Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 112
________________ पञ्चमः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । ततः कालं जरासन्धो राजपञ्चशतीयुतम् । महासेनापरिवृतं यदून् प्रति समादिशत् ॥३६९।। कालो भ्रात्रा यवनेन सहदेवेन चान्वितः । वार्यमाणोऽप्य॑शकुनै निमित्तैनि यिवान् ।।३७०।। स यदूनामनुपदं गच्छन् प्रापाऽचिरादपि । विन्ध्याचलोपत्यकोर्वीमदूरोषितयादवाम् ॥३७१।। दृष्ट्वा कालमथाऽऽसन्नं राम-कृष्णाभिरक्षिकाः । विचक्रुर्देवताः शैलमेकद्वारं पृथुन्नतम् ।।३७२।। उषितं च यदसैन्यं भस्मीभूतं कृशानुना। उपचित्यं स्त्रियमेकां रुदंती च विचक्रिरे ॥३७३।। तां प्रेक्ष्य काल: पप्रच्छ भद्रे ! किमिति रोदिषि ? । साऽऽख्यद् भीता जरासन्धाद् दुद्रुवुर्यदवोऽखिलाः ॥३७४।। तेषां च पृष्ठतो वीरः काल: काल इवाऽचलत् । तत्राऽऽसन्ने च चकिताः प्राविशन् यदवोऽनले ॥३७५।। दशाह राम-कृष्णौ च चितायामविशन्निह । तेषां वियोगे बन्धूनां वेक्ष्याम्यग्नावसावहम् ॥३७६।। इत्युक्त्वा साऽविशद् वह्नौ देवतामोहितश्च सः । कालोऽवोचत् सहदेवं यवनं भूभुजोऽपि च ॥३७७।। मया तातस्य जामेश्च पुरतोऽदः प्रतिश्रुतम् । वह्नयादिभ्योऽपि कृष्ट्वाऽहं हनिष्यामि यदून् खलु ॥३७८।। प्रविष्टान् मद्भयादग्नौ तान् हन्तुमहमप्यहो ! । सत्यसन्धः प्रवेक्ष्यामि ज्वलितेऽस्मिन् हुताशने ॥३७९।। इत्युक्त्वा सोऽसिफलकी विवेशाऽग्नौ पतङ्गवत् । मृतश्च स्वेषु पश्यत्सु देवतामोहितात्मसु ॥३८०॥ पाअत्राऽन्तरे चाऽस्तगिरि जगाम भगवान् रविः । ऊषुस्तत्रैव यवन-सहदेवादयश्च ते ॥३८१॥ जाते प्रभाते तेऽपश्यंस्तं नाद्रिं न चितां च ताम् । दूरं गता यदवश्चेत्याख्यंस्तेभ्यश्च हेरिकाः ॥३८२।। वृद्धौंलोचनतो ज्ञात्वा सम्मोहं देवताकृतम् । यवनाद्या निवृत्याऽऽख्युस्तत्सर्वं मगधेशितुः ॥३८३।। अतुच्छया मूर्च्छयाऽथ जरासन्धोऽपतद् भुवि । ससंज्ञः काल ! कालेति कंस ! कंसेति चाऽरुदत् ।।३८४।। पाविज्ञाय कालमरणं गच्छन्तो यदवोऽपि ते । आनर्चुः क्रोष्टकिं जातप्रत्ययं भूरिसम्मदाः ॥३८५।। पथ्येकस्मिन् वने तेषां तस्थुषां सोऽतिमुक्तकः । समाययौ चारणर्षिर्दशाशेन चाऽऽर्च्यत ॥३८६॥ समुद्रविजयोऽपृच्छत् तं प्रणम्य महामुनिम् । अमुष्मिन् व्यसनेऽस्माकं भगवन् ! कि भविष्यति ? ॥३८७।। ऋषिर्बभाषे मा भैषीविंशो ह्येष तीर्थकृत् । कुमारोऽरिष्टनेमिस्ते त्रैलोक्याद्वैतपौरुषः ॥३८८॥ राम-कष्णौ बल-विष्ण द्वारकास्थाविमौ पनः । जरासन्धवधादर्धभरतेशौ भविष्यतः ॥३८९। ततो हृष्टस्तमचित्वा समुद्रो व्यसृजत् मुनिम् । सुखाकरैः प्रयाणैश्च सुराष्ट्रीमण्डलं ययौ ॥३९०॥ पातत्र रैवतकस्याद्रेः प्रत्यगुत्तरतोऽथ ते । अष्टादशकुलकोटीसंयुताः शिबिरं न्यधुः ॥३९१॥ कृष्णपत्नी सत्यभामा तत्राऽसूत सुतावुभौ । भानु-भामरनामानौ जात्यजाम्बूनदद्युती ॥३९२॥ दिने क्रोष्टकिनाऽऽख्याते स्नातः कतबलिहरिः । अम्भोधिं पूजयामास विदधे चाऽष्टमं तपः ॥३९३।। ततस्तृतीययामिन्यां नभस्थः सुस्थितोऽमरः । लवणाब्धेरधिष्ठाता तत्राऽऽगच्छन् कृताञ्जलिः ॥३९४।। कंसारये पाञ्चजन्यं सुघोषं मुष्टिकारये । ददौ स देवो दिव्यानि रत्नमाल्यांशुकानि च ॥३९५।। स देवः कृष्णमूचे च कुतो हेतोस्त्वया स्मृतः ? । सुस्थितो नाम देवोऽहं ब्रूहि किं करवाणि ते ? ॥३९६।। उवाच कृष्णस्तं देवं या पूर्वं पूर्वशाङ्गिणाम् । पुर्यत्र द्वारकेत्यासीत् पिहिता सा त्वयाऽम्भसा ॥३९७॥ ममाऽपि हि निवासाय तस्याः स्थानं प्रकाशय । 'तथा' कृत्वा सोऽपि देवो गत्वेन्द्राय व्यजिज्ञपत् ॥३९८॥ शक्राज्ञया वैश्रवणश्चके रत्नमयीं पुरीम् । द्वादशयोजनायामां नवयोजनविस्तृताम् ।।३९९।। तुङ्गमष्टादशहस्तान्नवहस्तान् स भूगतम् । विस्तीर्णं द्वादशहस्तांश्चक्रे वप्रं सखौतिकम् ॥४००।। वृत्ताश्च चतुरस्राश्च व्यायता गिरिकूटकाः । स्वस्तिकाः सर्वतोभद्रा मन्दरा अवतंसकाः ॥४०१।। वर्धमानाश्चेतिसंज्ञाः प्रासादास्तत्र लक्षशः । एकभूमा द्विभूमाश्च त्रिभूमाद्याश्च निमिताः ॥४०२॥ युग्मम् ।। १. प्यशकुनदुनिमित्तैनि० छा० मु० विना । २. निर्जगाम । ३. ०रक्षका: मु० र० । ४. चितासमीपे । ५. रुदन्ती मु० । ६. प्रतिश्रवम् पा० । ७. चरपुरुषाः । ८. वृद्धालोकनतो पा० पु० । ९. जातसंमदा: ला०सू० । १०. चार्चित: ला०ता०सं०पु० । ११. सौराष्ट्रदेशम् । १२. वायव्यदिशि। १३. व्यधुः ला०ला०र०।१४. जात्यसुवर्णवत् कान्तिः ययो तौ। १५. कृष्णाय। १६. बलदेवाय । १७. पूर्ववासुदेवानाम् । १८. नवहस्तान् महीगतम् पु० । ०हस्तांश्च भू० मु० । १९. सुखा० मु० । २०. मन्दारा खं० २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282