Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 140
________________ सप्तमः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । ११३ तौ दिव्यैरायसैश्चाऽस्त्रैर्दन्तैरिव सुरद्विपौ । युध्यमानौ समभूतां जगत्त्रयभयङ्करौ ॥३६३।। चिरादुभौ च क्षीणास्त्रौ क्षीणतोयाविवाऽम्बुदौ । दोर्दण्डाभ्यामयुध्येतां मुष्टामुष्टिविधायिनौ ॥३६४।। तावकम्पयतां भूमिं पतनोत्पतनैर्दृढैः । भुजास्फोटरवैश्चोभौ दिशोऽस्फोटयतामिव ॥३६५।। बद्धवा च भूरिश्रवसं योक्त्रबन्धेन सात्यकिः । वालयित्वा गलं पृष्ठे जानुनाऽऽक्रम्य चाऽवधीत् ॥३६६।। पाइतो हिरण्यनाभस्याऽनाधृष्टिश्चापमच्छिदत् । सोऽप्यनाधृष्टयेऽमुञ्चत् परिघं परघातनम् ॥३६७।। तमापतन्तं विशिखैरनाधृष्टिरखण्डयत् । स्फुलिङ्गजालैरुद्यद्भिद्योतितदिगन्तरम् ॥३६८॥ अनाधृष्टरन्तचिकी रथादुत्तीर्य वेगवान् । हिरण्यनाभश्चर्माऽसिपाणि: पद्भ्यामधावत ॥३६९।। कृष्णाग्रजोऽपि चोत्तीर्य खड्ग-खेटकभृद् द्रुतम् । चरन् विचित्रचारीभिः सुचिरं तमखेदयत् ॥३७०।। अनाधृष्टिलघुहस्तश्छलं लब्ध्वाऽसिनाऽच्छिदत् । वपुर्हिरण्यनाभस्य ब्रह्मसूत्रेण दारुवत् ॥३७१।। जरासन्धमथोपेयुः शरणं तन्महीभुजः । पश्चिमाब्धावमज्जच्च तदानीमुष्णदीधितिः ॥३७२।। ययौ कृष्णमनाधृष्टिः पूजितो यदु-पाण्डवैः । कृष्णाज्ञया च सर्वेऽपि स्वं स्वं शिबिरमभ्ययुः ॥३७३॥ पअथ राजा जरासन्धो मन्त्रयित्वा तदैव हि । अभ्यषिञ्चच्चमूपत्वे शिशुपालं महाबलम् ॥३७४।। यदवो गरुडव्यूहं गरुडध्वजशासनात् । विधाय प्रातरातस्थुस्तथैव समरावनिम् ॥३७५।। तथैव शिशुपालोऽपि चक्रव्यूहं विनिर्ममे । ततो राजा जरासन्धः शिश्राय समरोवनिम् ॥३७६॥ जरासन्धेन पृष्टोऽथ हंसकः परसैनिकान् । अङ्गुल्या दर्शयन्नामग्राहमित्याख्यदुच्चकैः ॥३७७।। कृष्णाश्वेन रथेनाऽयमनाधृष्टिर्गजध्वजः । नीलाश्वेन रथैनैष पाण्डुपुत्रो युधिष्ठिरः ॥३७८॥ धनञ्जयः पुनरयं रथेन श्वेतवाजिना । नीलोत्पलदलाभाश्वरथस्त्वेष वृकोदरः ॥३७९॥ समुद्रविजयः स्वर्णवर्णाश्वोऽयं हरिध्वजः । अयं तु शुक्रवर्णाश्वोऽरिष्टनेमिर्वृषध्वजः ॥३८०।। अयं च शबलैरश्वैरक्रूरः कदलीध्वजः । एष तित्तिरकल्माषैः सात्यकिस्तु तुरङ्गमैः ॥३८१।। महानेमिकमारोऽयं कमदाभैस्तुरङ्गमैः । उग्रसेनः पुनरयं शुकतुण्डप्रभैर्हयैः ॥३८२॥ जरत्कुमारः कनकपृष्ठाश्वोऽयं मृगध्वजः । काम्बोजैर्वाजिभिश्चाऽयं सिंहल: श्लक्ष्णरोमसूः ॥३८३।। मेरुः कपिलरक्ताश्वः शिशुमारध्वजस्त्वसौ । पद्माभैर्वाजिभिश्चैष राजा पद्मरथः पुरः ॥३८४।। पारापतप्रभाश्वोऽयं सारण: पुष्करध्वजः । पञ्चपुण्ड्रैर्हयैरेष कुम्भकेतुर्विदूरथः ॥३८५।। सैन्यान्तर्धवलैरश्वैः कृष्णोऽयं गरुडध्वजः । अन्तव्योम बलाकाभिः प्रावृषेण्य इवाऽम्बुदः ॥३८६।। अस्य दक्षिणपक्षस्थो रिष्टवणैस्तरङ्गमैः । तालध्वजो रौहिणेयः कैलास इव जङ्गमः ॥३८७॥ भूयांसो यदवोऽन्येऽपि नानाहय-रथ-ध्वजाः । महारथाः साम्प्रतं ते शक्याः कथयितुं न हि ॥३८८|| पतच्च श्रुत्वा जरासन्धः क्रोधादास्फालयद् धनुः । राम-कृष्णौ प्रति रथं प्रेरयामास वेगतः ॥३८९|| युवराजो जरासन्धतनयो यवनः क्रुधा । वसुदेवसुतान् हन्तुमक्रूरादीनधावत ॥३९०॥ शरभस्येव पञ्चास्यैः सह तैरभवद् रणः । यवनस्य महाबाहोः संहार इव भीषणः ॥३९॥ रामानुज: सारणोऽथाऽद्वैतसारो रुरोध तम् । विचित्रपत्रिभिर्वर्षन् वर्षाभव इवाऽम्बुदः ॥३९२।। मलयेनेव तुङ्गेन मलयाख्येन दन्तिना । यवनः सारणरथं सह रथ्यैरभञ्जयत् ॥३९३॥ गजे परिणते तस्मिन् यवनस्य शिरोऽसिना । चिच्छेद सारणो वातान्दोलितद्रोः फलं यथा ॥३९४।। तस्येभस्योत्तिष्ठतश्च हस्तदन्तं चकर्त सः । प्रावृषीव 'शिखिकुलं कृष्णसैन्यं ननर्त च ॥३९५।। दृष्ट्वा सुतवधं कुद्धो जरासन्धो धनुर्धरः । यदून् हन्तुं प्रववृते मृगारातिर्मूगानिव ॥३९६॥ आनन्दः शत्रुदमनो नन्दनः श्रीध्वजो ध्रुवः । देवानन्दश्चारुदत्तः पीठश्च हरिषेणकः ॥३९७॥ १. नाशं चिकीर्षुः । २. रणभूमिम् । ३. कबुरैः। ४. महानेमिः खं० र, ला० सू० । ५. आकाशमध्ये । ६. बलदेवः । ७. अद्वैतपराक्रमः । ८. मलयाचलपर्वतेन । ९. मयूरसमूह: । १०. सिंहः । ११. आनन्दशत्रुदमनौ मु० र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282