Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
१२० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(अष्टमं पर्व ईदृशेनौजसाऽसौ किं समग्रमपि भारतम् । न साधयति? किं तिष्ठत्येवमेवाऽनुजः स नौ ? ॥३२॥ ऊचे रामो यथा स्थाम्ना ज्ञायते चक्रितोऽधिकः । तथैव शान्तया मूर्त्या लक्ष्यते राज्यनिःस्पृहः ॥३३॥ पाइति रामोक्तेऽपि हरिं साशङ्कमनुजौजसा । प्रेक्ष्योचे देवता मा स्म ताम्यः शृणु जिनोदितम् ॥३४॥
"पुरा नमिजिनेनोक्तं नेमिरहन् भविष्यति । कुमार एव सन्नेष नाऽर्थो राज्यश्रियाऽस्य तत् ॥३५।। प्रतीक्षमाणः समयं जन्मतो ब्रह्मचार्ययम् । आदास्यते परिव्रज्यां माऽन्यथा कृष्ण ! चिन्तय" ॥३६।। पाइति देवतयाऽप्युक्तः प्रीतो रामं विसृष्टवान् । जगामाऽन्तःपुरं कृष्णो नेमिं चाऽजूहवत् तदा ॥३७।। रत्नस्नानासनासीनौ तत्रोभौ शाङ्गि-नेमिनौ । वारस्त्रीलोठ्यमानाम्भःकुम्भा सपदि सस्त्रतुः ॥३८॥ उन्मृष्टाङ्गौ देवदूष्यैर्विलिप्तौ दिव्यचन्दनैः । तत्रेव विदधाते च भोजनं हरि-नेमिनौ ॥३९।। अथोचे सौविदान् कृष्णो भ्राता नेमिरसौ मम । स्वस्मादप्यधिकस्तेन न स्खल्योऽन्तःपुरे क्वचित् ॥४०॥ समस्तानामपि भ्रातूर्जायोनां मध्यवर्त्यसौ । रमतां नेमिकमारो न दोषो वोऽस्ति कश्चन ॥४॥ पत्नीश्चोवाच भामाद्याः प्राणभूतो मम ह्ययम् । नेमिर्वो देवरो मान्यः क्रीडनीयोऽपशङ्कितम् ॥४२॥ इत्युक्ते शाङ्गिणा तत्राऽन्तःपुरे ताभिरर्चितः । निर्विकारो विजहार नेमिर्भोगपराङ्मुखः ॥४३॥
आत्मनो निर्विशेषेण सहैवाऽरिष्टनेमिना । हरिः सान्तःपुरः प्रीतो रेमे क्रीडाचलादिषु ॥४४॥ पकृष्णोऽन्यदा वसन्तौ पौरेः सर्वैश्च वृष्णिभिः । सान्तःपुरो रैवतकोद्याने नेमियुतो ययौ ॥४५॥ चिक्रीडुर्विविधं तत्र कुमारा नागरा अपि । उद्याने नन्दन इव सुराऽसुरकुमारकाः ॥४६॥ बकुलस्य तले केऽपि बकुलामोदशालिनीम् । मदिरां स्मरजीवातुं पपुरापानभूमिषु ॥४७।। कोऽप्युपावीणयन् कोऽपि वसन्तेनोच्चकैर्जगुः । ननृतुः केऽपि च क्षीवाः सस्त्रियः किन्नरा इव ॥४८॥ चम्पकाऽशोकबकुलादिषु केऽप्यवचिच्यिरे । पुष्पाणि सप्रियाः पुष्पाहरविद्याधरा इव ॥४९।। स्वयं ग्रथित्वा कुसुमाभरणानि मृगीदृशाम् । अङ्गेषु निदधुः केऽपि विदग्धा मालिको इव ॥५०॥ नव्यपल्लवतल्पेषु लतावेश्मसु केऽपि च । कान्दर्पिका इव सुरा रेमिरे रमणीजनैः ॥५१॥ केऽपि गाढरतश्रान्ता लुलन्तः सारणीतटे । भोगिनो भोगिर्न इव पपुमलयमारुतम् ॥५२॥ कैचित् कङ्केल्लिशाखावलम्बिदोलासु साङ्गनाः । अन्दोलनेन चिक्रीडू रतिस्मरविडम्बिनः ॥५३॥ प्रियायाः पादघातेन केचित् कङ्केल्लिपादपान् । मद्यगण्डूषदानेन केचिच्च बकुलदुमान् ॥५४॥ सरागदृष्टिदानेन केचित् तिलकशाखिनः । गाढालिङ्गनदानेनाऽपरे कुरुबकद्रुमान् ॥५५॥
अप्यन्यैर्दोहदैर्वृक्षानपरानपि कामिनः । विशेषपुष्पितीचक्रुः स्थिताः पुष्पेषुशासने" ॥५६॥ त्रिभिर्विशेषकम् ॥ पकृष्णोऽपि नेमिना सार्धं भामादिस्त्रीभिरावृतः । क्रीडन्नितस्ततोऽभ्राम्यद् वने वन्य इव द्विपः ।।५७॥ पश्यन्नेमि हरिर्दध्यौ नेमेर्भोगेषु चेन्मनः । भवेत् तदा कृतार्था श्रीः सौभ्रात्रं च तदैव मे ॥५८॥ आलम्बनोद्दीपनैस्तद्विभावैरेसकृन्मया । एषोऽनुकूल्य: पूर्येत यद्येवं मे मनोरथः ॥५९।। एवं विचिन्त्य गोविन्दो ग्रथित्वा च स्वयं स्रजम् । नेमेः कण्ठे निचिक्षेप मुक्ताहारमिवाऽपरम् ॥६०॥ विदग्धा सत्यभामाद्या अपि भावविदो हरेः । कुसुमाभरणैश्चित्रैः श्रीनेमिमुपतस्थिरे ॥६१॥ पीनोन्नतकुचाग्राभ्यां स्पृशन्ती काऽपि पृष्ठतः । नेमेबंबन्ध धम्मिल्लं बन्धुरैः पुष्पदामभिः ॥६२॥ उदस्तदोर्लता प्रादुर्दोर्मूला काऽपि नेमिनः । "शिरस्युत्तंसमग्रस्था विदधे हरिवल्लभा ॥६३।। विधृत्य पाणिना कर्णे काऽपि कर्णावतंसकम् । नेमिनो रचयामास स्मरस्येव जयध्वजम् ॥६४॥ १. ताम्य खं०२, ला० । २. प्रतीक्ष्यमाण: खं० २, । ३. चिन्तया खं०१। ४. रत्नस्थाना० खं० २ । रत्नसिंहा० मु० । ५. पत्नीनाम् । ६. यदुभिः । ७.४५-४६श्लोकौ खं० २, प्रतौ न । ८. मद्यपानस्थानेषु । ९. वसन्तेन रागविशेषेण । १०. मत्ताः । ११. मालाकारिकाः भाषायां मालण इति । १२. नीककण्ठे। १३. विलासिनः । १४. सर्पाः । १५. मलयाचलपवनम् । १६. केऽपि मु० । १७. कंकिल्लि० मु० । किकिल्लि० ला० । १८. आन्दो० मु० । १९. किकिल्लि० ला० कंकिल्लि० मु० । २०. किंचित् मु० । २१. कामदेवशासने । २२. सुभ्रातृत्वं । २३. ५८ श्लोकः खं० २, प्रतौ न । २४. 'रत्याधुबोधको लोके विभावः काव्यनाट्ययोः । आलम्बनोद्दीपनाख्यौ तस्य भेदाविमौ स्मृतौ' (साहित्यदर्पणे)। २५. बाहुदौ० खं० २, प्रादुर्भूतं दोर्मूलं यस्याः सा । २६. शिरोभूषणम्। २७. ध्वजाम् ला० र० मु० ।
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282