________________
पञ्चमः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
ततः कालं जरासन्धो राजपञ्चशतीयुतम् । महासेनापरिवृतं यदून् प्रति समादिशत् ॥३६९।। कालो भ्रात्रा यवनेन सहदेवेन चान्वितः । वार्यमाणोऽप्य॑शकुनै निमित्तैनि यिवान् ।।३७०।। स यदूनामनुपदं गच्छन् प्रापाऽचिरादपि । विन्ध्याचलोपत्यकोर्वीमदूरोषितयादवाम् ॥३७१।। दृष्ट्वा कालमथाऽऽसन्नं राम-कृष्णाभिरक्षिकाः । विचक्रुर्देवताः शैलमेकद्वारं पृथुन्नतम् ।।३७२।। उषितं च यदसैन्यं भस्मीभूतं कृशानुना। उपचित्यं स्त्रियमेकां रुदंती च विचक्रिरे ॥३७३।। तां प्रेक्ष्य काल: पप्रच्छ भद्रे ! किमिति रोदिषि ? । साऽऽख्यद् भीता जरासन्धाद् दुद्रुवुर्यदवोऽखिलाः ॥३७४।। तेषां च पृष्ठतो वीरः काल: काल इवाऽचलत् । तत्राऽऽसन्ने च चकिताः प्राविशन् यदवोऽनले ॥३७५।। दशाह राम-कृष्णौ च चितायामविशन्निह । तेषां वियोगे बन्धूनां वेक्ष्याम्यग्नावसावहम् ॥३७६।। इत्युक्त्वा साऽविशद् वह्नौ देवतामोहितश्च सः । कालोऽवोचत् सहदेवं यवनं भूभुजोऽपि च ॥३७७।। मया तातस्य जामेश्च पुरतोऽदः प्रतिश्रुतम् । वह्नयादिभ्योऽपि कृष्ट्वाऽहं हनिष्यामि यदून् खलु ॥३७८।। प्रविष्टान् मद्भयादग्नौ तान् हन्तुमहमप्यहो ! । सत्यसन्धः प्रवेक्ष्यामि ज्वलितेऽस्मिन् हुताशने ॥३७९।।
इत्युक्त्वा सोऽसिफलकी विवेशाऽग्नौ पतङ्गवत् । मृतश्च स्वेषु पश्यत्सु देवतामोहितात्मसु ॥३८०॥ पाअत्राऽन्तरे चाऽस्तगिरि जगाम भगवान् रविः । ऊषुस्तत्रैव यवन-सहदेवादयश्च ते ॥३८१॥
जाते प्रभाते तेऽपश्यंस्तं नाद्रिं न चितां च ताम् । दूरं गता यदवश्चेत्याख्यंस्तेभ्यश्च हेरिकाः ॥३८२।। वृद्धौंलोचनतो ज्ञात्वा सम्मोहं देवताकृतम् । यवनाद्या निवृत्याऽऽख्युस्तत्सर्वं मगधेशितुः ॥३८३।।
अतुच्छया मूर्च्छयाऽथ जरासन्धोऽपतद् भुवि । ससंज्ञः काल ! कालेति कंस ! कंसेति चाऽरुदत् ।।३८४।। पाविज्ञाय कालमरणं गच्छन्तो यदवोऽपि ते । आनर्चुः क्रोष्टकिं जातप्रत्ययं भूरिसम्मदाः ॥३८५।। पथ्येकस्मिन् वने तेषां तस्थुषां सोऽतिमुक्तकः । समाययौ चारणर्षिर्दशाशेन चाऽऽर्च्यत ॥३८६॥ समुद्रविजयोऽपृच्छत् तं प्रणम्य महामुनिम् । अमुष्मिन् व्यसनेऽस्माकं भगवन् ! कि भविष्यति ? ॥३८७।। ऋषिर्बभाषे मा भैषीविंशो ह्येष तीर्थकृत् । कुमारोऽरिष्टनेमिस्ते त्रैलोक्याद्वैतपौरुषः ॥३८८॥ राम-कष्णौ बल-विष्ण द्वारकास्थाविमौ पनः । जरासन्धवधादर्धभरतेशौ भविष्यतः ॥३८९। ततो हृष्टस्तमचित्वा समुद्रो व्यसृजत् मुनिम् । सुखाकरैः प्रयाणैश्च सुराष्ट्रीमण्डलं ययौ ॥३९०॥ पातत्र रैवतकस्याद्रेः प्रत्यगुत्तरतोऽथ ते । अष्टादशकुलकोटीसंयुताः शिबिरं न्यधुः ॥३९१॥
कृष्णपत्नी सत्यभामा तत्राऽसूत सुतावुभौ । भानु-भामरनामानौ जात्यजाम्बूनदद्युती ॥३९२॥ दिने क्रोष्टकिनाऽऽख्याते स्नातः कतबलिहरिः । अम्भोधिं पूजयामास विदधे चाऽष्टमं तपः ॥३९३।। ततस्तृतीययामिन्यां नभस्थः सुस्थितोऽमरः । लवणाब्धेरधिष्ठाता तत्राऽऽगच्छन् कृताञ्जलिः ॥३९४।। कंसारये पाञ्चजन्यं सुघोषं मुष्टिकारये । ददौ स देवो दिव्यानि रत्नमाल्यांशुकानि च ॥३९५।। स देवः कृष्णमूचे च कुतो हेतोस्त्वया स्मृतः ? । सुस्थितो नाम देवोऽहं ब्रूहि किं करवाणि ते ? ॥३९६।। उवाच कृष्णस्तं देवं या पूर्वं पूर्वशाङ्गिणाम् । पुर्यत्र द्वारकेत्यासीत् पिहिता सा त्वयाऽम्भसा ॥३९७॥ ममाऽपि हि निवासाय तस्याः स्थानं प्रकाशय । 'तथा' कृत्वा सोऽपि देवो गत्वेन्द्राय व्यजिज्ञपत् ॥३९८॥ शक्राज्ञया वैश्रवणश्चके रत्नमयीं पुरीम् । द्वादशयोजनायामां नवयोजनविस्तृताम् ।।३९९।। तुङ्गमष्टादशहस्तान्नवहस्तान् स भूगतम् । विस्तीर्णं द्वादशहस्तांश्चक्रे वप्रं सखौतिकम् ॥४००।। वृत्ताश्च चतुरस्राश्च व्यायता गिरिकूटकाः । स्वस्तिकाः सर्वतोभद्रा मन्दरा अवतंसकाः ॥४०१।। वर्धमानाश्चेतिसंज्ञाः प्रासादास्तत्र लक्षशः । एकभूमा द्विभूमाश्च त्रिभूमाद्याश्च निमिताः ॥४०२॥ युग्मम् ।। १. प्यशकुनदुनिमित्तैनि० छा० मु० विना । २. निर्जगाम । ३. ०रक्षका: मु० र० । ४. चितासमीपे । ५. रुदन्ती मु० । ६. प्रतिश्रवम् पा० । ७. चरपुरुषाः । ८. वृद्धालोकनतो पा० पु० । ९. जातसंमदा: ला०सू० । १०. चार्चित: ला०ता०सं०पु० । ११. सौराष्ट्रदेशम् । १२. वायव्यदिशि। १३. व्यधुः ला०ला०र०।१४. जात्यसुवर्णवत् कान्तिः ययो तौ। १५. कृष्णाय। १६. बलदेवाय । १७. पूर्ववासुदेवानाम् । १८. नवहस्तान् महीगतम् पु० । ०हस्तांश्च भू० मु० । १९. सुखा० मु० । २०. मन्दारा खं० २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org