निषेध्य ला० । १२. शक्रः कृष्णा० मु० २० । १३. अथागात् स द्वि० खं० १; अथाभ्यगात् द्वि० सू०; गोष्ठं गवां स्थानम् । १४ तद्भावमजानती । १५. सुखेभ्यः ला० । १६. वृष्णिसू० खं० २ । Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282