Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 145
________________ ११८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (अष्टमं पर्व कृतखेचररूपाणां यदूनां मध्यवर्तिनीम् । आलोक्य कमलामेलां विष्णवे ते व्यजिज्ञपन् ॥६९।। क्रुद्धः कृष्णोऽपि कमलामेलाहर्तृनुपेत्य तान् । अयोधयद्धन्तुकामो दुर्नयासहनो हि सः ॥७०॥ कत्वा स्वरूपं शाम्बोऽपि कमलामेलया यतम् । गृहीत्वा सागरचन्द्रं न्यपतत् कृष्णपादयोः ॥७१।। ऊचे विलक्षः कृष्णोऽपि किमिदं रे ! त्वया कृतम् ? । आश्रितोऽयं नभ:सेनो यदेवं हन्त वञ्चितः ॥७२।। अस्य किं कियतेऽद्येति नभःसेनमबोधयत् । ददौ च कमलामेला सागरायैव केशवः ॥७३॥ अपकर्ता नभःसेनोऽप्यक्षमस्तत्प्रभुत्यपि । छिद्रं सागरचन्द्रस्य मार्गयामास सर्वदा ।।७४|| पाइतश्च पत्न्यां वैदर्थ्यां प्रद्युम्नस्य सुतोऽभवत् । अनिरुद्धोऽभिधानेन यौवनं प्रत्यपादि च ॥७५॥ तदा शुभनिवासाख्ये पुरेऽभूत् खेचरेश्वरः । बाणो नामोल्बणबलस्तस्य चोषेति कन्यका ॥७६।। सा च रूपवती स्वानुरूपवल्लभलिप्सया । विद्यामाराधयद् गौरी निश्चयेन गरीयसा ॥७७।। सा तुष्टा तामभाषिष्ट पौत्रः कृष्णस्य शाङ्गिणः । भविष्यत्यनिरुद्धस्ते वरः सुरवरोपमः ॥७८।। आराधितश्च बाणेन गौरीविद्याप्रियः सुरः । शङ्कराख्यो ददावस्याऽजय्यत्वं समराङ्गणे ॥७९।। गौरी तमूचे सर्वत्राऽजय्यत्वं यद् ददौ वरम् । तन्न युक्तं मया दत्तो ह्यस्त्युषाया वरों ननु ॥८०॥ शङ्करोऽप्यवदद् बाणं त्वमजय्यो भविष्यति । स्त्रीकार्यादन्यत इति बाणस्तेनाऽपि पिप्रिये ॥८१।। उषा रूपवतीत्वेन खैचरैर्भूचरेश्च सा । कैः कैर्ययाचे नो बाणान्न ददौ स त्वरोचकी ॥८२॥ पाविद्याधरी चित्रलेखां प्रेष्योषाऽप्यनुरागिणी । आनाययदनिरुद्धं मनसीव निजे गृहे ॥८३॥ तां गान्धर्वविवाहेनोदुह्याऽऽदाय च सोऽचलत् । उषां हृत्वाऽनिरुद्धोऽहं गच्छामीति जगाद च ॥८४॥ ततः क्रुद्धः खेचरेन्द्रो बाणो बाणासनी बलैः । व्याधः श्वभिरिव कोडमनिरुद्धं निरुद्धवान् ॥८५।। पत्युर्विद्यां तदानीं च पाठसिद्धामुषा ददौ । बृंहितौजास्तया सोऽपि बाणेन युयुधे चिरम् ॥८६।। नागपाशैः कमलवद् बद्धः प्रद्युम्ननन्दनः । बाणेनाऽथ तदाख्यायि प्रज्ञप्त्या शाङ्गपाणये ॥८७॥ तत्राऽऽययौ हरिः सीरि-शाम्ब-प्रद्युम्नसंयुतः । दुद्रुवुस्तेऽहिपाशीस्तु गरुडध्वजदर्शनात् ॥८८॥ बाणोऽपि शडरवरेणाऽऽत्मस्थाम्ना११ च गर्वितः । उचे कृष्णं मदोन्मत्तः किं त्वं वेत्सि न मद्बलम् ?||८९।। सदाऽन्यकन्याहरणं त्वमकार्षीस्ततश्च ते । पुत्रादीनां क्रमायातं तत्फलं दर्शयामि वः ॥९॥ ऊचे कृष्णोऽपि केयं ते वाचोयुक्तिर्दुराशय !? । कन्या ह्यवश्यं दातव्या दोषस्तद्वरणेऽस्तु कः? ॥९१॥ श्रुत्वेति खेचरवृतो भृकुटीभीषणाननः । कृष्टबाणासनो बाणो बाणांश्चिक्षेप शाङ्गिणे ॥९२॥ तानन्तराऽपि चिच्छेद छेदच्छेको जनार्दनः । शराशरि तयोरेवं वीरयोर्ववृते चिरम् ॥९३।। निरस्त्रीकृत्य तं कृष्णः कृष्णाहिमिव पक्षिराट् । निकृत्य खण्डशोऽनैषीत् प्रेतराजस्य सद्मनि ॥९४|| अनिरुद्धमुषासमन्वितं समुपादाय जनार्दनस्तत: । 'मुदितःस्मर-सीरि-शाम्बयुग नगरी द्वारवतीं पुनर्ययौ ॥९५|| ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये अष्टमें पर्वणि सागरचन्द्रोपाख्यान-उषाहरणबाणवधवर्णनो नाम अष्टमः सर्गः ।। -x १. आयोध० सं० १. ला० सू० । २. अपहर्तुम् लं. १. ला० सू० ला० पु० ला०२ । ३. उत्कटबलः । ४. सर्वत्राजेयत्वं खं० २ । ५. वरः स नु खं० २ । ६. त्वजजेयो खं० र । ७. धनुर्धरः । ८. वराहम् । ९. तुत्रुटुस्ते पु० । १०. नागपाशाः । ११. आत्मबलेन । १२. च खं० १.२ । १३. हृष्टः प्रद्युम्नसीरि० मु.; रामप्रद्युम्नसीरि० खं० १ । १४. ०ऽष्टमपर्वणि मु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282